| YouTube Channel

गोविकर्त्त (govikartta)

 
वाचस्पत्यम्
Sanskrit
गोविकर्त्त
पु०
गां विकृन्तति वि + कृत--अण् उप० स० ।१ गोघातके कर्षके हालिके “रौद्रोयजमानस्या-क्षावापगोविकर्त्तगृहेभ्यो गवेधुकाम्” कात्या० श्रौ०१५ १२ अप्रहतां गां भूमिं विकृन्तति गोवि-कर्त्तः कर्षुकः गोहिंसको व्याधो वा “अक्षावापस्यगृहेभ्यो गोविकर्त्तस्य गवेधुकां सम्भृत्य” शत०ब्रा० १० “गोविकर्त्तः मृगयासहायभूतो गो-हिंसको व्याधः” भा०