| YouTube Channel

गोधूमसार (godhUmasAra)

 
शब्दकल्पद्रुमः
Sanskrit
गोधूमसारः,
पुं,
गोधूमस्य सारभागः पालोइति भाषा
तत्करणविधिर्यथा “निस्तुष-गोधूमं उढूखले कण्डयित्वा सन्ध्याकाले मृत्तिका-दिपात्रे जले मग्नं कारयित्वा परदिने प्रभातेउपरिस्थजलं क्रमेण दूरीकृत्य नीचस्थसारं रौद्रेशुष्कं कृत्वा पात्रान्तरे स्थापयेत् ।” इति पाक-राजेश्वरः
वाचस्पत्यम्
Sanskrit
गोधूमसार
पु०
त० (गोहमेरपालो) इति ख्याते गोधूमस्यसारांशे तत्करणप्रकारः पाकराजेश्वरे “निस्तुषान्गोधूमानुदूखले कण्डयित्वा सायङ्काले मृत्तिकादिपात्रेजले मग्नं कृत्वा परदिने प्रभातसमये उपरिस्थं जलंक्रमेण दूरीकृत्याऽधःस्थं सारमातपे शुष्कं कृत्वापात्रान्तरे स्थापयेदिति”