| YouTube Channel

गोपरिचर्य्या (goparicaryyA)

 
वाचस्पत्यम्
Sanskrit
गोपरिचर्य्या स्त्री त० गोसेवायां तत् प्रकारो हेमा० दा०उक्तस्तत्रादौ ब्रह्मपुराणे“वन्दनीयाश्च पूज्याश्च गावः सेव्यास्तु नित्यशः ।तथा “गवाङ्गोष्ठे स्थितानान्तु यः करोति प्रदक्षिणम् ।प्रदक्षिणीकृतं तेन जगत् सदसदात्मकम् ।” विष्णुः “गावःपवित्रा माङ्गल्या गवि लोकाः प्रतिष्ठिताः गावो वितन्वतेयज्ञान् गावः सर्वाघसूदनाः गोमूत्रं गोमयं सर्पिःक्षीरं दधि रोचना षडङ्गमेतत्परमं माङ्गल्यंसर्वदा गवाम् शृङ्गोदकं गवां पुण्यं सर्वाघविनि-सूदनम् गवां कण्डूयनञ्चैव सर्वकल्मषनाशनम् ।गवां ग्रासप्रदानेन स्वर्गलोके महीयते ।” पद्मपराणे“सदा गावः प्रणम्यास्तु मन्त्रेणानेन पार्थिव! नमोगोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव नमो ब्रह्म-सुताभ्यश्च भूयो भूयो नमो नमः मन्त्रस्य स्मरणादेवगोदानफलमाप्नुयात्” आदित्यपुराणे “लवणं चयथाशक्त्या गवां येंवै ददत्युत तेषां पुण्यकृतांलोका, गवां लोकं व्रजन्ति ते योऽग्रं भक्त्या किञ्चि-दप्राश्य दद्याद्गोभ्यो नित्यं गोव्रती सत्यवादो शान्तोबुद्धो गोसहस्रस्य पुण्यं संवत्सरेणाप्नुयाद्धर्मशीलः” ।देवीपुराणे “गोपालको गवां गोष्ठे यस्तु धूमं नकारयेत् मक्षिकालीननरके मक्षिकाभिः भक्ष्यते ।मृतवतमान्त गां यस्तु दमित्वा पिबते नरः वाहि-ताऽस्याश्चिरं तिष्ठेत् क्षुधार्त्तो वै नराधमः” महाभारते“गोकुलस्य तृषार्त्तस्य जलान्ते वसुधाधिप! उत्पाद-यति यो विघ्नं तमाहुर्व्रह्मघातकम् कृत्वा गवार्थेशरणं शीत--वात--क्षमं महत् आसप्तमन्तारयति कुलंभरतसत्तम! ब्रह्मपुराणे “सदोषा गौर्गृहे जातापरिपाल्या सदा स्वयम् दुःशीलोऽपि द्विजः पूज्योन तु शूद्रः सुसंयतः अनाथानां गवां यत्नात्कार्यस्तुशिशिरे मठः पुण्यार्थं यत्र दीयन्ते तृण-तोये-न्धनानिच” हारीतः “द्वौ मासौ पाययेद्वत्सं तृतीयेद्विस्तनं दुहेत् चतुर्थे त्रिस्तनञ्चैव यथान्यायं यथाबलम्” ब्रह्मपुराणे “आषाद्यामाश्वयुज्याञ्च पौष्यांमाध्यां सर्वदा गृह्लीयाद्गवां क्षीरं सर्वंवत्साय निक्षिपेत् षण्डान्वाहयेच्चैव गां भारेणपीडयेत् युगादिषु युगान्तेषु षडशीतिमुखेषु ।दक्षिणोत्तरगे सूर्ये तथा विषुवतोर्द्वयोः संक्रान्तिषुच सर्वासु ग्रहणे चन्द्रसूर्ययोः पञ्चदश्याञ्चतुर्दश्यांद्वादश्यामष्टमीषु उपचारो गवां कार्यो मासिमासि यथाक्रमम् लवणस्य तु चत्वारि पलान्यष्टौघृतस्य परकीयस्य दुग्धस्य तथा देयानि षोडश ।द्वात्रिंशत् शीतलस्यापि जलस्य पलानि आदौविचार्य पयसः परिमाणं बलं रुचि आकस्मिकन्तुदातव्यं पुण्यार्थन्तु गवाह्निकम् प्रभाते लवणं यत्रदीयते ततो जलम् ततस्तृणानि भोज्यञ्च पो-षणं मांसवर्जितम् निशि दीपः सतन्त्रीको दिव्यापौराणिकी कथा एवं कृते महीं पूर्णां रत्नैर्दत्त्वाभवेत् फलम् गोप्रदानात्तु यत्पुण्यं गवां संरक्षणा-द्भवेत् मनुष्यैस्तृणतोयाद्यैर्गावः पाल्याः प्रयत्नतः ।