गोमांस (gomAMsa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishगोमांस - gomAMsa - - beef
पीन - pIna - - beefy
गो-वसा - go-vasA - - beef fat
गोमांस-स्नेह - gomAMsa-sneha - - beef fat
गोमांसखण्द - gomAMsakhaNda - - beefsteak
Apte Hindi
Hindiगोमांसम्
गो-मांसम् -
गौ का मांस
Shabdartha Kaustubha
Kannadaगोमांस
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಹಸುವಿನ ಮಾಂಸ
व्युत्पत्तिः - > गोर्मांसम्
प्रयोगाः - > "अगम्यागमने चैव मद्यगोमांसभक्षणे । शुद्धयै चान्द्रायणं कुर्यात् नदीं गत्वा समुद्रगाम् ॥"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritगोमांसं, (गवां मांसम् ।) गवां पिशितम् ।तद्भक्षणप्रायश्चित्तं यथा । “सुमन्तुः । गोमांस-भक्षणे प्राजापत्यञ्चरेत् । इदमज्ञानतः सकृद्-भक्षणविषयम् । यथाह पराशरः ।अमम्यागमने चैव मद्यगोमांसभक्षणे ।शुद्ध्यै चान्द्रायणं कुर्य्यान्नदीं गत्वा समुद्रगाम् ॥
चान्द्रायणे ततश्चीर्णे कुर्य्याद्ब्राह्मणभोजनम् ।अनडुत्सहितां गाञ्च दद्याद्विप्राय दक्षिणाम् ॥
इदं ज्ञानतोऽभ्यासे । शङ्खः ।गामश्वं कुञ्जरोष्टौ च सर्व्वं पञ्चनखं तथा ।क्रव्यादं कुक्कुटं ग्राम्यं कुर्य्यात् संवत्सरं व्रतम् ॥
एतच्चिरकालाभ्यासे । संवत्सरकृच्छ्रव्रते पञ्च-दशधेनवः । पुनरुपनयनञ्च । यथा, विष्णुः । विड्-वराहग्रामकुक्कुटनरगोमांसभक्षणे सर्व्वेष्वेवद्विजातीनां प्रायश्चित्तान्ते भूयः संस्कारंकुर्य्यात् ।” इति प्रायश्चित्तविवेकः ॥
(अस्यगुणा यथा, --“गव्यं केवलवातेषु पीनसे विषमज्वरे ।शुष्ककासश्रमात्यग्निमांसक्षयहितञ्च यत् ॥
”इति चरके सूत्रस्थाने २७ अध्याये ॥
“श्वासकासप्रतिश्यायविषमज्वरनाशनम् ।श्रमात्यग्निहितं गव्यं पवित्रमनिलापहम् ॥
”इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥
अन्यत् गोशब्दे ‘गौः इत्यत्र’ द्रष्टव्यम् ॥
* ॥
हठयोगमतेनास्य पारिभाषिकोऽर्थो यथा, हठयोगप्रदीपिकायाम् । ३ । ४७ -- ४८ ।“गोमांसं भक्षयेन्नित्यं पिबेदमरवारुणीम् ।कुलीनं तमहं मन्ये इतरे कुलघातकाः ॥
गोशब्देनोच्यते जिह्वा तत्प्रवेशो हि तालुनि ।गोमांसभक्षणं तत्तु महापातकनाशनम् ॥
”)
वाचस्पत्यम्
Sanskritगोमांस ६ त० । गवां मांसे तद्गुणादि गोशब्दे २६८१ पृ०उक्तं “गोमांसभक्षणे प्राजापत्यं चरेत्” सुमन्तुः तच्चा-ज्ञानतः, ज्ञानतस्तद्भक्षणे चान्द्रायणं यथाह शातातर्पः“अगम्यागमने चैव मद्यगोमांसभक्षणे । शुद्ध्यै चान्द्राःयणं कुर्य्यान्नदीं गत्वा समुद्रगाम्” विष्णुना तुद्विजातीनां तत्र पुनरुपनयनमुक्तं यथा “विड्वराहग्रासकुक्कुटनरगोमांसभक्षणे सर्वेष्वेव द्विजातीनां प्रयि-श्चित्तान्ते भूयः संस्कार’ कुर्य्यात् ।”
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
