| YouTube Channel

गोत्रभाग (gotrabhAga)

 
वाचस्पत्यम्
Sanskrit
गोत्रभाग
पु०
गोत्राणामेकगोत्रजातानां भागः गोत्र-जातानां परस्परविभागे “गोत्रसाधारणं त्यक्त्वायोऽन्यदेशं समाश्रितः तद्वंश्यस्यागतस्यांशः प्रदातव्योन संशयः तृतीयः पञ्चमश्चैव सप्तमोवापि यो भवेत् ।जन्मनामपरिज्ञाने लभेतांशं क्रमागतम् यं परम्प-रया मौलाः सामन्ताः स्वामिनं विदुः तदन्वयस्यागतस्य दातव्या गोत्रजैर्मही भुक्तिस्त्रैपुरुषी सिध्येदपरेषां संशयः अनिवृत्ते सपिण्डत्वे सकुल्यानांन सिध्यति अस्वामिना तु यद्भुक्तं गृहक्षेत्रापणा-दिकम् सुहृद्बन्धुसकुल्यस्य तद्भोगेन हीयते ।विवाह्यश्रोत्रियैर्भुक्तं राज्ञामात्यैस्तथैव सुदीर्घे-णापि कालेन तेषां सिद्ध्यति तत्तु न” वृहस्पतिः गोत्रसाधारणं द्रव्यमिति शेषः विवाह्यो जामाता