| YouTube Channel

गोविन्दः (govindaH)

 
Wordnet
Sanskrit
Synonyms:
कृष्णः, नारायणः, दामोदरः, हृषीकेशः, केशवः, माधवः, अच्युतः, गोविन्दः, जनार्दनः, गिरिधरः, दैवकीनन्दनः, माधवः, शौरिः, अहिजितः, योगीश्वरः, वंशीधरः, वासुदेवः, कंसारातिः, वनमाली, पुराणपुरुषः, मुकुन्दः, कंसारिः, वासुः, मुरलीधरः, जगदीशः, गदाधरः, नन्दात्मजः, गोपालः, नन्दनन्दनः, यादवः, पूतनारिः, मथुरेशः, द्वारकेशः, पाण्डवायनः, देवकीसूनुः, गोपेन्द्रः, गोवर्धनधरः, यदुनाथः, चक्रपाणिः, चतुर्भुजः, त्रिविक्रमः, पुण्डरीकाक्षः, गरुडध्वजः, पीताम्बरः, विश्वम्भरः, विश्वरुजः, सनातनः, विभुः, कान्तः, पुरुषः, प्रभुः, जितामित्रः, सहस्रवदनः
noun
यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः अवतारः इति मन्यते।
"सूरदासः कृष्णस्य परमो भक्तः।"
Synonyms:
विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शार्ङ्गी, विष्वक्सेनः, जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, दैवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वम्भरः, कैटभजित्, विधुः, श्रीवत्सलाञछनः, पुराणपुरुषः, वृष्णिः, शतधामा, गदाग्रजः, एकशृङ्गः, जगन्नाथः, विश्वरूपः, सनातनः, मुकुन्दः, राहुभेदी, वामनः, शिवकीर्तनः, श्रीनिवासः, अजः, वासुः, श्रीहरिः, कंसारिः, नृहरिः, विभुः, मधुजित्, मधुसूदनः, कान्तः, पुरुषः, श्रीगर्भः, श्रीकरः, श्रीमान्, श्रीधरः, श्रीनिकेतनः, श्रीकान्तः, श्रीशः, प्रभुः, जगदीशः, गदाधरः, अजितः, जितामित्रः, ऋतधामा, शशबिन्दुः, पुनर्वसुः, आदिदेवः, श्रीवराहः, सहस्रवदनः, त्रिपात्, ऊर्ध्वदेवः, गृध्नुः, हरिः, यादवः, चाणूरसूदनः, सदायोगी, ध्रुवः, हेमशङ्खः, शतावर्त्ती, कालनेमिरिपुः, सोमसिन्धुः, विरिञ्चिः, धरणीधरः, बहुमूर्द्धा, वर्धमानः, शतानन्दः, वृषान्तकः, रन्तिदेवः, वृषाकपिः, जिष्णुः, दाशार्हः, अब्धिशयनः, इन्द्रानुजः, जलशयः, यज्ञपुरुषः, तार्क्षध्वजः, षड्बिन्दुः, पद्मेशः, मार्जः, जिनः, कुमोदकः, जह्नुः, वसुः, शतावर्तः, मुञ्जकेशी, बभ्रुः, वेधाः, प्रस्निशृङ्गः, आत्मभूः, सुवर्णबिन्दुः, श्रीवत्सः, गदाभृत्, शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, जलशायी, मुरमर्दनः, लक्ष्मीपतिः, मुरारिः, अमृतः, अरिष्टनेमः, कपिः, केशः, जगदीशः, जनार्दनः, जिनः, जिष्णुः, विक्रमः, शर्वः
noun
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
"एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।"
Synonyms:
गोविन्दः
noun
लेखकानां नामविशेषः
"गोविन्दः इति नैकेषाम् लेखकानां नाम अस्ति"
Synonyms:
गोविन्दः
noun
एकः पर्वतः
"गोविन्दस्य उल्लेखः महाभारते वर्तते"
Synonyms:
गोविन्दः
noun
आचार्याणां नामविशेषः
"गोविन्दः इति नैकेषाम् आचार्याणां नाम अस्ति"
Synonyms:
गोविन्दः
noun
एकः राजपुत्रः
"गोविन्दस्य उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
गोविन्दः,
पुं,
(गां पृथ्वीं धेनुं वा विन्दतीति ।विन्द + “अनुपसर्गाल्लिम्पेति ।” १३८ ।इत्यस्य “गवादिषु विन्देः संज्ञायाम् ।” इतिवार्त्तिकोक्त्या शः ।) श्रीकृष्णः (यथा, भग-वद्गीतायाम् ३२ ।“किं नो राज्येन गोविन्द ! किं भोगैर्जीवि-तेन वा
