| YouTube Channel

गोपालकक्षा (gopAlakakSA)

 
वाचस्पत्यम्
Sanskrit
गोपालकक्षा स्त्री गोपालप्रधाना कक्षा भारतवर्षस्थेप्राच्ये देशभेदे “अत ऊर्द्ध्वं जनपदान्निबोध गदतो मम”इत्युपक्रमे “कक्षा गोपालकक्षाश्च जाङ्गलाः कुरुवर्वराः” ।भा० भी०९ अ० तस्य राजनि अण् गौपालकक्षःतन्नृपे बहुत्वे तस्य लुक् गोपालकक्षास्तन्नृपेषु “ततोगोपालकक्षांश्च सोत्तरानपि कोसलान् मल्लानामधिप-श्चैव पार्थिवांश्चाजयत् प्रभुः” (भीमः) भा० स० २९ अ० ।भीमप्राचीविजयोक्तौ