| YouTube Channel

गोलोकः (golokaH)

 
शब्दकल्पद्रुमः
Sanskrit
गोलोकः,
पुं,
(लोक्यतेऽसौ इति लोकः गोभि-स्तेजोभिरुपलक्षितो लोकः ब्रह्मस्वरूपज्योति-र्म्मयलोक इत्यर्थः ।) श्रीकृष्णस्य नित्यधाम ।यथा, ब्रह्यवैवर्त्तपुराणे
“निराधारश्च वैकुण्ठो ब्रह्माण्डानां परो वरः ।तत्परश्चापि गोलोकः पञ्चाशत्कोटियोजनात्
ऊर्द्ध्वे निराश्रयश्चापि रत्नसारविनिर्म्मितः ।सप्तद्वारः सप्तसारः परिखासप्तसंयुतः
लक्षप्राकारयुक्तश्च नद्या विरजया युतः ।वेष्टितो रत्नशैलेन शतशृङ्गेण चारुणा
योजनायुतमानञ्च यस्यैकं शृङ्गमुज्ज्वलम् ।शतकोटीयोजनश्च शैल उच्छ्रित एव
दैर्ध्यं तस्य शतगुणं प्रस्थे लक्षयोजनम् ।योजनायुतविस्तीर्णस्तत्रैव रासमण्डलः
अमूल्यरत्ननिर्म्माणो वर्त्तुलश्चन्द्रविम्बवत् ।पारिजातवनेनैव पुष्पितेन वेष्टितः
कल्पवृक्षसहस्रेण पुष्पोद्यानशतेन ।नानाविधैः पुष्पवृक्षैः पुष्पितेन चारुणा
त्रिकोटिरत्नाभरणैर्गोपीलक्षैश्च रक्षितः ।रत्नप्रदीपयुक्तश्च रत्नतल्पसमान्वेतः
नानाभोगसमायुक्तो मधुवापीशतैर्वृतः ।पीयूषवापीयुक्तश्च कामर्भोगसमन्वितः
गोलोकगृहसंख्यानं वर्णनं वा विशारदः ।न कोऽपि वेद विद्वान् वा वेद विद्बान् व्रजेश्वरः