| YouTube Channel

गोप्ता (goptA)

 
Kridanta Forms
Sanskrit
गुप् (गु꣡पूँ꣡ रक्षणे - भ्वादिः - वेट्)
ल्युट् = गोपायनम् / गोपनम्
अनीयर् = गोपायनीयः / गोपनीयः - गोपायनीया / गोपनीया
ण्वुल् = गोपायकः / गोपकः - गोपायिका / गोपिका
तुमुँन् = गोपायितुम् / गोपितुम् / गोप्तुम्
तव्य = गोपायितव्यः / गोपितव्यः / गोप्तव्यः - गोपायितव्या / गोपितव्या / गोप्तव्या
तृच् = गोपायिता / गोपिता / गोप्ता - गोपायित्री / गोपित्री / गोप्त्री
क्त्वा = गोपायित्वा / गोपित्वा / गुप्त्वा / गुपित्वा
ल्यप् = प्रगोपाय्य / प्रगुप्य
क्तवतुँ = गोपायितवान् / गुप्तवान् - गोपायितवती / गुप्तवती
क्त = गोपायितः / गुप्तः - गोपायिता / गुप्ता
शतृँ = गोपायन् - गोपायन्ती
Wordnet
Sanskrit
Synonyms:
प्रतिपालकः, रक्षकः, गोप्ता, पालकः, परिरक्षी
noun
यः स्वसंरक्षणार्थे असमर्थस्य परिपालनम् करोति अथवा तस्य स्थावर-जंगम-संपत्तेः संरक्षणम् संवर्धनम् करोति इति
"वाल्मीकिः लवकुशयोः प्रतिपालकः"
शब्दकल्पद्रुमः
Sanskrit
गोप्ता, [ऋ] त्रि, (गोपायति रक्षतीति गुपू ञरक्षणे + “ण्वुल्तृचौ ।” १३३ इतितृच् ।) रक्षकः यथा, --“विप्राणामभयार्थमध्वरविधेर्गोप्ता गुरो-राज्ञया ।”इति राघवपाण्डवीये कविराजः
(तथा मनुः ११ ७९ ।“ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजन् ।मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य
”गोपायति सर्व्वाणि यद्वा आत्मानं गोपायतिस्वमायया संवृणोतीति व्युत्पत्या विष्णौ पुं ।यथा, महाभारते १३ १४९ ७६ ।“गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः
”स्त्री, गङ्गा यथा, काशीखण्डे २९ ५१ ।“गोमती गुह्यविद्या गौर्गोप्त्री गगनगामिनी
”)