”)एतस्य शास्त्रान्तरीयव्युत्पत्तिर्यथा, हरिवंशे--विष्णुपर्व्वणि ७५ ४३--४५ ।“अद्य प्रभृति नो राजा त्वमिन्द्रो वै भव प्रभो ! ।तस्मात्त्वं काञ्चनैः पूर्णैर्दिव्यस्य पयसो घटैः
एभिरद्याभिषिच्यस्व मया हस्तावनामितैः ।अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः
गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्व-तम्
”गोभिर्वाणीभिर्वेदान्तवाक्यैर्विद्यते योऽसौ पुरुष-विदन्ति यं पुरुषं तत्त्वज्ञा इति वा यथा, विष्णुतिलके ।“गोभिरेव यतो वेद्यो गोविन्दः समुदाहृतः
”गां वेदलक्षणां वाणीं गोभूम्यादिकं वा वेत्तीति ।यथा, गोपालतापन्यां पूर्व्वविभागे ध्यानप्रक-रणे ७--८ ।“तदु होचुः कः कृष्णो गोविन्दश्च कोऽसावितिगोपीजनवल्लभः कः का स्वाहेति
तानुवाचब्राह्मणः पापकर्षणो गोभूमिवेदविदितो विदितागोपीजनाविद्याकलाप्रेरकस्तन्माया चेति ।”रतन्नाम्नो भारतादिमतेन व्युत्पत्तिर्यथा, महाभारते २१ १२ ।“गां विन्दता भगवता गोविन्देनामितौजसा ।वराहरूपिणा चान्तर्विक्षोभितजलाविलम्
”तत्रैव ७० १३ ।“विष्णुर्विक्रमणाद्देवो जयनाज्जिष्णुरुच्यते ।शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्गवाम्
”यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे २४ अध्याये ।“युगेयुगे प्रणष्टां गां विष्णो ! विन्दसि तत्त्वतः ।गोविन्देति ततो नाम्ना प्रोच्यसे ऋषिभिस्तथा
”विन्दतीति विन्दः पालकः स्वामी वा विन्द +शः गवां गोसमूहानां विन्दः ।) गवाध्यक्षः ।(गवां शास्त्रमयीनां वाणीनां विन्दः पतिः ।)बृहस्पतिः इति मेदिनी
(गौडपादाचार्य्य-शिष्यः योणिविशेषः अयं हि परमहंस-परिव्राजकाचार्य्यस्य भगवतः शङ्करस्य गुरुः ।यथा, माधवीये सङ्क्षिप्तशङ्करजये १०१ ।“तस्योपदर्शितवतश्चरणौ गुहायांद्वारे न्यपूजयदुपेत्य शङ्करार्य्यः ।आचार इत्युपदिदेश तत्र तस्मैगोविन्दपादगुरवे गुरुर्यतीनाम्
”अनेन योगिप्रवरेण गोविन्देन बौधायनधर्म्म-विवरणं बौधायनधर्म्मसूत्रभाष्यञ्च प्रणीतमितिश्रूयते ततो बौद्धमतमालोक्य रससाराख्यग्रन्थो-ऽपि विरचित इति दृश्यते यथा, रससारे५ पटले ।“बौद्धानाञ्च मतं ज्ञात्वा रससारः कृतो मया
”पञ्जावस्थशिखजातीनां गुरुभेदः योऽसौ गुरु-गोविन्द इति नाम्नोदाहृतः
गाः मनः-प्रधानानीन्द्रियाणि तेषां विन्दः प्रवर्त्तयिताचेतयिता वा अन्तर्यामी आत्मेत्यर्थः ।)परमब्रह्म यथा, --“तत्र यद्यसमर्थस्त्वं ज्ञानयोगे महामते ! ।क्रियायोगे दिवा रात्रौ तत्परः सततं भव
करोषि यानि कर्म्माणि तानि देवे जगत्पतौ ।समर्पयस्व भद्रं ते ततः कर्म्म प्रहास्यसि
शुभाशुभपरित्यागी क्षीणे निःणेषकर्म्मणिलयमाप्स्यसि गोविन्दं तद्ब्रह्म परमं महत्
”तन्नाममाहात्म्यं यथा, --“ये तिष्ठन्तः स्वपन्तश्च गच्छन्तश्चलिते क्षुते ।संकीर्त्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः
”इति वहिपुराणे यमानुशासननामाध्यायः
(अस्य ध्यानं यथा, --“फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियंश्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।गोपीन्पं नयनोत्पलार्च्चिततनुं गोगोपसङ्घावृतंगोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे
”)