| YouTube Channel

गोलयन्त्र (golayantra)

 
Spoken Sanskrit
English
गोलयन्त्र - golayantra -
n.
- kind of astronomical instrument
Monier Williams Cologne
English
गोल—यन्त्र
n.
a kind of astronomical instrument,
Gol.
xi, 3.
वाचस्पत्यम्
Sanskrit
गोलयन्त्र
न०
सि० शि० उक्ते यन्त्रभेदे ।“अपवृत्तगरविचिह्न क्षितिजे धृत्वा कुजेन संसक्ते ।नाडोवृत्ते विन्दुं कृत्वा धृत्वाथ जलसमं क्षितिजम् ।रविचिह्नस्य च्छाया पतति कुमध्ये यथा तथा विधते ।उडुगोले कुजविन्द्वोर्मध्ये नाड्यो द्युजाताः स्युः” ।“यथोक्तविधिना खगोलान्तर्भगोलं वद्ध्वा तत्र क्रान्तिवृत्तेमेषादेरारभ्य रविभुक्तं राशिभागाद्यं दत्त्वा तदग्रेतच्चिह्नं तदपवृत्तग--रविचिह्न मुच्यते भगोलं चालयित्वा-रविचिह्नं क्षितिजे धार्य्यम् तथा धृते सति क्षितिजंप्राच्यां विषुवन्मण्डले यत्र लग्नं तत्र खटिकयाविन्दुः कार्य्यः ततः क्षितिजवृत्तं जलसमं यथा भवतितथा गोलयन्त्रं स्थिरं कृत्वा भगोलस्तथा चाल्यो यथारविचिह्नस्य च्छाया भूगर्भे पतति तथा कृते सतिविषुवद्वृत्ते क्षितिजविन्द्वोर्मध्ये यावत्यो घटिकास्तावत्यस्तस्मिन् काले दिनगता ज्ञेयाः अपवृत्तेमेषादेरारभ्य प्राक् क्षितिजपर्य्यन्तं यद्राशिभागाद्यंतल्लग्नं ज्ञेयम्” प्रमिताक्षरा