| YouTube Channel

गोचर्म्म (gocarmma)

 
शब्दकल्पद्रुमः
Sanskrit
गोचर्म्म, [न्]
क्ली,
(गोश्चर्म्म ।) गवां त्वक् ।कर्म्मविशेषे तदासनविधिर्यथा, --“मेषासनन्तु वश्यार्थमाकृष्टौ व्याघ्रचर्म्म ।शान्तौ मृगाजिनं शस्तं मोक्षार्थं व्याघ्रचर्म्म
”गोचर्म्मस्तम्भने देवि सम्भवे वाजिचर्म्म
”इति समयाचारतन्त्रे पटलः
*
परिमाणविशेषः यथा, --“यत् किञ्चित् कुरुते पापं ज्ञानतोऽज्ञानतोऽपि वा ।अपि गोचर्म्ममात्रेण भूमिदानेन शुध्यति
”गोचर्म्मलक्षणञ्च वृहस्पतिना दर्शितम् यथा, --“सप्तहस्तेन दण्डेन त्रिंशद्दण्डैर्निवर्त्तनम् ।दश तान्येव गोचर्म्म दत्त्वा स्वर्गे महीयते
”इति मिताक्षरायां आचाराध्यायः