| YouTube Channel

गोपेशः (gopezaH)

 
शब्दकल्पद्रुमः
Sanskrit
गोपेशः,
पुं,
(गां पृथिवीं पान्ति रक्षन्तीति गोपाराजानस्तेषामीशः सर्व्वहिंसानिवारणादितिभावः प्राप्तराज्योऽप्ययं विषयभोगं तुच्छीकृत्यसन्न्यासेन निर्व्वाणमलभताऽतोऽस्य राजसु श्रेष्ठ-त्वमायातमिति तात्पर्य्यार्थः ।) शाक्यमुनिः ।इति त्रिकाण्डशेषः
(गोपानां गोकुलस्थगोपालानामीशः ।) नन्दघोषः यथा, --“रामकृष्णावुभयतो गोपेशं परितः परे
”इति मुग्धबोधम्
श्रीकृष्णश्च