गृहिन् (gRhin)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English गृहिन् gRhin possessing a house
गृहिन् gRhin householder
गृहिन् gRhin master of a house
गृहिन् gRhin see also gRhastha
Apte
Englishगृहिन् [gṛhin], [गृह-इनि] Possessing a house. The master of a house, a householder
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः 4.6
2.22
Śānti.2.24, 2.61.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiगृहिन्
वि* - गृह - इनि
"घर का स्वामी, गृहस्थ, घरबारी"
Shabdartha Kaustubha
Kannadaगृहिन्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮನೆಯ ಯಜಮಾನ /ಗೃಹಸ್ಥ /ಸಂಸಾರಿ /ಕುಟುಂಬಿ
निष्पत्तिः - > "इनिः" (५-२-११५)
व्युत्पत्तिः - > गृहं भार्यास्त्यस्य
प्रयोगाः - > "पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः"
उल्लेखाः - > शाकु० ४-५
L R Vaidya
EnglishSanskrit Tibetan
Tibetankhyim gnas
१) गार्हस्थ २) गृहस्थ ३) गृहस्थाश्रम ४) गृहावास ५) गृहिन् ६) गृह्यक
khyim pa
१) कुलु २) गृहपति ३) गृहस्थ ४) गृहिन् ५) वास्तु
अभिधानचिन्तामणिः
Sanskritब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥ ८०७ ॥
चत्वार आश्रमास्तत्र वर्णी स्याद्ब्रह्मचारिणि ।
आश्रम (पुंक्ली), ब्रह्मचारिन् (पुं), गृहिन् (पुं), वानप्रस्थ (पुं), भिक्षु (पुं), वर्णिन् (पुं), ब्रह्मचारिन् (पुं)
ज्येष्ठाश्रमी गृहमेधी गृहस्थः स्नातको गृही ॥ ८०८ ॥
ज्येष्ठाश्रमिन् (पुं), गृहमेधिन् (पुं), गृहस्थ (पुं), स्नातक (पुं), गृहिन् (पुं)
वाचस्पत्यम्
Sanskritगृहिन् गृहं भार्य्या विद्यतेऽस्य इनि । गृहस्थाश्रमिणिअमरः । “तस्मात् श्रेष्ठाश्रमी गृही” परा० “त्रिष्वप्रमा-द्यन्नेतेषु त्रीन् लोकान् विजयेद् गृही” ममुः । गृहंगृहकृत्यं साध्यतयाऽस्त्यस्याः इनि ङीप् गृहिणी ।२ भार्यायाम् स्त्री हेमच० । गृहिणीकर्त्तव्यकर्माणि शुक्र-नीतिशास्त्रे ३ अ० उक्तानि यथा“न विद्यते पृथक् स्त्रीणां त्रिवर्गविधिसाधनम् । पत्युःपूर्वं समुत्थ्याय देहशुद्धिं विधाय च । उत्थाप्य शयनीयानि कृत्वा वेश्मविशोधनम् । मार्जनैर्लेपनैः प्राप्यसानलं यवसां गणम् । शोधयेद्यज्ञकाष्ठानि स्निग्धान्युष्णेनवारिणा । प्रोक्षणीयेरितान्येव यथा स्थानं प्रकल्पयेत् ।शोधयित्वा तु पात्राणि पूरयित्वा तु धारयेत् । महा-नसस्य पात्राणि बहिः प्रक्षाल्य सर्वदा । मृद्भिस्तुशोधयेच्चूल्लीं तत्राग्निं सेन्धनं न्यसेत् । स्नात्वा नियोगपात्राणि रसान्नद्रवणानि च । कृतपूर्वाह्णकार्येयंश्वशुरावभिवादयेत् । ताभ्यां भर्त्त्रापितृभ्यां वा भ्रातृ-मातुल बान्धवैः । वस्त्रालङ्काररत्नानि प्रदत्तान्येव धा-रयेत् । मनोवाक्कर्मभिः शुद्धा पतिदेशानुवर्त्तिनी ।