| YouTube Channel

गोक्षुरः (gokSuraH)

 
Wordnet
Sanskrit
Synonyms:
गोक्षुरः, गोक्षुरकः, क्षुरः, क्षुरकः, गोशफः
noun
गावः खुरः।
"गोक्षुरस्य मर्दनात् शस्यं नष्टम्।"
शब्दकल्पद्रुमः
Sanskrit
गोक्षुरः,
पुं,
(क्षुरति विलिखतीति क्षुर विले-खने + “इगुपधज्ञेति ।” १३५ इतिकः ततो गोः पृथिव्याः क्षुरः अस्त्रविशेषइव बहुकण्टकाकीर्णत्वात् तथात्वम् ।) क्षुद्र-क्षुपविशेषः तु क्षुद्रबृहद्भेदेन द्विविधः ।गोखुरि इति गोखुरु इति भाषा
तत्-पर्य्यायः त्रिकण्टः स्थलशृङ्गाटः गोकण्टः ४त्रिकण्टकः त्रिपुटः कण्टकफलः क्षुरः ।इति रत्नमाला
गोक्षुरकः पलङ्कषा १०इक्षुगन्धा ११ श्वदंष्ट्रा १२ स्वादुकण्टकः १३गोकण्टकः १४ वनशृङ्गाटः १५ इत्यमरः ।२ ९८--९९
क्षुरकः १६ भक्ष्यकण्टः १७इक्षुगन्धिका १८ इति भावप्रकाशः
क्षुरङ्गः १९श्वदंष्ट्रकः २० कण्टकी २१ भद्रकण्टः २२ व्याल-दंष्ट्रः २३ षडङ्गः २४ गोखुरः २५ त्रिकटः २६त्रिकः २७ इक्षुरः २८ इति शब्दरत्नावली
अस्य गुणाः सुशीतलत्वम् बलप्रदत्वम् ।मधुरत्वम् बृंहणत्वम् कृच्छ्राश्मरीमेहविदाह-नाशित्वम् रसायनत्वम् तत्र बृहतो गुणो-त्तरत्वञ्च इति राजनिर्घण्टः
स्वादुत्वम् ।वस्तिशोधनत्वम् दीपनत्वम् पुष्टिदत्वम् ।श्वासकासार्शोव्रणनाशित्वञ्च इति भाव-प्रकाशः
वायुनाशित्वम् वृष्यत्वञ्च
तच्छाक-गुणाः तिक्तत्वम् वृष्यत्वम् स्रोतोविशोधन-त्वञ्च इति राजवल्लभः