| YouTube Channel

गोव्रत (govrata)

 
Spoken Sanskrit
English
गोव्रत govrata
adj.
one who imitates a cow in frugality
अनुबन्ध anubandha
m.
child or pupil who imitates an example set by a parent or preceptor
Monier Williams Cologne
English
गो—व्रत
mfn.
one who imitates a cow in frugality,
MBh.
v, 3560.
Shabdartha Kaustubha
Kannada
गोव्रत
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಗೋಹತ್ಯೆ ಮಾಡಿದವನು ಗೋವುಗಳ ವಿಷಯದಲ್ಲಿ ಮಾಡಬೇಕಾದ ಒಂದು ವ್ರತ
व्युत्पत्तिः - > गोहत्यानिमित्तं गोषु व्रतम्
गोव्रत
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಗೋವುಗಳ ಸೇವಾರೂಪವಾದ ವ್ರತ
वाचस्पत्यम्
Sanskrit
गोव्रत
न०
गोहत्यानिमित्तं गोषु व्रतम् गोहत्यानिमित्तेगोषु व्रतभेदे तच्च व्रतं विष्णुनोक्तं यथा ।“मासमेकं कृतवापनो गवानुगमनं कुर्य्यात् आसीना-स्वासीत स्थितासु स्थितः स्यात् अवसन्नाञ्चोद्धरेत् भये-भ्यश्च रक्षेत् तासां शीतादित्राणमकृत्वा नात्मनः कुर्य्यात्गोमूत्रेण स्नायात् गौरसैश्च वर्त्तेत एतद् गोव्रतंगोबधे कुर्य्यात्” पराशरस्तु सापवादं तत्र विशेषमाह“गवां संरक्षणार्थाय दुष्येद्रोधबन्धयोः तद्बधन्तुन तं विद्यात् कामाकामकृतन्तथा अङ्गुष्ठमात्र-स्थूलोवा बाहुमात्रः प्रमाणतः आर्द्रस्तु सपलाशश्चदण्डैत्यभिधीयते दण्डादूर्द्ध्वं यदन्येन प्रहरेद्वानिपातयेत् प्रायश्चित्तं चरेत् प्रोक्तं द्विगुणं गोब्र-तञ्चरेत् रोधबन्धनयोक्त्राणि धातनञ्च चतुर्विधम् ।एकपादञ्चरेद्रोधे द्विपादं बन्धने चरेत् योक्त्रेषुपादहीनं स्याच्चरेत् सर्वं निपातने गोचारे गृहेवापि दुर्गेष्वपि समेष्वपि नदीष्वपि समुद्रेषु खाते-ऽप्यथ दरीमुखे दग्धदेशे स्थिताः गावस्तम्भनाद्रोधउच्यते योक्त्रदामकडोरैश्च घण्टाभरणभूषणैः ।गृहे वापि वने वापि बद्धा स्याद्गौर्मृता यदि ।तदेव बन्धनं विद्यात् कामाकामकृतञ्च तत् मृल्लेखेशकटे पङ्क्तौ भारे वा पीडितोनरैः गोपतिर्मृत्यु-माप्नोति योक्त्रे भवति तद्बधः मत्तः प्रमत्तौन्मत्तश्चे-तनोवाप्यचेतनः कामाकामकृतक्रोधाद्दण्डैर्हन्यादथो-पलैः प्रहता वा मृता वापि तद्धि हेतुर्निपातने ।मूर्च्छितः पतितोवापि दण्डेनाभिहतः तु उत्थितस्तु यदा गच्छेत् पञ्च सप्त दशैव वा (पदानि) ग्रामं वायदि गृह्णीयात्तोयं वापि पिबेद् यदि पूर्वव्याध्युप-सृष्टश्चेत् प्रायश्चित्तं विद्यते पिण्डस्थे पादमेकन्तुद्वौ पादौ गर्भसम्मिते पादोनं व्रतमुद्दिष्टं हत्वागर्भमचेतनम् पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि ।त्रिपादे तु शिखावर्जं सशिखन्तु निपातने पादे वस्त्रयुग-ञ्चैब द्विपादे कांस्यभाजनम् पादोने गोवृषं दद्याच्च-तुर्थे गोद्वयं स्मृतम् निष्पन्नसर्वगात्रन्तु दृश्यते वासचेतनम् अङ्गप्रत्यङ्गसम्पन्ने द्विगुणं गाव्रतं चरेत् ।पाषाणेनैव दण्डेन गावोयेनाभिघातिताः शृङ्गभचरेत् पादं द्वौ पादौ तेन पातने लाङ्गूले कृच्छ्रपादन्तु द्वौ पादावस्थिभञ्जने त्रिपादञ्चैव कर्णे तु चरेत्सर्वं निपातने शृङ्गभङ्गेऽस्थिभङ्गे कटिभङ्गे तथैवच यदि जीवति षण्मासान् प्रायश्चित्तं विद्यते ।व्रणभङ्गे कर्त्तव्यः स्नेहाभ्यङ्गस्तु पाणिना यवस-श्चापहर्त्तव्योयावद्दृढबलोभवेत् यावत्सम्पूर्णसर्वाङ्ग-स्तावत्तं पोषयेन्नरः गामेवं ब्राह्मणस्याग्रे नमस्कृत्यविसर्जयेत् यद्यसम्पूर्णसर्वाङ्गोहीनदेहोभवेत्तदा गो-घातकस्य तस्यार्द्धं प्रायश्चित्तं विनिर्द्दिशेत् काष्ठलोष्ट्रक-प्राषाणैः शस्त्रेणोपहतो बलात् व्यापादयति यो गान्तुतस्य शुद्धिं विनिर्दिशेत् चरेत् सान्तपनं काष्ठे, प्राजा-पत्यन्तु लोष्ट्रके तप्तकृच्छ्रन्तु पाषाणे शस्त्रे चैवाति-कृच्छ्रकम् पञ्च सान्तपने गावः प्राजाप्रत्ये तथा त्रयः ।तप्तकृच्छ्रे भवन्त्यष्टावतिकृच्छ्रे त्रयोदश प्रमापणे प्रा-णभृतां दद्यात्तत्प्रतिरूपकम् तस्यानुरूपं मूल्यं वादद्यादित्यब्रवीन्मनुः अन्यत्राङ्कनलक्ष्मभ्यां वाहने दाह-ने तथा सायं संयमनार्थन्तु दुष्येद्रोधबन्धयोः ।अतिदाहेऽतिवाहे नासिकाभेदने तथा नदीपर्व-तसञ्चारे प्रायश्चित्तं बिनिर्द्दिशेत् अतिदाहे चरेत्पादं द्वौ पादौ वाहने चरेत् नासिके पादहीनन्तुचरेत् सर्वं निपातने दहनाच्च बिपद्येत अबद्धो-वापि यन्त्रितः उक्तं पराशरेणैव ह्येकपादं यथा-विधि रोधबन्धनयोक्त्रञ्च भारः प्रहरणं तथा ।दुर्गप्रतरयोक्त्रञ्च निमित्तानि बधस्य षट् बन्धपाश-सुगुप्ताङ्गोम्रियते यदि गोपशुः भवने तस्य नाशस्यपापे कृच्छ्रार्द्धमर्हति नारिकेलैर्नच शाणबालैर्न-चापिं मौञ्जैर्नच बद्धशृङ्खलैः एतैस्तु गावोन निबन्ध-नीयाबद्ध्वा तु तिष्ठेत् परशुं गृहीत्वा कुशैः काशैश्चबध्नीयाद्गोपशुं दक्षिणामुखम् पाशलग्नाग्निदग्धेषुप्रायश्चित्तं विद्यते यदि तत्र भवेत् मृत्युः प्रायश्चित्तंकथं भवेत्? जपित्वा पावनीं देवीं मुच्यते तत्र किल्वि-षात् प्रेरयन् कूपवापीषु वृक्षच्छेदेषु पातयन् गवाश-नेषु विक्रीणंस्ततः प्राप्नोति गोबधम् आराधितस्तु यःकश्चिद्भिन्नकक्षोयदा भवेत् श्रवणं हृदयं भिन्नं मग्नोवाकूपसङ्कटे कूपादुत्क्रमणे चैव भग्नोवा ग्रीवापादयोः ।