छायेवानुगता स्वच्छा सखीव हितकर्मसु । दासीव दिष्टकार्येषु भार्य्या भर्त्तुः सदा भवेत् । ततोऽन्नसाधनं कृत्वापतये विनिवेद्य सा । वैश्वदेवोद्धृतैरन्नैर्भोजनीयांश्चभोजयेत् । पतिं च तदनुज्ञाता शिष्टमन्नाद्यमात्मना ।भुक्त्वा नयेदहःशेषं सदसद्व्ययचिन्तया । पुनः सायंयथा प्रातर्गृहशुद्धिं विधाय च । कृतान्नसाधनासाध्वी सभृत्यं भोजयेत् पतिम् । नातितृप्ता स्वयं भुक्त्वागृहनीतिं विधाय सा । आस्तृत्य साधु शयनं ततः परिचरेत् पतिम् । सुप्ते पत्यौ तदध्यास्य स्वयं तद्गतमानसा ।अनम्ना चाप्रमत्ता च निष्कामा च जितेन्द्रिया । नोच्चै-र्वदेन्न परुषं न बहु पतिमप्रियम् । न केनचिच्च विव-देदप्रलापविवादिनी । न चार्थव्ययशीला स्यान्न धर्मार्थविरोधिनी । प्रमादोन्मादरोषेर्ष्यावचनान्यतिनिन्दि-तम् । पैशुन्यहिंसाविद्वेषमोहाहङ्कारधूर्त्तताम् ।नास्तिक्यसाहसस्तेयदम्भान् साध्वी विवर्जयेत् । एवंपरिचरन्ती या पतिं परमदैवतम् । यशस्यमिह यात्येवपरत्र च सलोकताम् । योषितो नित्यकर्मोक्तं नैमि-त्तिकमथोच्यते । रजसो दर्शनादेषा सर्वमेव परित्य-जेत् । सर्वैरपीक्षिता शीघ्रं लज्जितात्तर्गृहे वसेत् ।एकाम्बरा कृशा दीना स्नानालङ्कारवर्जिता । स्वपेद्भू-मावप्रमत्ता क्षपेदेवमहत्रयम् । स्नायीत सा त्रिरा-त्रान्त सचेलाऽभ्युदिते रवौ । विलोक्य भर्तृवदनंशुद्धा भवति धर्मतः । कृतशौचा पुनःकर्म पूर्ववच्च समाचरेत् । द्विजस्त्रीणामयं धर्मः प्रायोऽन्यासामपीष्यते ।कृषिपण्यादि पुंकृत्ये भवेयुस्ताः प्रसाधिताः । सङ्गीनैर्म-धुरापैः स्वायत्तस्तु पतिर्यथा । भवेत्तथा चरेयुर्वै मायाभिःकामकेलिभिः । मृते भर्त्तरि सङ्गच्छेत् भर्त्त्रा वापालयेद्व्रतम् ।” भा० व० “द्रौपदी सत्यभामासंवादे” २३२ अ०इतिवृत्तच्छलेन तस्याः पतिवशीकरणकर्मोक्तं यथा“केन द्रौपदि! वृत्तेन पाण्डवानधितिष्ठसि? । लोक-पालोपमान् वीरान् यूनः परमसंमतान् । कथञ्चवशगास्तुभ्यं न कुप्यन्ति च ते शुभे! । तव वश्या हियनतं पाण्डवाः प्रियदर्शने! । मुखप्रेक्षाश्च ते सर्वे तत्त्व-मेतद्ब्रवीहि मे । व्रतचर्य्या तपोवास्ति स्नानमन्त्रौष-धानि वा । विद्यावीर्य्यं मूलवीर्य्यं जपहोमागदास्तथा ।ममाद्याचक्ष्व पाञ्चालि! यशस्यं भगदैवतम् । येन कृष्णे!भवेन्नित्यं मम कृष्णो वशानुगः? । एवमुक्त्वा सत्यभामाविरराम यशस्विनी । पतिव्रता महाभागा द्रौपदीप्रत्युवाच ताम् । असत्स्त्रीणां समाचारं सत्ये! माम-नुपृच्छसि । असदाचरिते मार्गे कथं स्यादनुकीर्त्तनम् ।अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते । तथा ह्युपेताबुद्ध्या त्वं कृष्णस्य महिषी प्रिया । यदैव मर्त्ता जानी-यान्मन्त्रमूलपरां स्त्रियम् । उद्विजेत तदैवाल्याः सर्पा-द्वेश्मगतादिव । उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतःसुखम् । न जातु वशगो भर्त्ता स्त्रियाः स्यान्मन्त्रकर्मणा ।अमित्रप्रहितांश्चापि गदान् परमदारुणान् । मूलप्रवादै-र्हि विषं प्रयच्छन्ति जिवांसवः । जिह्वया यानिपुरुषस्त्वचा वाप्युपसेवते । तत्र चूर्णानि दत्तानि हन्युःक्षिप्रमसंशयम् । जलोदरसमायुक्ताः श्वित्रिणः पलिता-स्तथा । अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा ।पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत । न जातुविप्रियं भर्त्तुः स्त्रिया कार्य्यं कथञ्चन । वर्त्ताम्यहन्तुयां वृत्तिं पाण्डवेषु महात्मसु । तां सर्वां शृणु मे सत्यांसत्यभामे! यशस्विनि! । अहङ्कारं विहायाहं कामक्रोधौच सर्वदा । सदारान् पाण्डवान्नित्यं प्रयतोपचराम्य-हम् । प्रणयं प्रतिसंहृत्य निधायात्मानमात्मनि ।सुश्रूषुर्निरभीमाना पतीनां चित्तरञ्जिनी । दुर्व्याहृता-च्छङ्कमाना दुःस्थिताद्दुरवेक्षितात् । दुरासिताद्दुर्व्रजि-तादिङ्गिताध्यासितादपि । सूर्य्यवैश्वानरसमान् सोम-कल्पान्महारथान् । सेवे चक्षुर्हणः पार्थानुग्रवीर्य्यप्रता-पिनः । देवो मनुष्यो गन्धर्वो युवा चापि स्वलङ्कृतः ।द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः । नाभुक्त-वति नास्नाते नासंविष्टे च भर्त्तरि । न संविशामिनाश्नामि सदा कर्मकरेष्वपि । क्षेत्राद्वनाद्वा ग्रामाद्वाभर्त्तारं गृहमागतम् । प्रत्युत्थायाभिनन्दामि आसने-नोदकेन च । प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदा-यिनी । संयता गुप्तधान्या च सुसंमृष्टनिवेशना । अति-रस्कृतसम्भाषा दुःस्त्रियो नानुसेवती । अनुकूलवतीनित्यं भवाम्यनलसा सदा । अनर्म चापि हसितं द्वारिस्थानमभीक्ष्णशः । अवस्करे चिरं स्थानं निष्कुटेषु चवर्जये । अतिहासातिरोषौ च क्रोधस्थानञ्च वर्जये ।निरताहं सदा सत्ये! भर्त्तॄणामुपसेवने । सर्वथा भर्त्तु-रहितं न ममेष्टं कथञ्चन । यदा प्रवसते भर्त्ता कुटु-म्बार्थेन केनचित् । सुमनोवर्णकापेता भवामि व्रतचा-रिणी । यच्च भर्त्ता न पिबति यच्च भर्त्ता न सेवते ।यच्च नाश्नाति मे भर्त्ता सर्वन्तद्वर्जयाम्यहम् । यथोपदेशनिरता वर्त्तमाना वराङ्गने! । स्वलङ्कृता सुप्रयता भर्त्तुःप्रियहिते रता । ये च धर्माः कुटुम्येषु श्वश्र्वा मे क-थिताः पुरा । भिक्षा बलिः श्राद्धमिति स्थालीपाकाश्चपर्वसु । माम्यानां मानसत्कारा ये चान्ये विदितामम् । तान् सर्वाननुवर्त्तामि दिवारात्रमतन्त्रिता ।