| YouTube Channel

गोपुरं (gopuraM)

 
शब्दकल्पद्रुमः
Sanskrit
गोपुरं,
क्ली,
(गोपायति नगरं रक्षतीति गुप् +बाहुलकात् उरच् यद्वा गाः पिपर्त्तीति पॄपालनपूरणयोः + “मूलविभुजादिभ्य उपसंख्या-नम् ।” इति कः ।) नगरद्वारम् सहरेर फटक्इति भाषा
तत्पर्य्यायः पुरद्वारम् इत्य-मरः १६
दुर्गपुरद्वारम् इत्यन्ये
द्वारमात्रम् इति भरतः
(यथा, महा-भारते २०८ ३१ ।“द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम् ।गुप्तमभ्रचयप्रख्यैर्गोपुरैर्म्मन्दरोपमैः
*
गौर्जलं पुरमस्य यद्बा गवा जलेनं पिपर्त्तिपूरयति आत्मानमिति पृ + कः ।) कैवर्त्ती-मुस्तकम् इति मेदिनी रे १५०
(वैद्यक-शास्त्रप्रणेता ऋषिभेदः यथा, सुश्रुते सूत्रस्थाने१ अध्याये “अथ खलु भगवन्तममरवरमृषि-गणपरिवृतं आश्रमस्थं काशिराजं दिवोदासंधन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावत कर-वीर्य्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः
”)