| YouTube Channel

गोधूमसारः (godhUmasAraH)

 
शब्दकल्पद्रुमः
Sanskrit
गोधूमसारः,
पुं,
गोधूमस्य सारभागः पालोइति भाषा
तत्करणविधिर्यथा “निस्तुष-गोधूमं उढूखले कण्डयित्वा सन्ध्याकाले मृत्तिका-दिपात्रे जले मग्नं कारयित्वा परदिने प्रभातेउपरिस्थजलं क्रमेण दूरीकृत्य नीचस्थसारं रौद्रेशुष्कं कृत्वा पात्रान्तरे स्थापयेत् ।” इति पाक-राजेश्वरः