| YouTube Channel

गोत्रं (gotraM)

 
शब्दकल्पद्रुमः
Sanskrit
गोत्रं,
क्ली,
गवते शब्दयति पूर्व्वपुरुषान् यत् ।इति भरतः
(गु + “गुधृवीपतीति ।” उणां ।४ १६६ इति त्रः ।) तत्पर्य्यायः सन्ततिः२ जननम् कुलम् अभिजनः अन्वयः ६वंशः अन्ववायः सन्तानः इत्यमरः ।२
आख्या (यथा, कुमारे ।“स्मरसि स्मरमेखलागुणै-रुत गोत्रस्खलितेषु बन्धनम्
”)सम्भावनीयबोधः काननम् क्षेत्रम् वर्त्म ।इति मेदिनी रे २६
छत्रम् इति हेम-चन्द्रः
संघः वृद्धिः इति शब्दचन्द्रिका
वित्तम् इति विश्वः
*
“वंशपरम्पराप्रसिद्धंआदिपुरुषं ब्राह्मणरूपम् ।क्षत्त्रियवैश्ययोरुपदिष्टातिदिष्टगोत्रं शूद्रस्याति-दिष्टातिदिष्टगोत्रम् ।” इत्युद्वाहतत्त्वम्
क्षत्त्रिय-वैश्य शूद्राणामतिदिष्टातिदिष्टगोत्रप्रवरमतएवै-तेषां पुरोहितगोत्रप्रवरमित्यर्थः तथा चाग्नि-पुराणे वर्णसङ्करोपाख्याने ।“क्षत्त्रियवैश्यशूद्राणां गोत्रञ्च प्रवरादिकम् ।तथान्यवर्णसङ्कराणां येषां विप्राश्च याजकाः
”गोत्राणि तु चतुर्व्विंशतिः तथा मनुः ।“शाण्डिल्यः काश्यपश्चैव वात्स्यः सावर्णकस्तथा ।भरद्वाजो गौतमश्च सौकालीनस्तथापरः
कल्किषश्चाग्निवेश्यश्च कृष्णात्रेयवशिष्ठकौ ।विश्वामित्रः कुशिकश्च कौशिकश्च तथापरः
घृतकौशिकमौद्गल्यौ आलम्यानः पराशरः ।सौपायनस्तथात्रिश्च वासुकी रोहितस्तथा
घैयाघ्रपद्यकश्चैव जामदग्न्यस्तथापरः ।चतुर्व्विंशतिर्वै गोत्रा कथिताः पूर्व्वपण्डितैः
”तथा मनुः ।“जमदग्निर्भरद्वाजो विश्वामित्रात्रिगौतमाः ।वशिष्ठकाश्यपागस्त्या मुनयो गोत्रकारिणः
एतेषां यान्यपत्यानि तानि गोत्राणि मन्यते
”एतदुपलक्षणमन्येषामपि दर्शनात् तथा ।“सौकालीनकभौद्गल्यौ पराशरबृहस्पती ।काञ्चनो विष्णुकौशिक्यौ कात्यायनात्रेय-काण्वकाः
कृष्णात्रेयः साङ्कृतिश्च कौण्डिल्यो गर्गसंज्ञकः ।आङ्गिरस इति ख्यातः अनावृकाख्यसङ्गितः
अव्यजैमिनिवृद्धाख्याः शाण्डिल्यो वात्स्यएव ।सावर्ण्यालम्यानवैयाघ्रपद्यश्च घृतकौशिकः
शक्त्रिः काण्वायनश्चैव वासुकी गौतमस्तथा ।शुनकः सौपायनश्चैव मुनयो गोत्रकारिणः
एतेषां यान्यपत्यानि तानि गोत्राणि मन्यते
”सर्व्वे चत्वारिंशद्गोत्राः इति कुलदीपिका-धृतधनञ्जयकृतधर्म्मप्रदीपः
(मेघः इतिनिघण्टुः १० यथा, ऋग्वेदे ५१ ।“त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शत-दुरेषु गातुवित्
”)