देयाः पूज्याश्च पोष्याश्च प्रतिपाल्याश्च सर्वदा” तथा“तृणोदकाद्येषु वनेषु मत्ताः क्रीडन्तु गावः सवृषाः स-वत्साः क्षीरं प्रमुञ्चन्तु सुखं स्वपन्तु शीतातपव्याधि-भयैर्विमुक्ताः इमं मन्त्रं शुद्धात्मा जपेन्नित्यंसमाहितः गच्छन् तिष्ठन् जपन् जिघ्रन् भुञ्जन्क्रीडन् समुत्सृजन् महाभयेषु सर्वेषु समेषु विषमेषुच प्रयाणकाले तथा श्रोतव्यमभयप्रदम्” तथा“घासग्रासादिकं देयं निशि दीपः सुमास्वरः इति-हासपुराणानां व्याख्यानं सोपवीणनम् अन्तस्तुष्ठैर्यया-शक्त्या परिचर्या यथाक्रमम् ताडनाक्रोशखेदाश्चस्वप्नेऽपि कदाचन तासां मूत्रपुरीषे तु नोद्वेगःक्रियते क्वचित् शोधनीयश्च गोवाटः शुष्कक्षारा-दिकैः सदा ग्रीष्मे वृक्षाकुलं वेश्म शीते तप्तं विकर्दमम् ।बर्षासु चाथ शिशिरे सुखोष्णं वातवर्जितम् उच्छिष्टंमूत्रविट्श्लेष्ममलं जह्यान्न तत्र रजस्वला नप्रवेश्या नान्त्यजातिर्न पुंश्चली लङ्घयेद्वत्सतरीं नक्रीडेद्गोष्ठसन्निधौ गन्तव्यं गवां मध्ये सोपानत्-कः सपादुकैः हस्त्यश्वरथयानैश्च सवितानैः कदाचन ।दक्षिणोत्तरगैः प्रह्वैर्गन्तव्यञ्च पदातिभिः गावःकृशा-तुराः पाल्याः श्रद्धया पितृमातृवत् गिरिप्रपातसिंह-र्क्षशीतातपभयातुराः महाकोलाहले घोरे दुर्दिनेदेशविप्लवे गवां तृणानि देयानि शीतलं तथाजलम्” विष्णुधर्मोत्तरे “पुष्कर उवाच गवांहि पालनं राज्ञा कर्त्तव्यं भृगुनन्दन गावः षवित्रामाङ्गल्या गोषु लोकाः प्रतिष्ठिताः गावो वितन्वतेयज्ञं गावो विश्वस्य मातरः शकृन्मूत्रं परं तासाम-लक्ष्मीतापनं परम् तद्धि मेध्यं प्रयत्नेन तत्र लक्ष्मीःप्रतिष्ठिता उद्वेगश्च गन्तव्यः शकृष्मूत्रे विजानता ।गवां मूत्रपुरीषे तु ष्ठीवनाद्यं संत्यजेत् गोरजःपरमं पुण्यमलक्ष्मीविघ्ननाशनम् गवां कण्डूयनञ्चैवसर्वकल्मषनाशनम् गवां शृङ्गोदकं राम! जाह्नवीज-लसन्निभम् गोमूत्रं गोमयं क्षीरं दधि सर्पिःकुशोदकम् पवित्रं परमं ज्ञेयं स्नाने पाने भा-र्गव! रक्षोघ्नमेतन्माङ्गल्यं कलिदुःस्वप्ननाशनम् रो-चना तथा धन्या रक्षोगदगरापहा यस्तु कल्यंसमुत्थाय मुखमाज्ये निरीक्षते तस्याऽलक्ष्मीः क्षयंयाति वर्द्धते किल्विषम् गवां ग्रासप्रदानेनपुण्यं सुमहदश्नुते यावतीः शक्नुयाद्गास्तु सुखंधारयितुं गृहे धारयेत्तावतीर्नित्यं क्षुधार्त्तास्ता नधारयेत् दुःखिता धेनवे यत्र वसन्ति द्विजमन्दिरे ।नरकं समवाप्नोति नात्र कार्या विचारणा दत्त्वा पर-गवे ग्रासं पुण्यं सुमहदश्नुते शिशिरं सकलंकालं ग्रासं परगवे तथा दत्त्वा स्वर्गमवाप्नोति संवत्-सरशतानि षट् अग्रभक्तं नरो दत्त्वा नित्यमेव तथागवाम् समाष्टकेन लभते नाकलोकं समायुतम् ।सायं प्रातर्मनुष्याणामशनं वेदनिर्मितम् तथैकमशनंदत्त्वा गवां नित्यमतन्त्रितः द्वितीयं यः समश्नातितेन संवत्सरान्नरः गवां लोकमवाप्नोति यावन्मन्वन्तरद्विज! शीतत्राणं गवां कृत्वा गृहे पुरुषसत्तम! ।