| YouTube Channel

गोयज्ञ (goyajJa)

 
Capeller Eng
English
गोयज्ञ
m.
the sacrifice of a cow.
Monier Williams Cologne
English
गो—यज्ञ
m.
sacrifice of cattle,
Gobh.
PārGṛ.
a sacrifice in honour of cows,
Hariv.
3851.
Monier Williams 1872
English
गो-यज्ञ
add a sacrifice in honour of a cow.
Shabdartha Kaustubha
Kannada
गोयज्ञ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪಶುಯಜ್ಞ
व्युत्पत्तिः - > गव कृतो यज्ञः
गोयज्ञ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಬೃಂದಾವನದ ಸಮೀಪದಲ್ಲಿ ಶ್ರೀಕೃಷ್ಣನು ಗೋಪಾಲಕರೊಡನೆ ನಡೆಸಿದ ಗೋವರ್ಧನಗಿರಿಪೂಜೆ ಮತ್ತು ಗೋವುಗಳ ಉತ್ಸವ
वाचस्पत्यम्
Sanskrit
गोयज्ञ
पु०
गवा कृतो यज्ञः गोसवयज्ञे तच्छब्दे विवृतिः ।गा उद्दिश्य यज्ञः श्रीकृष्णेन गोपानां हितार्थंवृन्दावने प्रवर्त्तिते गोवर्द्धनगिरियज्ञसहिते गवां महोत्-सवकारके व्यापारभेदे तत्तथा हरिवं० ७३ अ० ।“शरद्येवं सुशस्यायां प्राप्तायां प्रावृषः क्षये नील-चन्द्रार्कवर्णैश्च रचितं बहुभिर्द्विजैः फलैः प्रबालेनघनमिन्द्रचापघनोपमम् भवनाकारविटपं लतापरममण्डितम् विशालमूलविततं पवनाभोगधारिणम् ।अर्चयामागिरिं देवं गाश्चैब सविशेषतः सावत-सैर्विषाणैश्च बर्हापीडैश्च दंशिर्तेः घण्टाभिश्च प्रल-म्बाभिः पुष्पैः शारदिकैस्तथा शिवाय गावः पूज्यन्तांगिरियज्ञः प्रवर्त्यताम् पूज्यतां त्रिदशैः शक्रो गिरि-रस्माभिरिज्यताम् गोयज्ञं कारयिष्यामि बलादेव नसंशयः” एवं श्रीकृष्णेनोक्ते गोपवाक्यं यथा“यत्त्वया ऽभिहितं वाक्यं गिरियज्ञं प्रति प्रभो ।कस्तल्लङ्घयितुं शक्तो वेलामिव महोदधेः स्थितःशक्रमहस्तात! श्रीमान् गिरिमहस्त्वयम् त्वत्प्रणी-तोऽद्य गोपानां गवां हेतोः प्रवर्त्यताम् भाजनान्युपकल्प्यन्तां पयसः पेशलानि कुम्भाश्च विनिवेश्यन्तामुदपानेषु शोभनाः पूर्य्यन्तां पयसा नद्यो द्रोण्यश्चविपुलायताः भक्ष्यं भोज्यञ्च पेयञ्च तत्सर्व्वमुपनीयताम् ।भाजनानि मांसस्य न्यस्यन्तामोदनस्य त्रिरात्र-ञ्चैव सन्दोहः सर्व्वघोषस्य गृह्यताम् विशस्यन्ताञ्च पशवोभोज्या ये महिषादयः प्रवर्त्यताञ्च यज्ञोऽयं सर्वगोपसु-सङ्गुलः आनन्दजननो घोषो महान् मुदितगोकुलः ।तूर्य्यप्रणादघोषैश्च वृषभाणाञ्च गर्ज्जितैः हम्भा-रवैश्च वत्सानां गोपानां हर्षवर्द्धनः दधिह्रदः शरा-वर्त्तः पयःकुल्यासमावृतः मांसराशिप्रकॢप्ताद्यःप्रकाशौदनपर्वतः सं प्रावर्तत यज्ञः गिरेर्गोभिःसमाकुलः तुष्टगोपगणाकीर्णो गोपनारीमनोहरः ।अथाधिशृतपर्य्यन्ते पर्य्याप्ते यज्ञसंविधौ यज्ञंगिरेस्तिथौ सौम्ये चक्रुर्गोपा द्विजैः सह यजनान्तेतदन्नन्तु तत्पयो दधि चोत्तमम् मांसञ्च मायया कृष्णोगिरिर्भूत्वा समश्नुते तर्पिताश्चापि विप्राग्र्यास्तुष्टाःसम्पूर्णभोजनाः उत्तस्थुः प्रीतमनसः स्वस्ति वाच्ययथासुखम् भुक्त्वा चावभृथे कृष्णः पयः पीत्वा चकामतः संतृप्तोऽस्मीति दिव्येन रूपेण प्रजहास वै तंगोपाः पर्वताकारं दिव्यस्रगनुलेपनम् गिरिमूर्द्ध्निस्थितं दृष्ट्वा कृष्णं जग्मुः प्रधानतः भगवानपि तेनैवरूपेणाच्छादितः प्रभुः सह तैः प्रणतो गोपैर्ववन्दा-त्मानमात्मना तमूचुर्विस्मिता गोपा देवं गिरिवरेस्थितम् भगवंस्त्वद्वशे युक्ता दासाः किं कुर्म? किङ्कराः ।स उवाच ततो गोपान् गिरिप्रभवया गिरा अद्य प्रभृतियाज्योऽहं गोषु यद्यस्ति वो दया अहं वः प्रथमोदेवः सर्वकामकरः शुभः सम प्रभावाच्च गवामयुता-न्युपभोक्ष्यथ शिवश्च वो मविष्यामि मद्भक्तानांवने वने रंस्येऽहं सह युष्माभिर्यथा दिवि गतस्तथा ।ये चेमे प्रथिता गोपा नन्दगोपपुरोगमाः एषांप्रीतः प्रयच्छामि गोपानां विपुलं धनम् पर्य्याप्नुवन्तुक्षिप्रं मां गावो वत्ससमाकुलाः एवं मम पराप्रीतिर्भविष्यति संशयः” ७४ अ०