| YouTube Channel

गोप्यादित्य (gopyAditya)

 
वाचस्पत्यम्
Sanskrit
गोप्यादित्य
पु०
प्रमासतीर्थस्थे गोपीस्थापितरविमूर्त्तिभेदेतत्कथा स्क० प्रभा० ख० यथा“ततोगच्छेन्महादेवि! गोप्यादित्यमनुत्तमम् भूते-शाद्वायवे भागे धनुर्भिस्त्रिशतान्तरे बलातिबल-दैत्यघ्नी दक्षिणाग्नेयसंस्थितम् धनुषां दशके देवि!संस्थितं पापनाशनम् तस्योत्पत्तिं प्रवक्ष्यामि महा-पापहरां शुभाम्” इत्युपक्रमे “अथ तत्र कृतान् ज्ञात्वाप्रासादान् यादवैः पृथक् तेतो गोप्योऽपि ताः सर्वाःसहस्राणि षोडश कृष्णमाज्ञाप्य भावेन स्थापयाञ्च-क्रिरे रविम् ऋषिभिर्नारदाद्यैस्तु तथा क्षेत्रनिवासिभिःतत् प्रतिष्ठापयामासुः प्रतिष्ठाविधिना रविम् प्रति-ष्ठिते ततः सूर्य्येददुर्दानानि भूरिशः ततः क्षेत्र निवा-सिभ्यस्तीर्थ देवरतेषु वै! ततस्ते ऋषयः सर्वे सन्तुष्टाहृष्टमानसाः चक्रुर्नाम रवेस्तत्र गोप्यादित्येतिविश्रुतम्”