| YouTube Channel

गोमयं (gomayaM)

 
शब्दकल्पद्रुमः
Sanskrit
गोमयं,
क्ली,
पुं,
(गोः पुरीषम् “गोश्च पुरीषे ।”४ १४५ इति मयट् ।) गवां गूथम् ।गोवर इति भाषा
तत्पर्य्यायः गोविट् २इत्यमरः ५०
जगलम् गोहन्नम् ४गोशकृत् इति रत्नमाला
गोपुरीषम् ६गोविष्ठा गोमलम् इति राजनिर्घण्टः
तस्य माहात्म्यं यथा, --“शतं वर्षसहस्राणां तपस्तप्तं सुदुष्करम् ।गोभिः पूर्व्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति
अस्मत्पुरीषस्नानेन जनः पूयेत सर्व्वदा ।शकृता पवित्रार्थं कुर्व्वीरन् देवमानुषाः
ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः ।एवं भवत्विति विभुर्लोकांस्तारयतेति
*
तत्र लक्ष्म्या वासो यथा, लक्ष्मीं प्रति गवांवाक्यम् ।“अवश्यं मानना कार्य्या तवास्माभिर्यशस्विनि ! ।शकृन्मूत्रे निवस त्वं पुण्यमेतद्धि नः शुभे !
”श्रीरुवाच ।“दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः ।एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः
”इति महाभारते दानधर्म्मः
(कृच्छ्रसान्तपने अस्य भक्षणविधिर्यथा, मनुः ।११ २१२ ।“गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम्
”“अत्यन्तजीर्णदेहाया बन्ध्यायाश्च विशेषतः ।रोगार्त्तायाः प्रसूताया गोर्गोमयमाहरेत्
”इति चिन्तामणिधृतस्मृतिवचनम्
गां सर्व्वतीर्थमयीं परिकल्प्य एतस्या गोमयंयमुनानदीतया परिकल्पयन्ति वृद्धाः यदु-क्तम्, --“गोमयं यमुना साक्षात् गोमूत्रं नर्म्मदा शुभा ।गङ्गा क्षीरन्तुयासां वै किं पवित्रमतःपरम्
*
)गवात्मके क्ली