| YouTube Channel

गोलोकं (golokaM)

 
शब्दकल्पद्रुमः
Sanskrit
गोलोकं,
क्ली,
(गौर्ज्योतीरूपं ज्योतिर्मयः पुरुषइत्यर्थस्तस्य लोकः स्थानम् अभिधानात् क्लीव-त्वम् यद्वा गोभिः किरणैः ब्राह्मज्ञान-तेजोभिरित्यर्थः लोक्यते इति लुक् + घञ् ।)श्रीकृष्णस्य स्थानम् यथा, तन्त्रे ।“वैकुण्ठस्य दक्षभागे गोलोकं सर्व्वमोहनम् ।तत्रैव राधिका देवी द्विभुजो मुरलीधरः
यदूपं गोलकं धाम तद्रूपं नास्ति मामके ।ज्ञाने वा चक्षुषोः किं वा ध्यानयोगे विद्यते
शुद्धतत्त्वमयं देवि ! नानादेवेन शोभितम् ।मध्यदेशे गोलोकाख्यं श्रीविष्णोर्लोभमन्दिरम्
श्रीविष्णोः सत्त्वरूपस्य यत् स्थलं चित्तमोहनम् ।तस्य स्थानस्य माहात्म्यं किं मया कथ्यतेऽधुना
तत्रैष सततं भाति द्बिभुजो मुरलीधरः ।तदा सत्त्वमयो विष्णुर्भुवनं पाति निश्चितम्
दैष्णवस्य महामोक्षो यत्रैव परमेश्वरि ! ।इति स्थानस्य माहात्म्यं संक्षेपेण मयोदितम्
विस्तारेण शक्नोमि जन्मान्तरशतेन ।बीजकोषस्य वाह्ये तु वेष्टितं तोयमण्डलम्
प्रमाणं सुन्दरं तोयं यथा क्षीरोदसागरम् ।धूम्रस्य ज्योतिषाकारं कोटिचन्द्रसमप्रभम्
बलयाकाररूपेण सुशुभ्रं तोयमण्डलम् ।गङ्गादिसरितः सर्व्वास्तथैव भान्ति सुन्दरि !
इन्द्रादिदेवताः सर्व्वा स्तूयमाना निरन्तरम् ।गन्धर्व्वयक्षनागादिकुष्माण्डा भैरवास्तथा
नानासुखविलासेन सदा चैकाग्रचेतसः ।विष्णुगानं प्रकुर्व्वन्ति स्तुतिभक्तिपरायणाः
देवा गानं प्रकुर्व्वन्ति चतुर्ब्बक्त्रेण वेधसा ।मालवाद्याश्च षड्रागा षट्त्रिंशद्रागिणी तथा
वेदगानेन भासन्तो मूर्त्तिमन्तः सदैव हि ।मालवेनैव रागेण सामगानं सदा प्रिये
मल्लारेण सदाथर्व्वं वसन्तेन तथा पुनः
हिन्दोलेन यजुःपाठं सदा कुर्व्वन्ति चेतसा
कर्णाटेनैव ऋग्वेदं श्रीरागेण तथा शिवे ।निर्द्दिष्टपाठमेतत्तु ह्यनिर्द्दिष्टमतः परम्
तत्रैव सन्ति ते रागाः सहस्राणि षोडश ।सरारेर्मुररीगानात् स्रर्व्वस्तालः प्रजायते
तैन तालेन रागेण सदा गायन्ति वेधसः ।तद्वागस्य विभागं हि कुर्व्वन्ति मुनयो जनाः
वसन्ताद्याश्च ऋग्रपस्तिष्ठन्ति तत्र सन्ततम् ।नानाऋतुप्रसूतेन भूषितं मुररीधरम्
तत्रैव राधिका देवी नानामुखविलासिनी ।वदन्ती मुररीगानं कुरु कान्त ! प्रमोहनम्
यन शब्देन कामस्य उत्पत्तिर्जायते सदा ।तद्वगश्चैव तचालं कुरु गानं प्रयत्नतः
एवमानन्दसंयुक्ता महावेशविलासिनी ।वामभागे सदा भाति राधिका भक्तवत्सला
”(एतस्य धाम्नो नित्यादिकमाहात्म्यं लक्षणादि-कञ्च ब्रह्मवैवर्त्तपुराणे ब्रह्मखण्डे २८ अध्यायेविस्तरशो विवृतं यथा, --“नित्यं स्थूलञ्च प्रच्छन्नं गोलोकाभिधमेव ।लक्षकोटियोजनञ्च चतुरस्रं मनोहरम्
रत्नेन्द्रसारनिर्म्माणैर्गोपीनामावृतं सदा ।सुदृश्यं वर्त्तुलाकारं यथैव चन्द्रमण्डलम्
रत्नेन्द्रसारनिर्म्माणं निराधारञ्च स्वेच्छया ।ऊर्द्ध्वञ्च नित्यं वैकुण्ठात् पञ्चाशत्कोटियोजनम्
गोगोपगोपीसंयुक्तं कल्पवृक्षसमन्वितम् ।कामधेनुभिराकीर्णं रासमण्डलमण्डितम्
वृन्दावनवनाच्छन्नं विरजावेष्टितं मुने ! ।शतशृङ्गं शतशृङ्गैः सुदीप्तं दीप्तमीप्सितम्
लक्षकोटिपरिमितै राश्रमैः सुमनोहरैः ।शतमन्दिरसंयुक्तमाश्रमं सुमनोहरम्
प्राकारपरिखायुक्तं पारिजातवनान्वितम् ।कौस्तुभेन्द्रेण मणिना निर्म्माणकलसोज्ज्वलैः
हीरासारविनिर्म्माणसोपानसंघसुन्दरैः ।मणीन्द्रसारनिर्म्माणैः कपाटदर्पणान्वितैः
नानाचित्रविचित्राढ्यैराश्रमञ्च सुसंस्कृतम् ।षोडशद्वारसंयुक्तं सुदीप्तं रत्नदीपकैः
रत्नसिंहासने रम्ये चामूल्यरत्ननिर्म्मिते ।नानाचित्रविचित्राढ्ये वसन्तमीश्वरं वरम्
”)