गृहू (gRhU)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit गृह्
गृहू
गर्हणे (कुत्सनम्)
भ्वादिः
सकर्मकः
वेट्
आत्मनेपदी
गर्हते
ऊदित्
धातुप्रदीपः
Sanskritगृहूँ गृहू ग्रहणे
- गर्हते । जगृहे । गर्हिता। गर्ढा ।गृढः । गृढिः । क्यप्-गृह्यम् । गृहाः। गृहम्-गेहे कः (3/1/144) इति गृह्णातेः ।कविधानं तस्यैव गृहमिति यथा स्यादिति द्योतयितुम्, गृहेर् मा भूदिति ।। 651 ।।
धातुवृत्तिः
Sanskritगृहूँ गृहू (अर्थः) ग्रहणे
( गर्हते जगृहे जगृहिषे जघृक्षे जगृहिध्वे जघृढ्वे गर्हिता गर्ढा गर्हिष्यते घर्क्ष्यते गर्हताम् अगर्हत गर्हिषीष्ट घृक्षीष्ट ) "लिङ्सिचावात्मनेपदेषु'' इत्यनिट्पक्षे कित्त्वान् न गुणः ( अगर्हिष्ट अघृक्षत अगर्हिषाताम् अगर्हिषत अघृक्षाताम् अगर्हिष्ठाः अघृक्षथाः अगर्हिढ्वम् अगर्हिध्वम् अघृक्षध्वम् अगर्हिषि अघृक्षि अगर्हिष्वहि अघृक्षावहि ) अनिट्पक्षे "शल इगुपधादनिटः क्सः'' "क्सस्याचि'' इत्यल्लोपः यञादौ "अतो दीर्घो यञि'' इति दीर्घः, ढत्वादि तु पूर्ववत् ( जिगर्हिषते जिघृक्षते ) इडभावे "हलन्ताच्च'' इति सनः कित्त्वम् ( जरीगृह्मते ) "रीगृत्वतः'' इति रीक् ( जर्गृहीति जर्गर्ढि जर्गृढः ) रुग्रिकोरप्युदाहार्यम् ( गर्हित्वा गृढ्वा गृहम् ) इगुपधलक्षणः कः अत्र मैत्रेयः "गेहे कः'' इति गृह्णातेः कविधानं तस्यापि गृहमिति यथा स्यादिति अयं क्कचित्कोषे ग्रिह इदुपधः पठ्यते तदनार्षः, यदाह देवः ण्यन्तस्य ग्रहणे ग्रहेर्ग्रहयते तत्राऽनदन्ताद्गृहेर्भूवादेः शपि गर्हते श्नि प्रत्यये गृह्णाति अगृहीत् चेति अत्र पुरुषकारे गृह इत्यनेनैव पूर्वस्माददन्तत्वमात्रविशेषः गृहीत्वा विशिष्टमिति दर्शयिनां गृहपाठाशङ्का निरवकाशतां नीता ग्लह इति स्वामिकाश्यपसम्मताकारादयः पठन्ति तदपि ग्राह्यम् तथा च "अक्षेषु ग्लहः'' इत्यत्र वृत्तिः ग्लहिः प्रकृत्यन्तरमिति ग्लहत इत्यादि पूर्ववत् (ग्लहोऽक्षस्य ) अक्षेषु ग्लहः'' इत्यप् अक्षादन्यत्र (ग्लाह) इति घञ् एषां तु निपातनं ग्रहेरेतदिति तेषामनक्षे ग्रह इति प्रत्युदाहार्यम् लत्वाभावो विशेषः 642
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
कृदन्तरूपमाला
Sanskrit1 {@“गृहू ग्रहणे”@} 2 ‘ण्यन्तस्य ग्रहणे गृहेर्गृहयते, तत्रानदन्ताद् गृहेः भूवादेः शपि गर्हते, शिन तु पदे गृह्णात्यगृह्णीत च।
गर्हेर्वा णिचि निन्दनार्थविषये गर्हेत्, तथा गर्हयेद् भूवादेःशपि कुत्सनार्थविषये गर्हेर्भवेद् गर्हते।।’ 3 इति देवः।
गर्हकः-र्हिका, गर्हकः-र्हिका, 4 जिगर्हिषकः-षिका, जिघृक्षकः-क्षिका, 5 जरीगृहकः-हिका
गर्हिता-त्री- 6 गर्ढा-र्ढ्री, गर्हयिता-त्री, जिगर्हिषिता-त्री, जिघृक्षिता-त्री, जरीगृहिता-त्री
