| YouTube Channel

गृहस्थधर्म (gRhasthadharma)

 
शब्दसागरः
English
गृहस्थधर्म्म
m.
(-र्म्मः) The practice or duty of a householder.
E.
गृहस्थ and
धर्म्म duty.
Yates
English
गृहस्थ-धर्म्म (र्म्मः) 1.
m.
Household-
er's duty, or practice.
Wilson
English
गृहस्थधर्म्म
m.
(-र्म्मः) The practice or duty of a householder.
E.
गृहस्थ, and धर्म्म duty.
Monier Williams Cologne
English
गृह—स्थ—धर्म
m.
a householder's duty,
Hit.
Shabdartha Kaustubha
Kannada
गृहस्थधर्म
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪತ್ನೀಸಮೇತನಾಗಿ ಮನೆಯ ಯಜಮಾನನು ಆಚರಿಸಬೇಕಾದ ಧರ್ಮ
व्युत्पत्तिः - > गृहस्थस्य धर्मः
L R Vaidya
English
gfha-sTa˚Darma {% m. %} the duty of a householder.
वाचस्पत्यम्
Sanskrit
गृहस्थधर्म
पु०
त० गृहस्थकर्त्तव्ये धर्मभेदेस धर्मः मन्वादिभिर्दर्शितः तत्रादौ मनुनोक्तो यथा“गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि उद्वहेतद्विजो भार्य्यां सवर्णां लक्षणान्विताम् असपिण्डा चया मातुरसगोत्रा या पितुः सा प्रशस्ता द्विजातीनांदारकर्मणि मैथुने महान्त्यपि समृद्धानि गोऽजाविध-नधान्यतः स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्ज्जये-त् हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् ।क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि नोद्वहेत् कपि-लां कन्यां नाधिकाङ्गीं रोगिणीम् नालोमिकांनातिलोमां वाचाटां पिङ्गलाम् नर्क्षवृक्षनदीनाम्नींनान्त्यपर्वतनामिकाम् पक्ष्यहिप्रेष्यनाम्नीं भीष-णनामिकाम् अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारण-गामिनीम् तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम् ।यस्यास्तु भवेद् भ्राता विज्ञायेत वा पिता नोप-यच्छेत तां प्राज्ञः पुत्त्रिकाधर्मशङ्कया सवर्णाग्रे द्वि-जातीना प्रशस्ता दारकर्म्मणि कामतस्तु प्रवृत्तानामिमाःस्युः क्रमशोऽवराः शूद्रैव भार्य्या शूद्रस्य सा स्वाच विशः स्मृते ते स्वा चैव राज्ञश्च ताश्च स्वा चाग्र-जन्मनः ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः ।कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्य्योपदिश्यते हीन-जातिस्त्रियं मोहादुद्वहन्तो द्विजातयः कुलान्येव न-यन्त्याशु ससन्तानानि शूद्रताम् शूद्रावेदी पतत्यत्रेरुत-थ्यतनयस्य शौनकस्य सुतोत्पत्त्या तदपत्यतयाभृगोः शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् ।जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते दैवपित्र्या-तिथेयानि तत्प्रधानानि यस्य तु! नाश्नन्ति पितृदेवास्तन्नच स्वर्गं गच्छति वृषलीफेनपीतस्य निःश्वासोपह-तस्य तस्याञ्चैव प्रसूतस्य निष्कृतिर्न विधीयते ।चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान् अष्टा-विमान् समासेन स्त्रीविवाहान्निबोधत ब्राह्मो दैवस्त-थैवार्षः प्राजापत्यस्तथाऽऽसुरः गान्धर्व्वो राक्षसश्चैवपैशाचश्चाष्टमोऽधमः यो यस्य धर्म्म्यो वर्णस्य गुणदो-षौ तु यस्य यौ तद्वः सर्वं प्रवक्ष्यामि प्रसवे चगुणागुणान् षडानुपूर्व्व्या विप्रस्य क्षत्त्रस्य चतुरोऽव-रान् विट्शूद्रयोस्तु तानेव विद्याद्धर्म्म्यान्न राक्षसान् ।चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः राक्षसंक्षत्त्रियस्यैकमासुरं वैश्यशूद्रयोः पञ्चानान्तु त्रयोधर्म्म्या द्वावधर्म्म्यौ स्मृताविह पैशाचश्चासुरश्चैव नकर्त्तव्यौ कदाचन पृथक् पृथग्वा मिश्रौ वा विवाहौपूर्व्वनोदितौ गान्धर्व्वो राक्षसश्चैव धर्म्म्यौ क्षत्त्रस्यतौ स्मृतौ आच्छाद्य चार्च्चयित्वा श्रुतशीलवते स्व-यम् आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्त्तितः ।यज्ञे तु वितते सम्यगृत्विजे कर्म्म कुर्व्वते अलङ्कृत्यसुतादानं दैवं धर्म्मं प्रचक्षते एकं गोमिथुनं द्वे वावरादादाय धर्म्मतः कन्याप्रदानं विधिवदार्षो धर्म्मःस उच्यते सहोभौ चरतां धर्म्ममिति वाचानुभाष्यच कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ।ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः कन्या-प्रदानं स्वाच्छान्द्यादासुरो धर्म उच्यते इच्छयान्योऽन्यसंयोगः कन्यायाश्च वरस्य गान्धर्वः तु विज्ञेयोमैथुन्यः कामसम्भवः हृत्वा च्छित्त्वा भित्त्वा चक्रोशन्तीं रुदतीं गृहात् प्रसह्य कन्याहरणं राक्षसो ७विधिरुच्यते सुप्तां मत्तां प्रमत्तां वा रहो यत्रोप-गच्छति पापिष्ठो विवाहानां पैशाच श्चाष्टमो-ऽधमः अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते ।इतरेषान्तु वर्णानामितरेतरकाम्यया यो यस्यैषां वि-वाहानां मनुना कीर्त्तितो गुणः सर्वं शृणुतं तंविप्राः सम्यक् कीर्त्तयतो मम दश पूर्वान् परान्वंश्यानात्मानञ्चैकविंशकम् ब्राह्मीपुत्रः सुकृतकृन्मोचय-त्येनसः पितॄन् दैवोढाजः सुतस्त्रींस्त्रीन् षट् षट्कायोढजः सुतः ब्राह्म्यादिषु विवाहेषु चतुर्ष्वेवानु-पूर्वशः ब्रह्यवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः ।रूपसत्वगुणोपेता धनवन्तो यशस्विनः पर्य्याप्तंभोगा-धर्मिष्ठा जीवन्ति शतं समाः इतरेषु तु शिष्टेषुनृशंसानृतवादिनः जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषःसुताः अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा ।निन्दितैर्निन्दिता नृणां तस्मान्निन्द्यान् विवर्जयेत् ।पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते असवर्णाखयंज्ञेयो विधिरुद्वाहकर्मणि शरः क्षत्रियया ग्राह्यःप्रतोदो वैश्यकन्यया वसनस्य दशा ग्राह्या शूद्रयोत्-कृष्टवेदने ऋतुकालाभिगामी स्यात् स्वदारनिरतःसदा पर्व्ववर्जं व्रजेच्चैनां तद्वृतो रतिकाम्यया ।ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।