गवां प्रपाणे पानीयं कृत्वा पुरुषसत्तम! वारुणं लोक-माप्नोति क्रीडत्यप्सरसां गणैः गवां पानप्रवृत्तानांयस्तु विघ्नं समाचरेत् ब्रह्महत्या कृता तेन घोराभवति भार्गव! परां तृप्तिं नचाप्नोति यत्र तत्राभिजा-यते गवां प्रचारभूमिन्तु वाहयित्वा हलादिना ।नरकं महदाप्नोति यावदिन्द्राश्चतुर्दश सिंहव्याध्र-मयत्रस्तां पङ्कलग्नां जले गताम् गामुद्धृत्य नरः स्वर्गेकल्पमोगानुपाश्नुते गवां लवणदानेन रूपवानभि-जायते सौभाग्यं महदाप्नोति लावण्यञ्च द्विजो-त्तम! औषधञ्च तथा दत्त्वा विरोगस्त्वभिजायते ।औषधं लवणं तोयमाहारञ्च प्रयच्छति तासाञ्चेदवरु-द्धानाञ्चरन्तीनां मिथो वने यामुत्प्लुत्य वृको हन्या-न्न पालस्तत्र किल्विषी गोबधेन नरो याति नरकाने-कविंशतिम् तस्मात्सर्वप्रयत्नेन कार्यं तासान्तु पाल-नम् विक्रयाच्च गवां राम! नरकं प्रतिपद्यते तासान्तुकीर्त्तनादेव नरः पापाग् प्रमुच्यते तासां संस्पर्शनंधन्यं सर्वकलमषनाशनम् दानेन तथा तासां कु-ल्यान्यपि समुद्धरेत् उदक्यासूतिकादोषो नैव तत्रगृहे भवेत् भूमिदोषस्तथान्योऽपि यत्रैका वसते चगौः गवां निःश्वासवातेन परा शान्तिर्गृहे भवेत् ।नीराजनं तत्परमं सर्वस्थानेषु कीर्त्त्यते गवां संस्प-र्शनाद्राम! कल्मषं क्षोयते नृणाम् गोमूत्रं गोमयंक्षीर दधि सर्पिः कुशोदकम् एकरात्रोपवासश्चश्वपाकमपि शोधयेत् पृथक् प्रत्ययाभ्यस्तमिति सान्त-पनं स्मृतम् सर्वकामप्रदं राम! सर्वाशुभविनाशनम् ।कृत्वातिकृच्छ्रं पयसा दिवसानेकविंशतिम् निर्म-लास्तेन चीर्णेन भवन्ति पुरुषोत्तमाः त्र्यहमुष्णंपिबेन्मूत्रं त्र्यहमुष्णं घृतं पिबेत् त्र्यहमुष्णं पयःपीत्वा वायुभक्षः परं त्र्यहम् तप्तकृच्छ्रमिदं प्रोक्तंसर्वाशुभविनाशनम् शीतकृच्छ्रस्तथैवैष क्रमा-च्छीतैः प्रकीर्त्तितः सर्वाशुभविनाशाय निर्मितोब्रह्मणा स्वयम् गोमूत्रेणाचरेत् स्नानं वृत्तिं कुर्याच्चगोरसैः उत्थितासूत्थितस्तिष्ठेदुपविष्टासु स्थितः ।अभुक्तवत्यां नाश्नोयादपीतासु नो पिबेत् त्रार्णंचैवात्मना कार्यं भयार्त्ताश्च समुद्धरेत् आत्मानमपिसन्त्यज्य गोव्रतं तत् प्रकीर्त्तितम् सर्वपापप्रशमनमासेनैकेन भार्गव! व्रतेनानेन पूर्णेन गोलोकं पुरुषो-व्रजेत् अभीष्टमथ वा राम! यावदिन्द्राश्चतुर्दश शवामाहारनिर्मुक्तानश्नन् प्रतिदिनं यवान् मासेन तद-वाप्नोति यत्किञ्चिन्मनसेच्छति गोमतीञ्च तथा विद्यांसायं प्रातस्तथा जपेत् गोलोकमाप्नोति नरोनात्रकार्या विचारणा उपर्युपरि सर्वेषां गवां लोकः प्रकी-र्त्तितः निवसन्ति सदा यत्र गावस्त्वाकाशगा दिवि ।विमानेषु विचित्रेषु वृतेष्वप्सरसाङ्गणैः किङ्किणी-जालचित्रेषु वीणासु रचनादिषु सदा कामफलानद्यः क्षीरपायसकर्दमाः शीतलामलपानीयाः सुव-र्णसिकतास्तथा पुंष्करिण्यः शुभास्तत्र वैदूर्यकमलो-त्पलाः मानसी तथा सिद्धिस्तत्र लोके भृगूत्तम! ।