| YouTube Channel

गोनर्द्द (gonardda)

 
वाचस्पत्यम्
Sanskrit
गोनर्द्द
पु०
गवि जले नर्द्दति नर्द्द--अच् सारसखगे मेदि०गवा जलेन नर्दति कैवर्त्तीमुस्तके
न०
मेदि० गवावाचा नर्दते अच् देशभेदे
पु०
कूर्मविभागेवृ० स० १४ अ० दक्षिणस्यामुक्तः “अथ दक्षिणेन लङ्का”इत्युपक्रमे “दशपुरगोनर्दकेरलाः” सोऽभिजनोऽस्यअण् गौनर्द तद्देशवासिनि बहुषु अणो लुक् ।तद्देशवासिषु ब० व० गोनर्दनीचशूद्रान् वैदेहां-श्चानयः स्पृशति” वृ० स० अ० ।“तद्राजेऽपि अण् गौनर्द तन्नृपे “काश्मीरराजोगोनर्दोदरदाधिपतिर्नृपः” काश्मीर राजो गोनर्दःकरूषाधिपतिस्तथा” हरि० ९१ अ० बहुषु तस्य लुप् ।गवि वृषे नर्दते नर्द--अच् महादेवे
पु०
“गोनर्दोगोप्रभावश्च गोवृषेश्वरवाहनः” भा० शा० २८६ अ० दक्षकृतशिवस्तुतौ गोनर्दे देशे भवः “एङ् प्राचां देशे” पा०वृद्धसंज्ञत्वात् छः गोनर्दीय तद्देशभवे
त्रि०
प्राचोऽन्यमतेअण् गौनर्द तत्रार्थे
त्रि०