चतुर्भिरितरैः सार्द्धमहोभिः सद्विगर्हितैः तासा-माद्याश्चतस्रस्तु निन्दितैकादशी या त्रयोदशी चशेषास्तु प्रशस्ता दश रात्रयः युग्मासु पुत्रा जायन्तेस्त्रियोऽयुग्मासु रात्रिषु तस्माद्युग्मासु पुत्त्राथीं सं-विशेदार्त्तवे स्त्रियम् पुमान् पुंसोऽधिके शुक्रे स्त्रीभवत्यधिके स्त्रियाः समेऽपुमान् पुंस्त्रियौ वा क्षीणे-ऽल्पे विपर्य्ययः निन्द्यास्वष्टासु चान्यासु स्त्रियोरात्रिषु वर्जयन् ब्रह्मचार्य्येव भवति यत्र तत्राश्रमेवसन् कन्यायाः पिता विद्वान् गृह्णीयाच्छुल्कमण्वपि गृण्हन् शुल्कं हि लोभेन स्यान्नरोऽपत्य-विक्रयी स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः ।नारीयानानि व्स्त्रं वा ते पापा यान्त्यधोगतिम् ।आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् अल्पो-ऽप्येवं महान् वापि विक्रयस्तावदेव सः यासां नाद-दते शुल्कं ज्ञातयो विक्रयः अर्हणं तत् कुमारी-णामानृशंस्यञ्च केवलम् पितृभिर्भ्रातृभिश्चैताः पतिभि-र्द्देवरैस्तथा पूज्याः भूषयितव्याश्च बहुकल्याणमीप्-सुभिः यत्र नार्य्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।यत्रैतास्तु पूज्यन्ते सर्व्वास्तत्राफलाः क्रियाः शोचन्तिजामयो यत्र विनश्यत्याशु तत् कुलम् शोचन्ति तुयत्रैता वर्द्धते तद्धि सर्वदा जामयो यानि गेहानिशपन्त्यप्रतिपूजिताः तानि कृत्याहतानीव विनश्यन्तिसमन्ततः तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः ।भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु सन्तुष्टो भार्य्ययाभर्त्ता भर्त्रा भार्य्या तथैव यस्मिन्नेव कुले नित्यंकल्याणं तत्र वै ध्रुवम् यदि हि स्त्री रोचेत पुमांसंन प्रमोदवेत् अप्रमोदात् पुनः पुंसः प्रजनं प्रवर्त्तते ।स्त्रियान्तु रोचमानायां सर्वं तद्रोचते कुलम् तस्यान्त्व-रोचमानायां सर्वमेव रोचते कुविवाहैः क्रियालोपै-र्वेदानध्ययनेन कुलान्यकुलतां यान्ति ब्राह्मणाति-क्रमेण शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः ।णोभिरश्वैश्च यानैश्च कृत्या राजोपसेवया अयाज्ययाज-नैश्चैव नास्तिक्येन कर्मणा कुलान्याशु विनश्यन्तियानि हीनानि मन्त्रतः मन्त्रतस्तु समृद्धानि कुलान्य-ल्पधनान्यपि कुलसङ्ख्याञ्च गच्छन्ति कर्षन्ति महद्यशः वैवाहिकेऽग्नौ कुर्व्वीत गृह्यं कर्म्म यथाविधि ।पञ्चयज्ञविधानञ्च पक्तिञ्चान्वाहिकी गृही पञ्च सूनागृहस्थस्य चूल्ली पेषण्युपस्करः कण्डनी चोदकुम्भश्चबध्यते यास्तु वाहयन् तासां क्रमेण सर्व्वासां निष्कृ-त्यर्थं महर्षिभिः पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृह-मेधिनाम् अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् पञ्चैतान्यो महायज्ञान् हापयति शक्तितः गृहेऽपिवसन्नित्यं सूनादोषैर्न लिप्यते देवतातिथिभृत्यानांपितॄणामात्मनश्च यः निर्वपति पञ्चानामुच्छ्वसन्न सजीवति अहुतञ्च हुतञ्चैव तथा प्रहुतमेव ।ब्राह्म्याहुतं प्राशितञ्च पञ्च यज्ञान् प्रचक्षते जपोऽ-हुतो हुतोहोमः प्रहुतो भौतिको वलिः ब्राह्म्याहुतं द्विजाग्रार्च्चा प्राशितं पितॄतर्शणम् स्वाध्यायेनित्ययुक्तः स्याद्दैवे चैवेह कर्मणि दैवकर्मणि युक्तोहि बिभर्त्तीदं चराचरम् अग्नौ प्रास्ताहुतिः स-म्यगादित्यमुपतिष्ठते आदित्याज्जायते वृष्टिर्वृष्टेरन्नंततः प्रजाः यथा वायुं समाश्रित्य वर्त्तन्ते सर्वजन्तवः ।