| YouTube Channel

गोपः (gopaH)

 
Apte
English
गोपः [gōpḥ], (-पी
f.
) [गुप्-अच्]
One who guards or protects
शालिगोप्यो जगुर्यशः
R.*
4.2.
Hiding. concealment.
Reviling, abuse.
Flurry, agitation.
Light, lustre, splendour.
गोपः [gōpḥ] गोपनम् [gōpanam], गोपनम् See under गुप्.
Apte 1890
English
गोपः (पी f.) [गुप्-अच्] 1 One who guards or protects
शालिगोप्यो जगुर्यशः R. 4. 20.
2 Hiding, concealment.
3 Reviling, abuse.
4 Flurry, agitation.
5 Light, lustre, splendour.
गोपः,
गोपनं See under गुप्.
Apte Hindi
Hindi
गोपः
पुं*
गो-पः -
ग्वाला
गोपः
पुं*
गो-पः -
गौशाला का प्रधान
गोपः
पुं*
गो-पः -
गाँव का अधीक्षक
गोपः
पुं*
गो-पः -
राजा
गोपः
पुं*
गो-पः -
"प्ररक्षक, अभिभावक"
गोपः
पुं*
- गुप् - अच्
घञ् वा
"रक्षक, रक्षा करने वाला"
गोपः
पुं*
- -
"छिपाना, गुप्त रखना"
गोपः
पुं*
- -
"दुर्वचन, गाली"
गोपः
पुं*
- -
"हड़बड़ी, क्षोभ"
गोपः
पुं*
- -
"प्रकाश, प्रभा, दीप्ति"
Wordnet
Sanskrit
Synonyms:
गोपालकः, गोपः, यादवः
noun
गोपालकजातीयो पुरुषः।
"गोपालकः गां दोग्धि।"
शब्दकल्पद्रुमः
Sanskrit
गोपः,
पुं,
(गोर्जलात् कफपित्तादिदूषितरसातपाति रक्षतीति गो + पा + “आतोऽनुपसर्गेकः ।” इति कः ।) बोलः (गांगोजातिं पाति रक्षतीति गो + पा + कः ।)जातिविशेषः गोयाला इति भाषा
तत्-पर्य्यायः गोसंख्यः गोधुक् आभीरः ४वल्लवः गोपालः इत्यमरः ५७
तस्योत्पत्तिर्यथा, --“मणिबन्ध्यां तन्त्रवायात् गोपजातेश्च सम्भवः ।”इति पराशरपद्धतिः
(यथा, मनुः २६० ।“व्याधाञ्छाकुनिकान् गोपान् कैवर्त्तान् मूल-खानकान् ।व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः
”)गोष्ठाध्यक्षः (गां पृथिवीं पाति रक्षतीति ।पा + कः ।) पृथ्वीपतिः बहुग्रामस्याधिकृतः ।इति मेदिनी पे
(गाः पाति रक्षतीति ।पा + कः गोरक्षकः यथा, मनुः २३१ ।“गोपः क्षीरभृतो यस्तु दुह्याद्दशतो वराम् ।गोस्वाम्यनुमते भृत्यः सा स्यात् पाले भृते भृतिः
”गन्धर्व्वविशेषः यथा, रामायणे ९१ ४६ ।“नारदस्तुम्बुरुर्गोपः प्रभया सूर्य्यवर्च्चसः ।एते गन्धर्व्वराजानो भरतस्याग्रतो जगुः
”)
गोपः, त्रि, (गोपायति रक्षतीति गुपू ञ् रक्षणेगुप + आय + “आयादय आर्द्धधातुके वा ।”३ ३१ इति अच् ।) रक्षकः उप-कारकः इति शब्दरत्नावली
(यथा, ऋग्-वेदे १० ६१ १० “द्विबर्हसो उप गोप-मागुरदक्षिणासो अच्युता दुदुक्षन्
”)
कृदन्तरूपमाला
Sanskrit
1 {@“गुप व्याकुलत्वे”@} 2 “णौ गोपयति भाषार्थे, निन्दायां से जुगुप्सते।
