| YouTube Channel

गैरिकं (gairikaM)

 
शब्दकल्पद्रुमः
Sanskrit
गैरिकं,
क्ली,
(गिरौं भवमिति अध्यात्मादित्वात्ढञ् ।) स्वर्णम् रक्तवर्णधातुविशेषः गिरि-माटी इति भाषा
तत्पर्य्यायः रक्तधातुः २गिरिधातुः गवेधुकम् धातुः सुरङ्ग-धातुः गिरिमृद्भवम् इति राजनिर्घण्टः
वनालक्तम् गवेरुकम् प्रत्यश्मा १० गिरि-मृत् ११ इति त्रिकाण्डशेषः
लोहित-मृत्तिका १२ गिरिजम् १३
पीतगैरिकस्यपर्य्यायः सुवर्णगैरिकम् सुवर्णम् स्वर्ण-गैरिकम् इति रत्नमाला
स्वर्णधातुः सुर-क्तकः सन्ध्याभ्रम् वभ्रुधातुः शिला-धातुः अनयोर्गुणाः मधुरत्वम् शीत-त्वम् कषायत्वम् व्रणरोपणत्वम् विस्फोटा-र्शोऽग्निदाहनाशित्वम् स्वर्णवर्णादिकं शुभम् ।इति राजनिर्घण्टः
निर्म्मलत्वम् स्निग्धत्वम् ।सुवर्णगैरिकं तद्वत् विशेषतश्चक्षुस्तेजस्कारित्वम् ।इति राजवल्लभः
“गैरिकं रक्तधातुश्च गैरेयं गिरिजन्तथा ।सुवर्णगैरिकन्त्वन्यत्ततो रक्ततरं हि तत्
गैरिकद्वितयं स्निग्धं मधुरन्तुवरं हिमम् ।चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)