-- गर्हयन्-न्ती, गर्हयिष्यन्-न्ती-ती
-- गर्हमाणः, गर्हयमाणः, जिगर्हिषमाणः-जिघृक्षमाणः, जरीगृह्यमाणः
गर्हिष्यमाणः, घर्क्ष्यमाणः, गर्हयिष्यमाणः, जिगर्हिषिष्यमाणः -जिघृक्षिष्यमाणः, जरीगृहिष्यमाणः
7 संघृट्-संघृड्-संगृहौ-सङ्गृहः
-- -- -- 8 गृढम्-गृढः-गृढवान्, गर्हितः, जिगर्हिषितः -जिघृक्षितः, जरीगृहितः-तवान्
9 गृहम्, 10 गर्हणः, 11 दोषगर्ही, गर्हः, जिगर्हिषुः-जिघृक्षुः, जरीगृहः
12 गर्हितव्यम्-गर्ढव्यम्, गर्हयितव्यम्, जिगर्हिषितव्यम्-जिघृक्षितव्यम्, जरीगृहितव्यम्
गर्हणीयम्, गर्हणीयम्, जिगर्हिषणीयम्-जिघृक्षणीयम्, जरीगृहणीयम्
13 गृह्यम्, गर्ह्यम्, जिगर्हिष्यम्-जिघृक्ष्यम्, जरीगृह्यम्
ईषद्गर्हः-दुर्गर्हः-सुगर्हः
-- -- 14 गृह्यमाणः, गर्ह्यमाणः, जिगर्हिष्यमाणः-जिघृक्ष्यमाणः, जरीगृह्यमाणः, गर्हः, गर्हः, जिगर्हिषः-जिघृक्षः, जरीगृहः, गर्हितुम्-गर्ढुम्, गर्हयितुम्, जिगर्हिषितुम्-जिघृक्षितुम्, जरीगृहितुम्
गृढिः, गर्हणा, जिगर्हिषा-जिघृक्षा, जरीगृहा
गर्हणम्, गर्हणम्, जिगर्हिषणम्-जिघृक्षणम्, जरीगृहणम्
15 गर्हित्वा-गृढ्वा, गर्हयित्वा, जिगर्हिषित्वा-जिघृक्षित्वा, जरीगृहित्वा
प्रगृह्य, प्रगर्ह्य, प्रजिगर्हिष्य-प्रजिघृक्ष्य, प्रजरीगृह्य
गर्हम् २, गर्हित्वा २, गृढ्वा २, गर्हम् २, गर्हयित्वा २, जिगर्हिषम्२ जिगर्हिषित्वा २ -जिघृक्षम् २, -जिघृक्षित्वा २, जरीगृहम् २
जरीगृहित्वा २।
01 (४२६)
02 (१-भ्वादिः-६५०। सक। वेट्। आत्म।)
03 (श्लो। १९४)
04 [[१। ऊदित्त्वादस्य धातोरिड्विकल्पः। इडभावपक्षे ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वात् गुणाभावः, ढत्वम्, भष्भावश्च। ‘षढोः कः सि’ (८-२-४१) इति कत्वम्।]]
05 [[२। यङन्ते सर्वत्र ‘रीगृदुपधस्य च’ (७-४-९०) इति अभ्यासस्य रीगागमः।]]
06 [[३। इडभावपक्षे ढत्व-धत्व-ष्टुत्व-ढलोपाः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
07 [[४। ढत्वे पदान्तत्वनिमित्तको भष्भावः। चर्त्वविकल्पः।]]
08 [[५। ऊदित्त्वेन विकल्पितेट्कत्वात् निष्ठायाम् ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः।]]
09 [[६। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कप्रत्ययः।]]
10 [[७। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्।]]
11 [[८। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
12 [पृष्ठम्०४१८+ २०]
13 [[१। ‘ऋदुपधात्--’ (३-१-११०) इति क्यप्।]]
14 [[आ। ‘द्राहितः शुभपथप्रकाशने सस्वजेऽथ तमनूह्यवैभवः। गाढमैत्ररसगृह्यमाणधीः भूषणग्लहनघुंषितो बलः।।’ धा। का। १। ८२।]]
15 [[२। इट्पक्षे ‘न क्त्वा सेट्’ (१-२-१८) कित्त्वनिषेधाद् गुणः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