विनयान्नियमांश्चापि सदा सर्वात्मना श्रिता । मृदून् सतःसत्यशीलान् सत्यधर्मानुसालिनः । आशीविषानिव क्रु-द्धान् पतीन् परिचराम्यहम् । पत्याश्रयो हि मे धर्मोमतः स्त्रीणां सनातनः । स देवः सा गतिर्नान्या तस्यका विप्रियं चरेत् । अहं पतीन्नातिशये नात्यश्नेनातिभूषये । नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता ।अवधानेन सुभगे! नित्योत्थिततयैव च । भर्त्तारो वशगाषह्यं गुरुशुश्रूषयैव च । नित्यमार्य्यामहं कुन्तीं वीरसूंसत्यवादिनीम् । स्वयं परिचराम्येतां पानाच्छादनभो-जनैः । नैतामतिशये जातु वस्त्रभूषणभोजनैः । नाहंपरिवदे वाचं तां पृथां पृथिवीसमाम् । अष्टावग्रेब्राह्मणानां सहस्राणि स्म नित्यदा । भुञ्जते रुक्मपा-त्रीषु युधिष्ठिरनिवेशने । अष्टाशीतिसहस्राणि स्नातकागृहमेधिनः । त्रिंशद्दासीक एकैको यान् बिभर्त्तियुधिष्ठिरः । दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् ।ह्रियते रुक्मपात्रीभिर्यतीनामूर्द्धृवरेतसाम् । तान् सर्वान-ग्रहारेण ब्राह्मणान् ब्रह्मवादिनः । यथार्हं पूजयामिस्म पानाच्छादनभोजनैः । शतं दासीसहस्राणि कौन्ते-यस्य महात्मनः । कम्बुकेयूरधारिण्यो निष्ककण्ठ्यःस्वलङ्कृताः । महार्हमाल्याभरणाः सुवस्त्राश्चन्दनो-क्षिताः । मणीन् हेम च बिभ्रत्यो नृत्यगीतविशा-रदाः । तासां नाम च रूपञ्च भोजनाच्छादनानि च ।सर्वासामेव वेदाहं कर्म चैव कृताकृतम् । शतं दासीस-हस्राणि कुन्तीपुत्रस्य धीमतः । पात्रीहस्ता दिवारात्र-मतिथीन् भोजयन्त्युत । शतमश्वसहस्राणि दश नागा-युतानि च । युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः ।एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत् । येषां संख्यांविधिञ्चैव प्रदिशामि शृणोमि च । अन्तःपुराणां सर्वेषां भृत्यानाञ्चैव सर्वशः । आगोपालाविपालेभ्यः सर्वंवेद कृताकृतम् । सर्वं राज्ञः समुदयमायञ्च व्ययमेव च ।एकाहं वेद्मि कल्याणि! पाण्डवानां यशस्विनि! । मयिसर्वं समासज्य कुटुम्बं भरतर्षभाः । उपासनारताःसर्वे घटन्ति स्म वरानने! । तमहं भारमासक्तमप्रधृष्यंदुरात्मभिः । सुखं सर्वं परित्यज्य रात्र्यहानि घटामिवै । अधृष्यं वरुणस्यैव निधिपूर्णमिवोदधिम् । एकाहंवेद्मि कोषं वै पतीनां धर्मचारिणाम् । अनिशायांनिशायाञ्च सहायाः क्षुत्पिपासयोः । आराधयन्त्याःकौरव्यांस्तुल्या रात्रिरहश्च मे । प्रथमं प्रतिबुध्यामिचरमं संविशामि च । नित्यकालमहं सत्ये! एतत् संवशनं मम । एतज्जानाम्यहं कर्त्तुं भर्त्तुः संवशनंमहत् । असत्स्त्रीणां समाचारं नाहं कुर्यान्न का-मये । तच्छुत्वा धर्मसहितं व्याहृतं कृष्णया तदा ।उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् । अभि-पन्नासि पाञ्चालि! याज्ञसेनि! क्षमस्व मे । कामकारःसखीनां हि सोपहासं प्रभाषितम्” २३२ अ० ।“द्रौपद्युवाच । इमन्तु ते मार्गमपेतमोहं वक्ष्यामि चित्त-ग्रहणाय भर्त्तुः । अस्मिन् यथावत् सखि । वर्त्तमानाभर्त्तारमाच्छेत्स्यसि कामिनीभ्यः । नैतादृशं दैवतमस्तिसत्ये! सर्वेषु लोकेषु सदेवकेषु । यथा पतिस्तस्य हि सर्व-कामा लभ्याः प्रसादात् कुपितश्च हन्यात् । तस्मादपत्यंविविधाश्च भोगाः शय्यासनान्युत्तमदर्शनानि । वस्त्राणिमाल्यानि तथैव गन्धाः स्वर्गश्च लोको विपुला चकीर्त्तिः । सुखं सुखेनेह न जातु लभ्यं दुःखेन साध्वीलभते सुखानि । सा कृष्णमाराधय सौहृदेन प्रेम्णाच नित्यं प्रतिकर्मणा च । तथाऽऽसनैश्चारुभिरग्र्यमाल्यै-र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः । अस्याः प्रियोऽस्मीतियथा विदित्वा त्वामेव संश्लिष्यति तद्विधत्स्व । श्रुत्वास्वरं द्वारगतस्य भर्त्तुः प्रत्युत्थिता तिष्ठ गृहस्य मध्ये ।दृष्ट्वा प्रविष्टं त्वरितासनेन पाद्येन चैनं प्रतिपूजयस्व ।संप्रेषितायामथ चैव दास्यामुत्थाय सर्वं स्वयमेव कार्य्यम् ।जानातु कृष्णस्तव भावमेतं सर्वात्मना मां भजतीतिसत्ये! । त्वत्सन्निधौ यत् कथयेत् पतिस्ते यद्यप्यगुह्यंपरिरक्षितव्यम् । काचित् सपत्नी तव वासुदेवं प्रत्या-दिशेत्ते न भवेद्विरागः । प्रियांश्च रक्तांश्च हितांश्च भर्त्तु-स्तान् भोजयेथा विविधैरुपायैः । द्वेष्यैरपक्षैरहितैश्चतस्य भिद्यस्व नित्यं कुहकोद्यतैश्च । मदं प्रमादं पुरु-षेषु हित्वा संयच्छ भावं प्रतिगृह्य मौनम् । प्रद्युम्न-शाम्बावपि ते कुमारौ नोपासितव्यौ रहिते कदाचित् ।महाकुलीनाभिरपापिकाभिः स्त्रीभिः सतीभिस्तवसख्यमस्तु । चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्चदुष्टाश्चपलाश्च वर्ज्ज्याः । एतद्यशस्यं भगदैवतञ्च स्वर्ग्यंतथा शत्रुनिवर्हणञ्च । महार्हमाल्याभरणाङ्गरागाभर्त्तारमाराधय पुण्यगन्धा” २३३ अ० ।“गृहिणी खविवो रहः सखी प्रियशिष्या ललिते कलाविधौ”रघुः “न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते” उ० त०स्मृतिः “प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः”कुमा० “शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजनेभर्त्तुर्विप्रकृतापि रोषणतया मास्म प्रतीपं गमः । भूयिष्ठंभव दक्षिणा परिजने भोगेष्वनुत्सेकिनी यान्त्येवं गृहि-णीपदं युवतयो वामाः कुलस्याधयः” शकु० “ज्वालागताभ्योऽधिगृहं गृहिण्यः” माघः ।
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
