| YouTube Channel

गोकुलं (gokulaM)

 
शब्दकल्पद्रुमः
Sanskrit
गोकुलं,
क्ली,
(गोः कुलम् ।) गोसमूहः तत्-पर्य्यायः गोधनम् गवांव्रजः इत्यमरः ।२ ५८
(यथा, रामायणे १७ ।“गोकुलाकुलतीरायाः तमसाया विदूरतः ।अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह
”)गोस्थानम् यथा, तिथ्यादितत्त्वे ।“गोकुले कन्दुशालायां तैलयन्त्रेक्षुयन्त्रयोः ।अमीमांस्यानि शौचानि स्त्रीषु बालातुरेषु
”मथुरैकदेशे श्रीनन्दस्य वासस्थानम् यथा, --“कालेन व्रजता तात ! गोकुले रामकेशवौ ।जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः
”इति श्रीभागवतम्
(अत्र प्रदेशे महादेवो गोपीश्वर इत्याख्ययाप्रसिद्धो विराजते यदुक्तं महालिङ्गेश्वरतन्त्रेशिवशतनामस्तोत्रे, --“गोकुले गीपिनीपूज्यो गोपीश्वर इतीरितः
”पुं, स्वनामख्यातः पण्डितविशेषः अयन्तु सप्त-दशशतपरिमितशकाब्दसम्बत्सरप्रारम्भे एवमिथिलादेशान्तर्वर्त्तिनि ‘मगरौणी’ संज्ञकग्रामेविद्यानिधिपीताम्बरपण्डितात् जातः इतिमैथिलाः अद्यावधि ज्ञाता अनेन विरचिताग्रन्थास्त्वेते दीधितिविद्योतः (शिरोमणि-टीका ।) न्यायसिद्धान्ततत्त्वम् पदवाक्य-रत्नाकरः मासमीमांसा मिथ्यात्व-निरुक्तिः रश्मिचक्रम् (चिन्तामणिटीका ।७ रसमहार्णवः लाघवगौरवरहस्यम् ।९ शिवशतकम्
)