| YouTube Channel

गोमेदकः (gomedakaH)

 
Wordnet
Sanskrit
Synonyms:
गोमेदः, गोमेदकः
noun
नवरत्नान्तर्गतं रत्नम्।
"तेन राहुशान्त्यर्थे गोमेदः धृतः।"
शब्दकल्पद्रुमः
Sanskrit
गोमेदकः,
पुं,
(गोमेद + स्वार्थे कन् ।) स्वनाम-ख्यातमणिः तत्पर्य्यायः गोमेदः राहु-रत्नम् तमोमणिः स्वर्भानवः पिङ्ग-स्फटिकः अस्य गुणाः अम्लत्वम् उष्ण-त्वम् वातकोपविकारनाशित्वम् दीपनत्वम् ।पाचनत्वम् धारणे पापनाशित्वञ्च इतिराजनिर्घण्टः
तस्य परीक्षा यथा, --“हिमालये वा सिन्धौ वा गोमेदमणिसम्भवः ।स्वच्छकान्तिर्गुरुः स्निग्धो वर्णाढ्यो दीप्तिमानपि
बलक्षः पिञ्जरो धन्यो गोमेद इति कीर्त्तितः ।चतुर्द्धा जातिभेदस्तु गोमेदेऽपि प्रकाश्यते
ब्राह्मणः शुक्लवर्णः स्यात् क्षत्त्रियो रक्त उच्यते ।आपीतो वैश्यजातिस्तु शूद्रास्तु नील उच्यते
छाया चतुर्विधा श्वेता रक्ता पीतासिता तथा
गुरुप्रभाढ्यः सितवर्णरूपःस्नग्धो मृदुर्व्वातिमहापुराणः ।स्वच्छस्तु गोमेदमणिर्धृतोऽयंकरोति लक्ष्मीं धनधान्यवृद्धिम्
लधुर्विरूपोऽतिखरोऽन्यमानःस्नेहोपलिप्तो मलिनः खरोऽपि ।करोति गोमेदमणिर्विनाशंसम्पत्तिभोगाबलबीर्य्यराशेः
ये दोषा हीरके ज्ञेयास्ते गोमेदमणावपि ।परीक्षा वह्नितः कार्य्या शाने वा रत्नकोविदैः
स्फटिकेनैव कुर्व्वन्ति गोमेदप्रतिरूपिणम्
शुद्धस्य गोमेदमणेस्तु मूल्यंसुवर्णतो द्वैगुणमाहुरेके ।अन्ये तथा विद्रुमतुल्यमूल्यंतथापरे चामरतुल्यमाहुः
चतुर्व्विधानामेषान्तु धारणं परिसम्मतम्
”इति भोजराजकृतयुक्तिकल्पतरुः
(कतक-गोमेदक-विषपन्थि-शैबालमूल-वस्त्राणिमुक्तामणिश्चेति ।” इति सुश्रुते सूत्रस्थाने ४५अध्याये
)