| YouTube Channel

गेषृ (geSR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
गेष्
मूलधातुः:
गेषृ
धात्वर्थः:
अन्विच्छायाम् (अन्वेषणम्)
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
गेषते
अनुबन्धादिविशेषः:
ऋदित्
क्षीरतरङ्गिणी
Sanskrit
गेषृँ गेषृ अन्विच्छायाम्
-(अर्थविवरणम्) अन्विच्छा गवेषणा
गेषते अजिगेषत् 608
धातुवृत्तिः
Sanskrit
गेषृँ गेषृ (अर्थः) अन्विच्छायाम्
ग्लेष्ट इति मैत्रेयः(अर्थविवरणम्) अन्विच्छान्वेषणम्
( गेषते जिगेषे गेषिता जिगेषिषते जेगेष्टि जेगेष्टः गेषयति अजिगेषत् ) ऋदित्त्वान्नोपधाह्रस्वः 606
कृदन्तरूपमाला
Sanskrit
1 {@“गेषृ अन्विच्छायाम्”@} 2 अन्विच्छा-अन्वेषणा।
गेषकः-षिका, गेषकः-षिका, जिगेषिषकः-षिका, जेगेषकः-पिका
इत्यादीनि सर्वाणि रूपाणि भौवादिकगेपृवत् 3 ज्ञेयानि।
क्विपि तु-- ‘झलां जशोऽन्ते’ 4 इति जश्त्वे चर्त्वे गेड्-गेट्-गेषौ-गेषः, इति रूपम्, इति विशेषः।
तुमुनि-- 5 गेषितुम्।
6
प्रासङ्गिक्यः
01
=>
(४३१)
02
=>
(१-भ्वादिः-६१४। सक। सेट्। आत्म।)
03
=>
(४२९)
04
=>
(८-२-३९)
05
=>
[[B। ‘भाषितुं खलु हर्षवर्षितो गेषितुं समुचितं नाशकत्। येषणाप्तहरिजेषसम्भ्रमान्नेषितस्मृतिरपेषितो रथात्।।’ धा। का। १। ७८।]]
06
=>
[पृष्ठम्०४२४+ ३०]