तथा गृहस्थमाश्रित्य वर्त्तन्ते सर्व आश्रमाः यस्मात्त्रयो-ऽप्याश्रमिणो ज्ञानेनात्रेव चान्वहम् गृहस्थेनैव धा-र्यन्ते तस्माज्येष्ठाश्रमो गृही सन्धार्य्यः प्रयत्नेनस्वर्गमक्षयमृच्छता सुखञ्चेहेच्छता नित्यं योऽधार्योदुर्बलैन्द्रियैः ऋषयः पितरो देवा भूतान्यतिथयस्तथा ।आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता स्वाध्या-येनार्च्चयेतर्षीन् होमैर्देवान् यथाविधि पितॄन् श्राद्धैश्चनॄनन्नैर्भूतानि बलिकर्मणा कुर्यादहरहः श्राद्धमन्नाद्ये-नोदकेन वा पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन् ।एकमप्याशयेद्विपं पित्रर्थे पाञ्चयज्ञिके चैव प्राश-येत् कञ्चिद्वैश्वदेवं प्रति द्विजम् बैश्वदेवस्य सिद्धस्य गृह्ये-ऽग्नौ विधिपूर्बकम् आभ्यः कुर्याद्देवताभ्यो ब्राह्मणोहोममन्वहम् अग्नेः सोमस्य चैवादौ तयोश्चैव सम-स्तयोः विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव कुह्वैचैवानुमत्यै प्रजापतय एव सह द्यावापृथि-व्योश्च तथा स्विष्टकृतेऽन्ततः एवं सम्यक् हविर्हुत्वासर्वदिक्षु प्रदक्षिणम् इन्द्रान्तकाप्यतीन्दुभ्यः सानुगेभ्योबलिं हरेत् मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्यइत्यपि वनस्पतिभ्य इत्येवं मुषलोलूखले हरेत् ।उच्छोर्षके श्रियै कुर्याद्भद्रकाल्यै पादतः ब्रह्मवास्तो-स्पतिभ्यास्तु वास्तुमध्ये बलिं हरेत् विश्वेभ्यश्चैव दे-वेभ्यो बलिमाकाश उत्क्षिपेत् दिवाचरेभ्यो भूतेभ्योनक्तञ्चारिभ्य एव पूर्ववास्तुनि कुर्वीत बलिं सर्वा-त्मभूतये पितृभ्यो बलिशेषन्तु सर्वदक्षिणतो हरेत् ।शुनाञ्च पतितानाञ्च श्वपचां पापरोगिणाम् वायसानांकृमीणाञ्च शनकैर्निर्वपेद्भुवि एवं यः सर्वभूतानिब्राह्मणो नित्यमर्च्चति गच्छति परं स्थानं तेजो-मूर्त्ति पथर्जु ना कृत्वैतद्बलिकर्मैवमतिथिं पूर्वमाश-येत् भिक्षाञ्च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे ।यत् पुण्यफलमाप्नोति गां दत्त्वा विधिद्गुरोः तत्पुण्यफलमाप्नोति भिक्षां दत्त्वा द्विजो गृही भिक्षा-मप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् वेदतत्त्वार्थ-विदुषे ब्राह्मणायोपपादयेत् नश्यन्ति हव्यकव्यानिनराणामविजानताम् भस्मीभूतेषु विप्रेषु मोहाद्द-त्तानि दातृभिः विद्यातपःसमृद्धेषु हुतं विप्रमुखा-ग्निषु निस्तारयति दुर्गाच्च महतश्चैव किल्विषात् ।संप्राप्ताय त्वतिथये प्रदद्यादासनोदके अन्नञ्चैव यथा-शक्ति सत्कृत्य विधिपूर्वकम् शिलानप्युञ्छतो नित्यंपञ्चाग्नीनपि जुह्वतः सर्वं सुकृतमादत्ते ब्राह्मणोऽ-नर्चितो वसन् तृणानि भूमिरुदकं वाक् चतुर्थी चसूनृता एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ।एकारात्रन्तु निवसन्नतिथिर्ब्राह्मण स्मृतः अनित्यं हिस्थितो यस्मात्तस्मादतिथिरुच्यते नैकग्रामीणमतिथिंविप्रं साङ्गतिकं तथा उपस्थितं गृहे विद्याद्भार्यायत्राग्नयोऽपि वा उपासते ये गृहस्थाः परपाकमबु-द्धयः तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनाम् ।