गोमन्तः (gomantaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wordnet
Sanskrit गोमन्तः
एकः जनसमूहः ।
"गोमन्तानां वर्णनं महाभारते वर्तते"
शब्दकल्पद्रुमः
Sanskritगोमन्तः, पर्व्वतविशेषः । इति जटाधरः ॥
(अयं हि सह्यपर्व्वतविवरस्थितो गिरिः यदुक्तंहरिवंशे । ९५ । ६३ ।“ततश्च्युता गमिष्यामः सह्यस्य विवरे गिरिम् ।गोमन्त इति विख्यातं नैकशृङ्गविभूषितम् ॥
”अत्र पर्व्वते भगवती गोमतीरूपेण विराजते ।यदुक्तं देवीभागवते । ७ । ३० । ५७ ।“गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥
”अयं हि द्वितीयमेरुरिव महान् पर्व्वतः । अस्यवर्णनं यथा, हरिवंशे । ९६ । ४--२७ ।“ते चाध्वविधिना सर्व्वे ततो वै दिवसक्रमात् ।गोमन्तमचलं प्राप्ता मन्दरं त्रिदशा इव ॥
लताचारुविचित्रञ्च नानाद्रुमविभूषितम् ।गन्धागुरुपिनद्धाङ्गं चित्रं चित्रैर्मनोरमैः ॥
द्विरेफगणसङ्कीर्णं शिलासङ्कटपादपम् ।मत्तवर्हिणनिर्घोषैर्नादितं मेघनादिभिः ॥
गगनालग्नशिखरं जलदासक्तपादपम् ।मत्तद्विपविषाणाग्रपरिधृष्टोपलाङ्कितम् ॥
कूजद्भिश्चाण्डजगणैः समन्तात् प्रतिनादितम् ।दरीप्रपाताम्बुरवैश्छन्नं शाद्बलपल्लवैः ॥
नीलाश्मचयङ्घातैर्ब्बहुवर्णं यथा घनम् ।धातुविस्रावदिग्धाङ्गं सानुप्रस्रवभूषितम् ॥
कीण सुरगणैः कान्तैर्मैनाकमिव कामगम् ।उच्छ्रितं सुविशालाग्रं समूलाम्बुपरिस्रवम् ॥
सकाननदरीप्रस्थं श्वेताभ्रगणभूषितम् ।पनसाम्रातकाम्रौघैर्व्वेत्रस्यन्दनचन्दनैः ॥
तमालैलावनयुतं मरिचक्षुपसङ्कलम् ।पिप्पलीवल्लिकलिलं चित्रमिङ्गुदपादपैः ॥
द्रुमैः सर्ज्जरसानाञ्च सर्व्वतः प्रतिशोभितम् ।प्रांशुशालवनैर्गुप्तं बहुचित्रवनैर्युतम् ॥
सर्ज्जनिम्बार्ज्जुनवनं पाटलीकुलसङ्कुलम् ।हिन्तालैश्च तमालैश्च पुन्नागैश्चोपशोभितम् ॥
जलेषु जलजैश्छन्नं स्थलेषु स्थलजैरपि ।पङ्कजैर्द्रुमषण्डैश्च सर्व्वतः प्रतिभूषितम् ॥
जम्बूजम्बूलवृक्षाढ्यं कन्दकन्दलभूषितम् ।चम्पकाशोकबहुलं विल्वतिन्दुकशोभितम् ॥
कुटजैर्नागपुष्पैश्च समन्तादुपशोभितम् ।नागयूथसमाकीर्णं मृगसङ्घातशोभितम् ॥
सिद्धचारणरक्षोभिः सेवितप्रस्तरान्तरम् ।विद्याधरगणैर्नित्यमनुकीर्णशिलातलम् ।सिंहशार्द्दलसन्नादैः सततं प्रतिनादितम् ।सेवितं वारिधाराभिश्चन्द्रपादैश्च शोभितम् ॥
स्तुतं त्रिदशगन्धर्व्वैरप्सरोभिरलङ्कतम् ।वनस्पतीनां दिव्यानां पुष्पैरुच्चावचैश्चितम् ॥
शक्रवज्रप्रहाराणामनभिज्ञं कदाचन ।दावाग्निभयनिर्मुक्तं महावातभयोज्झितम् ॥
प्रपातप्रभवाभिश्च सरिद्भिरुपशोभितम् ।जलशैवलशृङ्गाग्रैरुन्मिषन्तमिव श्रिया ॥
स्थलीभिर्मृगजुष्टाभिः कान्ताभिरुपशोभितम् ।पार्श्वैरुपलकन्माषैर्मेघैरिव विभूषितम् ॥
पादपोच्छ्रितसौम्याभिः सपुष्पाभिः समन्ततः ।मण्डितं वनराजीभिः प्रमदाभिः पतिं यथा ॥
सुन्दरीभिर्द्दरीभिश्च कन्दरीभिस्तथैव च ।तेषु तेष्ववकाशेषु सदारमिव शोभितम् ॥
ओषधीदीप्तशिखरं वानप्रस्थनिषेवितम् ।जातरूपैर्व्वनोद्देशैः कृत्रिमैरिव भूषितम् ॥
मूलेन सुविशालेन शिरसात्युच्छ्रितेन च ।पृथिवीमन्तरीक्षञ्च गाहयन्तमिव स्थितम् ॥
”श्रीकृष्णो बलरामेण सह जरासन्धभयात् अत्रपर्व्वते पलायमानः स्थितः । ततो मदमत्तैर्बहु-संख्यकराजभिरतिगर्व्वितो जरासन्धः कृष्णेणसार्द्धं युयुत्सुरत्रागत्येमं गोमन्तपर्व्वतं दग्धुंप्रवृत्तः एतत्कथा हरिवंशे ९८ अध्याये विस्त-रशो द्रष्टव्या ॥
* ॥
) गवां स्वामिसमूहश्च ॥
(तत्रगोमच्छब्दे प्रथमाविभक्तेर्बहुवनप्रयोगः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