स एवं म्रियते, तत्र त्रीन् पादांस्तु समाचरेत् कूपखातेतटीबन्धे नदीबन्धे प्रपासु पानीयेषु विपन्नानां पाय-श्चित्तं विद्यते कूपखाते तटीखाते दीर्घखाते तथैव ।अन्येषु धर्मखातेषु प्रायश्चित्तं विद्यते वेश्मद्वारनिवासेषु योनरः खातमिच्छति स्वकार्य्यगृहखातेषुप्रायश्चित्तं विनिर्द्दिशेत् निशि बन्धनिरुद्धेषु सर्पव्याघ्र-हतेषु अग्निविद्युद्विपन्नानां प्रायश्चित्तं विद्यते ।ग्रामघाते शरौघेण वेश्मबन्धनिपातने अतिवृष्टिहता-नाञ्च प्रायश्चित्तं विद्यते संग्रामे प्रहतानाञ्च येदग्धा वेश्मकेषु दावाग्नौ ग्रामघाते वा प्रायश्चित्तं नविद्यते यन्त्रिता गौश्चिकित्सार्थं मूढगर्भविमोचने ।यत्ने कृते विपद्येत प्रायश्चित्तं विद्यते व्यापन्नानांबहूनाञ्च बन्धने रोधनेऽपि वा भिषग्मिथ्योपचारे चप्रायश्चित्तं विनिर्द्दिशेत् गोवृषाणां विपत्तौ यावन्तःप्रेक्षकाजनाः वारयन्ति तां तेषां सर्वेषां पातकं भवेत् ।एकोहतोयैर्बहुभिः समस्तैर्न ज्ञायते कस्य हतोऽभिथाता-त् दिव्येन तेषामुपलभ्य हन्ता निर्वर्त्तनीयोनृपमन्नि-युक्तैः एका चेद्बहुभिः क्वापि दैवाद्व्यापादिता भवेत् ।पादं पादञ्च हत्यायाश्चरेयुस्तं पृथक् पृथक् हतेषु रुधिरंदृश्यं व्याधिग्रस्तः कृशोभवेत् नाना मवति दृष्टेषु एव-मन्वेषणं भवेत् मनुना चैवमेकेन सर्वशास्त्राणि जान-ता प्रायश्चित्तन्तु तेनोक्तं गोषु चान्द्रायणं चरेत् केशानांरक्षणार्थाय द्बिगुणं गोव्रतं चरेत् द्विगुणे व्रतआदिष्टेदक्षिणा द्विगुणा भवेत् राजा वा राजपुत्रोवा ब्राह्म-णोवो बहुश्रुतः अकृत्वा वपनं तस्य प्रायश्चित्तं विनि-र्दिशेत् यस्य द्विगुणं दानं केशश्च परिरक्षितः ।तत्पापं तस्य तिष्ठेत वक्ता नरकं व्रजेत यत्कि-ञ्चित् क्रियते पापं सवं केशेषु तिष्ठति सर्वान् केशान्समुद्धृत्य च्छेदयेदङ्गुलिद्वयम् एवं नारीकुमारीणां शि-रसोमुण्डनं स्मृतम् स्त्रियाः केशवपनं दूरे श-थनासनम् गोष्ठेवसेद्रात्रौ दिवा गाअनुव्रजेत् ।नंदीषु सङ्गमे चैव अरण्येषु विशेषतः स्त्रीणामजिनंवा सोव्रतमेवं समाचरेत् त्रिसन्ध्य स्नानमित्युक्तं सुरा-णामर्च्चनं तथा बन्धुमध्ये व्रतं तासां कृच्छ्रचान्द्रायणा-दिकम् गृहेषु नियतं तिष्ठच्छ चिर्नियममाचरेत् इहयोगाबधं कृत्वा प्रच्छादयितुमिच्छति याति नरकं घोरंकालसूत्रमसंशयम् विमुक्तानरकात्तस्मान्मर्त्त्यलाके प्रजा-यते क्लीवोदुःखी कुष्ठी सप्त जन्मानि वै नरः ।तस्मात् प्रकाशयेत् पापं स्वधर्मं सततं चरेत् स्त्रीबाल-भृयगोविप्रेष्वतिकोपं विवर्जयेत” अधिकं गोहत्याशब्ददृश्यम् गोहितं व्रतम् गोसेवारूपे व्रते गोशब्देतत्परिचर्य्याप्रकरणे उदा० तत्प्रकारश्च तत्र दृश्यः