| YouTube Channel

गोमांसं (gomAMsaM)

 
शब्दकल्पद्रुमः
Sanskrit
गोमांसं,
क्ली,
(गवां मांसम् ।) गवां पिशितम् ।तद्भक्षणप्रायश्चित्तं यथा “सुमन्तुः गोमांस-भक्षणे प्राजापत्यञ्चरेत् इदमज्ञानतः सकृद्-भक्षणविषयम् यथाह पराशरः ।अमम्यागमने चैव मद्यगोमांसभक्षणे ।शुद्ध्यै चान्द्रायणं कुर्य्यान्नदीं गत्वा समुद्रगाम्
चान्द्रायणे ततश्चीर्णे कुर्य्याद्ब्राह्मणभोजनम् ।अनडुत्सहितां गाञ्च दद्याद्विप्राय दक्षिणाम्
इदं ज्ञानतोऽभ्यासे शङ्खः ।गामश्वं कुञ्जरोष्टौ सर्व्वं पञ्चनखं तथा ।क्रव्यादं कुक्कुटं ग्राम्यं कुर्य्यात् संवत्सरं व्रतम्
एतच्चिरकालाभ्यासे संवत्सरकृच्छ्रव्रते पञ्च-दशधेनवः पुनरुपनयनञ्च यथा, विष्णुः विड्-वराहग्रामकुक्कुटनरगोमांसभक्षणे सर्व्वेष्वेवद्विजातीनां प्रायश्चित्तान्ते भूयः संस्कारंकुर्य्यात् ।” इति प्रायश्चित्तविवेकः
(अस्यगुणा यथा, --“गव्यं केवलवातेषु पीनसे विषमज्वरे ।शुष्ककासश्रमात्यग्निमांसक्षयहितञ्च यत्
”इति चरके सूत्रस्थाने २७ अध्याये
“श्वासकासप्रतिश्यायविषमज्वरनाशनम् ।श्रमात्यग्निहितं गव्यं पवित्रमनिलापहम्
”इति सुश्रुते सूत्रस्थाने ४६ अध्याये
अन्यत् गोशब्दे ‘गौः इत्यत्र’ द्रष्टव्यम्
*
हठयोगमतेनास्य पारिभाषिकोऽर्थो यथा, हठयोगप्रदीपिकायाम् ४७ -- ४८ ।“गोमांसं भक्षयेन्नित्यं पिबेदमरवारुणीम् ।कुलीनं तमहं मन्ये इतरे कुलघातकाः
गोशब्देनोच्यते जिह्वा तत्प्रवेशो हि तालुनि ।गोमांसभक्षणं तत्तु महापातकनाशनम्
”)