गोपायेद् रक्षणे त्वाये, व्याकुलत्वे तु गुप्यति।।” 3 इति देवः।
गोपकः-पिका, गोपकः-पिका, 4 जुगोपिषकः-जुगुपिषकः, 5 जोगुपकः-पिका
गोपिता-त्री, गोपयिता-त्री, जुगोपिषिता-जुगुपिषिता-त्री, जोगुपिता-त्री
6 गुप्यन्-न्ती, गोपयन्-न्ती, जुगोपिषन्-जुगुपिषन्-न्ती
-- गोपिष्यन्-न्ती-ती, गोपयिष्यन्-न्ती-ती, जुगोपिषिष्यन्-जुगुपिषिष्यन्-न्ती-ती
-- गोपयमानः, गोपयिष्यमाणः, जोगुप्यमानः, जोगुपिष्यमाणः
गुब्-गुप्-गुपौ-गुपः
-- -- -- गुपितम्-तः-तवान्, गोपितः, जुगोपिषितः-जुगुपिषितः, जोगुपितः-तवान्
7 गुपः, 8 प्रगोपी, गोपः जुगोपिषुः-जुगुपिषुः, जोगुपः
गोपितव्यम्, गोपयितव्यम्, जुगोपिषितव्यम्-जुगुपिषितव्यम्, जोगुपितव्यम्
गोपनीयम्, गोपनीयम्, जुगोपिषणीयम्-जुगुपिषणीयम्, जोगुपनीयम्
गोप्यम्, गोप्यम्, जुगोपिष्यम्-जुगुपिष्यम्, जोगुप्यम्
ईषद्गोपः-दुर्गोपः-सुगोपः
-- -- गुप्यमानः, गोप्यमानः, जुगोपिष्यमाणः-जुगुपिष्यमाणः, जोगुप्यमानः
गोपः, गोपः, जुगोपिषः-जुगुपिषः, जोगुपः
गोपितुम्, गोपयितुम्, जुगोपिषितुम्-जुगुपिषितुम्, जोगुपितुम्
गुप्तिः, गोपना, जुगोपिषा-जुगुपिषा, जोगुपा
9 गोपनम्, गोपनम्, जुगोपिषणम्-जुगुपिषणम्, जोगुपनम्, 10 गोपित्वा-गुपित्वा, गोपयित्वा, जुगोपिषित्वा-जुगुपिषित्वा, जोगुपित्वा
सङ्गुप्य, सङ्गोप्य, सञ्जुगोपिष्य-सञ्जुगुपिष्य, सञ्जोगुप्य
गोपम् २, गोपित्वा २, गुपित्वा २, गोपम् २, गोपयित्वा २, जुगोपिषम् -जुगुपिषम् २, जुगोपिषित्वा -जुगुपिषित्वा २, जोगुपम्
जोगुपित्वा २।
प्रासङ्गिक्यः
01
=>
(४०९)
02
=>
(४-दिवादिः-१२३४। सक। सेट्। पर।)
03
=>
(श्लो। १२९)
04
=>
[[१। ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इत्यनेन सेटः सनः कित्त्वविकल्पः। तेन गुणतदभावयोः रूपद्वयम्। एवं सर्वत्र सन्नन्ते बोद्ध्यम्।]]
05
=>
[[२। यङन्ते, ‘यस्य हलः’ (६-४-४९) इति यकारलोपे, ‘अतो लोपः’ (६-४-४८) इत्यलोपे, अल्लोपस्य स्थानिवद्भावात् लघूपधगुणो न। एवं सर्वत्र यङन्ते बोध्यम्।]]
06
=>
[[३। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन्। श्यनो ङिद्वद्भावान्नाङ्गस्य गुणः। ‘शप्- श्यनोर्नित्यम्’ (७-१-८१) इति नित्यं नुम्।]]
07
=>
[[४। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
08
=>
[[५। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
09
=>
[पृष्ठम्०३९८+ २२]
10
=>
[[१। ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इति क्त्वायाः वैकल्पिकं कित्त्वम्। तेन रूपद्वयम्।]]