| YouTube Channel

गोमेधः (gomedhaH)

 
Wordnet
Sanskrit
Synonyms:
गोमेधः
noun
यज्ञप्रकारः गोमांसस्य हवनेन कृतः यज्ञः।
"प्राचीनकालीनाः राजानः गोमेधं कुर्वन्ति स्म।"
शब्दकल्पद्रुमः
Sanskrit
गोमेधः,
पुं,
(मेधहिंसायम् + भावे घञ् गवां मेधोहिंसा यत्र ।) यज्ञविशेषः तत्र स्त्रीगोपशुःमन्त्रेषु स्त्रीलिङ्गपाठात् तस्य लक्षणं सप्त-शफत्वनवशफत्वभग्नशृङ्गत्वकाणत्वछिन्नकर्णत्वादि-दोषराहित्यम् तस्य प्रयोगः सर्व्वोऽपि छाग-पशुवत् यजमानस्य स्वर्गः फलं गोश्च गोलोक-प्राप्तिः तस्य कलौ निषेधो यथा, --“अश्वालम्भो गवालम्भः सन्न्यासः पलपैतृकम् ।देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत्
”इत्यापस्तम्बादिकल्पसूत्रपुराणम्