| YouTube Channel

गोवर्द्धन (govarddhana)

 
शब्दसागरः
English
गोवर्द्धन
m.
(-नः) A celebrated hill in Brindaban or the country about
Mathura: it was upheld by KRISHNA upon one finger, to shelter
the cowherds from a storm excited by INDRA, as a test of the for-
mer's divinity.
E.
गो a cow, and वर्द्धन increasing
pasturing cattle.
Yates
English
गो-वर्द्धन (नः) 1.
m.
A celebrated
hill in
Vrindāvan.
Wilson
English
गोवर्द्धन
m.
(-नः) A celebrated hill in Vindrāvan or the
country about Mathura
it was upheld by KṚṢṆA upon one finger, to
shelter the cowherds from a storm excited by INDRA, as a test of the former's
divinity.
E.
गो a cow, and वर्द्धन encreasing
pasturing cattle.
वाचस्पत्यम्
Sanskrit
गोवर्द्धन
न०
वृध--णिच् भावे ल्युट् त० गवां वर्द्धने ।करणे ल्युट् गिरियज्ञभेदे तत्प्रकारो गोयज्ञशब्दे दृश्यःवृधि--णिच्--कर्त्तरि ल्यु त० वृन्दावनस्थे पर्व्वत-भेदे
पु०
तस्य पूजाकालो हरिभक्तिविलासे १६ वि० उक्तेयथा “प्रातर्गोवर्द्धनं पूज्य द्यूतञ्चैव समाचरेत् ।भूषणीयास्तथा गावः पूज्याश्च दोहवाहनाः श्री०कृष्णदासवर्य्योऽयं श्रीगोवर्द्धनभूधरः शुक्लप्रतिपदि प्रातःकार्त्तिकेऽर्च्च्योऽत्र वैष्णवैः” “प्रातर्गोवर्द्धनं पूज्यरात्रौ जागरणं चरेत्” इति क्वचित् पाठः तस्मा-त्तदिदं कर्म गोवर्द्धनप्राधान्येन गोप्रधान्येन ख्यात-मप्येकमेव ज्ञेयम् तत्र दिननिर्णयमाह देवलः“प्रतिपद्दर्शसंयोगे क्रीडनैस्तु गवां मतम् परविद्धान्तुयः कुर्य्यात् पुत्त्रदारधनक्षयः” निर्णयामृतधृतं पुरा-णान्तरवचनम् “या कुहूः प्रतिपन्मिश्रा तत्र गाःपूजयेन्नृप! पूजामात्रेण वर्द्धन्ते प्रजा गावो मही-पते! ततः प्रातर्गोवर्द्धनं पूज्येति पूर्वाह्णतात्पर्य्यकेद्वितीयासर्गंस्तु सर्वथा निषिद्धः तद्यथा “नन्दायांदर्शने रक्षाबलिदानदशासु भद्रायां गोकुलक्रीडादेशनाशाय जायते” पुराणसमुच्चये तु सम्भावितचन्द्रो-दयो द्वितीयासंयोग एव निषिध्यते “गवां क्रीडा दिनेयत्र रात्रौ दृश्येत चन्द्रमाः सोमोराजा पशून् हन्तिसुरभी पूजकांस्तथा” तदुदयसम्भावनञ्च निर्णयामृतेनिर्णीतं यथा “प्रतिपद्यापराह्णिकत्रिमूहूर्त्तव्यापिन्यांद्वितीयायां चन्द्रदर्शनं सम्भाव्यते तदुक्तमग्न्याधान-विषये वृद्धशातातपेन” द्वितीया त्रिमुहूर्त्ता चेत् प्रति-पद्यापराह्णिकी अग्न्याधानञ्चतुर्द्दश्यां परतः सोम-दर्शनादिति” अपराह्णश्च पञ्चधा विभक्तस्याह्नश्चतुर्थोभागःततश्च यत्र प्रतिपदि पराह्णत्रिमूहूर्त्तव्यापिनी द्वितीयातत्र चन्द्रदर्शनसम्भावनमिति अन्यदा तूत्तरैव प्रतिपत्तत्रगृहीता तथैवोक्तं पुराणसमुच्चये “वर्द्धमानतिथौ नन्दायदा सार्द्धत्रियामिका द्वितीया वृद्धिगामित्वादुत्तरातत्र चोच्यते” किञ्च यदा पूर्णप्रतिपत् परत्र निष्-क्रामति तदाप्युत्तरैव कार्य्या यथोक्तं भविष्योत्तरे “यथाद्वादशभिर्मासैर्मासो वृद्धो मलिम्लुचः तथैवाहोरात्र-वृद्ध्या तिथिः प्रोक्तो मलिम्लुचः यथा मलिम्लुचः पूर्व-स्त्याज्योग्राह्य स्तथा परः त्याज्या तिथिस्तथा पूर्वा ग्राह्याचैव तथोत्तरेति” निर्णयामृतमतम् किन्तु वञ्जुलीन्यायेनपूर्वैव मन्तुं शक्यते तद्वदत्रापि देवलादिवचनप्रामाण्य-मस्तीति अथ गोवर्द्धनपूजाविधिः तत्रैव पाद्मे“मथुरायास्तथान्यत्र कृत्वा गोवर्द्धनं गिरिम् गोमयेनमहास्थूलं तत्र पूज्यो गिरिर्यथा मथुरायां तथासाक्षात् कृत्वा चैव प्रदक्षिणम् वैष्णवं धाम संप्राप्यमोदते हरिसन्निधौ” पूजामन्त्रः “गोवर्द्धन! धराधार!गोकुलत्राणकारक! विष्णुवाहुकृतोच्छ्रायो गवां कोटिप्रदो भव” गोपूजामन्त्रः स्कान्दे तत्रैव “लक्ष्मी-र्या लोकपालानां धेनुरूपेण संस्थिता घृतं वहतियज्ञार्थ यमपाशं व्यपोहतु अग्रतः सन्तु मे गावोगावो मे सन्तु पृष्ठतः गावो मे पार्श्वतः सन्तु गवांमध्ये वसाम्यहम्” अथ तत्र गोक्रीडा तत्रैव “क्रोधा-पयेद्धावयेच्च गोमहिष्यादिकं ततः वृषान् कर्षापयेद्गोपै-रुक्तिप्रत्युक्तिवादनात्” पाद्मे तत्रैव “महि-षादेस्तथा भूषा क्रीडनं वारणन्तथा” तन्माहात्म्यञ्चतत्रैव “एवं गोवर्द्धनो गाश्च पूजनीया विधानतः ।गोवर्द्धनमखोरम्यः कृष्णसन्तोषकारकेः” “गोवर्द्धनस्या-कृतिरन्वकारि” माघः