| YouTube Channel

गोनर्द्दः (gonarddaH)

 
शब्दकल्पद्रुमः
Sanskrit
गोनर्द्दः,
पुं,
(गवि जले नर्द्दति कूजतीति गो +नर्द्द + “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।” ।१ १३४ इति पचादित्वादच् ।) सारस-पक्षी इति मेदिनी दे २८
(गोभिर्वाग्भि-र्नर्द्दतीति अच् ।) देशविशेषः यथा, बृहत्-संहितायाम् १४ १२ ।“कङ्कटटङ्कणवनवासि-शिविकफणिकारकोङ्कणाभीराः ।आकरवेणावन्तक-दशपुरगोनर्द्दकेरलकाः
”गोनर्द्दस्य देशस्य राजा “तद्राजेऽपि ।” ।४ ६२ इत्यण् गोनर्द्दराजः यथा, राज-तरङ्गिण्याम् ५७ ।“काश्मीरेन्द्रः गोनर्द्दो वेल्लद्गङ्गादुकूलया ।दिशा कैलासहासिन्या प्रतापी पर्य्युपास्यत
”)