तन्तु लोकं नरा यान्ति गवां भक्त्या संशयः गो-मतीं कीर्त्तयिष्यामि सर्वपापप्रणाशिनीम् तान्तु मेगदतो विप्र! शृणुष्व सुसमाहितः गावः सुरभयोनित्यं गावो गुम्गुलुगन्धिकाः गावः प्रतिष्ठा भूतानांगावः स्वस्त्ययनं परम् अन्नमेव परं गावो देवानां ह-विरुत्तमम् पावनं सर्वदेवानां रक्षन्ति वहन्ति ।हविषा मन्त्रपूतेन तर्पयन्त्यमरान् दिवि ऋषीणाम-ग्निहोत्रेषु गावो होमनियोजिताः सर्वेषामेव भू-तानां गावः शरणमुत्तमम् गावः पवित्रं परमं गावोमङ्गलमुत्तमम् गावः स्वर्गस्य सोपानं गावोधन्याःसनातनाः नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एवच नमो व्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ।ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् एकत्रमन्त्रास्तिष्ठन्ति हबिरेकत्र तिष्ठति देवब्राह्मणगो-साधुसाध्वीभिः सकलं जगत् धार्यते वै सदा तस्मात्सर्वे पूज्यतमा मताः यत्र तीर्थे सदा गावः पिवन्तितृषिता जलम् उत्तरन्त्यथ वा येन, स्थिता तत्र सर-स्वती गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथासांरजसि प्रवृद्धा लक्ष्मीः करीषे प्रणतौ घर्मस्तासांप्रणामं सततञ्च कुर्यात्” भविष्यत्पुराणे “व्रह्मोवाचगामालभ्य नमस्तृत्य कुर्याद्यस्तु प्रदक्षिणम् प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा गवां हुङ्कारशब्देनदृष्टिपातेन सत्तम! पापं प्रणश्यते यस्मात्तस्मात्पश्येत्स्पृशेच्च ताः कुतस्तस्य भवेत्पापं गृहं यस्य विभूषि-तम् सततं बालवत्साभिरर्जुनीभिरलङ्कृतम् या-वत्तीर्थानि मेदिन्यामासमुद्रं सरांसि गवां शृङ्गो-दकस्नानकलां नार्हन्ति षोडशीम् गवामस्थि नलङ्गेत मृते गन्धं वर्जयेत् यावदाघ्राति तद्गन्धंतावत् पुण्येन यज्यते गवां कण्डूयनं धन्यं गोप्रदा-नफलप्रदम् तुल्यं गोशतदानस्य भयरोगादिपाल-नम् तृणोदकादिसंयुक्तं यः प्रदद्याद्गवाह्निकम् कपि-लाशतदानस्य फलं विद्यान्न संशयः पञ्चभूते! शिवे!पुण्ये! पवित्रे! सूर्यसम्भवे! प्रतीच्छेदं मया दत्तंसौरभेयि! नमोऽस्तु ते बहुना किमुक्तेन गावःपाल्याः प्रयत्नतः गावोदेयास्तथा रक्ष्याः पूज्या ग्रा-ह्याश्च सर्वशः गां वै ये ताडयन्तीह सर्वलोकस्य मातरम् ।ते यान्ति रौरवं नाम नरकं नात्र संशयः ताडये-द्यस्तु वै मोहात् यो वा कश्चिन्नराधमः गच्छेन्न-रकं घोरं सम्पीडकमिति श्रुतिः आयान्तीं हन्तु-कामां यः सौरभेयीं विभावरीम् क्षम मातरितिब्रूयात् याति परमं पदम्” वराहपुराणे “यम-उवाच गावः पवित्रं मङ्गल्या देवानामपि देवता ।यस्ताः शुश्रूषते भक्त्या पापेभ्यः प्रमुच्यते याव-ज्जीवं कृतं पापं तत्क्षणादेव नश्यति लाङ्गूलेनो-द्धृतं तोयं मूर्ध्ना गृह्णाति यो नरः शरत्सु ह्युप-जातेभ्यः पापेभ्यः प्रमुच्यते प्रस्नवे यो गवां स्नायात्रोहिण्यां मानवो भुवि सर्वपापकृतान् दोषान् दह-त्याशु संशयः घेनोस्तनाद्विनिष्क्रान्तां धारां क्षीरस्ययो नरः शिरसा प्रतिगृह्णीयात्स पापेभ्यः प्रमु-च्यते” आधिकं कृषिशब्दे २२०१ पृ० दर्शिते वृहत्-पराशरवाक्ये दृश्यम्