अप्रणोद्योऽतिथिः साय सूर्य्योढो गृहमेधिना कालेप्राप्तस्त्वकाले वा नास्यानश्नन् गृहे वसेत् वै स्वयंतदश्नीयादतिथिं यन्न भोजयेत् धन्यं यशस्यमा-युष्यं स्वर्गञ्चातिथिपूजनम् आसनावसथौ शय्यामनु-व्रज्यामुपासनम् उत्तमेषत्तमं कुर्य्याद्धीने हीनं समेसमम् वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् तस्यान्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् भोजनार्थं स्वेविप्रः कुलगोत्रे निवेदयेत् भोजनार्थं हि ते शंसन्वान्ताशीत्युच्यते बुधैः ब्राह्मणस्य त्वतिथिर्गृहे रा-जन्य उच्यते वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेवच यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत् ।भुक्तवत्सूक्तविप्रेषु कामन्तमपि भोजयेत् वैश्य-शूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ भोजयेत् सहभृत्यैस्तावानृशंस्यं प्रयोजयन् इतरानपि सख्या-दीन् सम्प्रीत्या गृहमागतान् सत्कृत्यान्नं यथाशक्तिभोजयेत् सह भार्यया सुवासिनीः कुमारांश्च रोगिणीगर्भिणीस्तथा अतिथिभ्योऽग्र एवैतान् भोजयेदविचा-रयन् अदत्त्वा तु एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः ।स भुञ्जानो जानाति श्वगृध्रैर्जग्धिमात्मनः भुक्त-वत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि भुञ्जीयातां ततःपश्चादवशिष्टन्तु दम्पती देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः पूजयित्वा ततः पश्चाद्गृहस्थः शैष-भुग् भवेत् अघं केवलं भुङ्क्ते यः पचत्यात्मकार-णात् यज्ञशिष्टाशनं ह्येतत् सतामन्नं विधीयते ।राजर्त्विक् स्नातकगुरून् प्रियश्वशुरमातुलान् अर्ह-येन्मधुपर्केण परिसंवत्सरात् पुनः राजा श्रो-त्रियश्चैव यज्ञकर्मण्युपस्थितौ मधुपर्केण संपूज्यौ नत्वयज्ञैति स्थितिः सायन्त्वन्नस्य सिद्धस्य पत्न्यमन्त्रंबलिं हरेत् वैश्वदेबं हि नामैतत् सायं प्रातर्विधीयते ।पितृयज्ञन्तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् पिण्डा-न्वाहार्य्यकं श्राद्धं कुर्य्यान्मासानुमासिकम् पितॄणांमासिकं श्राद्धमन्वाहार्य्यं विदुर्बुधाः तच्चामिषेणकर्त्तव्यं प्रशस्तेन प्रयत्नतः तत्र ये भोजनीयाः स्युर्य्येच वर्ज्या द्विजोत्तमाः यावन्तश्चैव यैश्चान्नैस्तान् प्रवक्ष्या-म्यशेषतः द्वौ दैवे पितृकार्य्ये त्रीनेकैकमुभयत्र वा ।भोजयेत् सुसमृद्धोऽपि प्रसज्जेत विस्तरे सत्क्रियादेशकालौ शौचं ब्राह्मणसम्पदः पञ्चैतान् विस्तरोहन्ति तस्मान्नेहेत विस्तरम् प्रथिता प्रेतकृत्यैषा पित्र्यंनाम विधुक्षये तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैवलौकिकी श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ।अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् एकैकमपिविद्वांसं दैवे पित्र्ये भोजयेत् पुष्कलं फलमाप्नोतिनामन्त्रज्ञान् बहूनपि दूरादेव परीक्षेत ब्राह्मणं वेद-पारगम् तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिःस्मृतः सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते ।एकस्तान् मन्त्रवित् प्रीतः सर्वानर्हति धर्मतः ज्ञानोत्-कृष्टाय देयानि कव्यानि हवींषि हि हस्ता-वसृग्दिग्धौ रुधिरेणैव शुद्ध्यतः यावतो ग्रसते ग्रासान्हव्यकव्येष्वमन्त्रवित् तावतो ग्रसते प्रेत्य दीप्तशूलर्ष्ट्य-योगुडान् ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास्तथा-परे ज्ञानानिष्ठाषु कव्यानि प्रतिष्ठाप्यानि यत्नतः ह-व्यानि तु यथान्यायं सर्वेष्वेव चतुर्ष्वपि अश्रोत्रियःपिता यस्य पुत्रः स्याद्वेदपारगः अश्रोत्रियो वा पुत्त्रःस्यात् पिता स्याद्वेदपारगः ज्यायांसमनयोर्विद्यात्यस्य स्याच्छ्रोद्रियः पिता मन्त्रसम्पूजनार्थन्तु सत्कार-मितरोऽर्हति श्राद्धे भोजयेन्मित्रं धनैः कार्य्योऽस्यसंग्रहः नारिं मित्रं यं विद्यात् तं श्राद्धे भोज-येद्द्विजम् यस्य मित्रप्रधानानि श्राद्धानि हबींसिच तस्य प्रेत्य फलं नास्ति श्राद्धेषु हविःषु ।यः सङ्गतानि कुरुते मोहाच्छ्राद्धेन मानवः स्वर्गा-च्च्यवते लोकाच्छाद्धमित्रो द्विजाधमः सम्भोजनी साऽभि-हिता पैशाची दक्षिणा द्विजैः इहैवास्ते तु सा लोकेगौरन्धेवैकवेश्मनि यथेरिणे वीजमुप्त्वा वप्ता लभतेफलम् तथाऽनृचे हविर्द्दत्त्वा दाता लभते फलम् ।दातॄन् प्रतिग्रहीतॄंश्च कुरुते फलभागिनः विदुषेदक्षिणा दत्ता विधिवत् प्रेत्य चेह कामं श्राद्धेऽ-र्च्चयेन्मित्रं नाभिरूपमपि त्वरिम् द्विषता हि हविर्भुक्तंभवति प्रेत्य निष्फलम् यत्वेन भोजयेच्छ्राद्धे बह्वृचंवेदपारगम् शास्वान्तगमथाध्वर्य्युं छन्दोगन्तु समाप्ति-कम् एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्च्चितः पितॄणांतस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी एव वै प्रथमःकल्पः प्रदाने हव्यकव्ययोः अनुकल्पस्त्वयं ज्ञेयः सदासद्भिरनुष्ठितः मातामहं मातुलञ्च स्वस्रीयं श्वशुरंगुरुम् दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ भोज-येत् ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् पित्र्येकर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ये स्तेनपतितक्लीवाये नास्तिकवृत्तयः तान् हव्यकव्ययोर्विप्राननर्हान्मनु-रव्रवीत् जटिलञ्चानधीयानं दुर्बलं कितवन्तथा याज-यन्ति ये पूगांस्तांश्च श्राद्धे भोजयेत् चिकित्सकान्देवलकान् मांसविक्रयिणस्तथा विपणेन जीवन्तोवर्ज्याः स्युर्हव्यकव्ययोः प्रेष्यो ग्रामस्य राज्ञश्च कुनखीश्यावदन्तकः प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्द्धुषिस्तथा यक्ष्मी पशुपालश्च वरिवेत्ता निराकृतिः ।ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर एव कुशीलवो-ऽवकीर्णी वृषलीपतिरेव पौनर्भवश्च काणश्च यस्यचोपपतिगृ हे भृतकाध्यापको यश्च भृतकाध्यापित-स्तथा शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ ।अकारणपरित्यक्ता मातापित्रोर्गुरोस्तथा ब्राह्म्यैर्यौनैश्च सम्बन्धैः संयोगं पतितैर्गतः अगारदाहीगरदः कुण्डाशी सोमविक्रयी समुद्रयायी वन्दी चतैलिकः कूटकारकः पित्रा विवदमानश्च कितवो मद्य-पस्तथा पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ।धनुःशराणां कर्त्ता यश्चाग्रेदिधिषूपतिः मित्रध्रुक्द्यूतवृत्तिश्च पुत्राचार्य्यस्तथैव भ्रामरी गण्डमालीच श्वित्र्यथो पिशुनस्तथा उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेद-निन्दक एव हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्चजीवति पक्षिणां पोषको यश्च युद्धाचार्य्यस्तथैव चस्वोतसां भेदको यश्च तेषाञ्चावरणे रतः गृहसंवेशर्क-दूतो वृक्षारोपक एव श्वक्रीडी श्येनजीवी चकन्यादूषक एव हिंस्रो वृषलवृत्तिश्च गणानाञ्चैवयाजकः आचारहीनः क्लीवश्च नित्यं याचनकस्तथा ।कृषिजीवी श्लीपदी सद्भिर्निन्दित एव और-भ्रिको माहिषिकः परपूर्वापतिस्तथा प्रेतनिर्हारक-श्चैष वर्जनीयाः प्रयत्नतः एतान् विगर्हिताचारानपाङ्क्तेयान् द्विजाधमान् द्विजातिप्रवरो विद्वानुभयत्रविवर्जयेत् ब्राह्मणस्त्वनधीयानस्तृणाग्निरिव शाम्यति ।तस्मै हव्यं दातव्यं हि भस्मनि हूयते अपा-ङ्क्त्यदाने यो दातुर्भवत्यूर्द्धं फलोदयः दैवे हविषिपित्र्ये वा तं प्रवक्ष्याम्य शेषतः अव्रतैर्यद्द्विजैर्भुक्तं परि-वेत्त्रादिभिस्तथा अपाङ्क्तेयैर्यदन्यैश्च तद्वे रक्षांसिभुञ्जते दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।परिवेत्ता विज्ञेयः परिवित्तिस्तु पूर्वजः परिवित्तिःपरीवेत्ता यया परिविद्यते सर्वे ते नरकं यान्तिदातृयाजकपञ्चमाः भ्रातुर्मृतस्य भार्यायां योऽनुर-ज्येत कामतः धर्मेणापि नियुक्तायां ज्ञेयो दिधि-षूपतिः परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।पत्यौ जीवति कुण्डः स्यान्मृते भर्त्तरि गोलकः तौतु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह दत्तानिहव्यकव्यानि नाशयेते प्रदायिनाम् अपाङ्क्त्यान्वाबतः पाङ्क्त्यान् भुञ्जानाननुपश्यति तावतां नफलं तत्र दाता प्राप्नोति वालिशः वीक्ष्यान्धो नवतेः, काणः षष्टेः, श्वित्री शतस्य तु पापरोगी सहस्रस्यदातुर्नाशयते फलम् यावतः संस्पृशेदङ्गैर्ब्राह्मणान्शूद्रयाजकः तावतां भवेद्दातुः फलं दनस्य पौ-र्त्तिकम् वेदविच्चापि विप्रोऽस्य लोभात् कृत्वा प्रति-ग्रहम् विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि ।सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् नष्टंदेवलके दत्तम् अप्रतिष्ठन्तु वार्द्धुषौ यत्तु बाणिजकेदत्तं नेह नामुत्र तद्भवेत् भस्मनीव हुतं हव्यं तथापौनर्भवे द्विजे इतरेषु त्वपाङ्क्त्येषु यथोद्दिष्टेष्व-साधुषु मेदोऽसृङ्मांसमज्जास्थि वदन्त्यन्नं मनी-षिणः अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजो-त्तमैः तान्निबोधत कात्र्स्न्येन द्विजाग्र्यान् पङ्क्ति-पावनान् अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु ।श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः त्रिणा-चिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ब्राह्म्यदेयात्म-सन्तानो ज्येष्ठसामग एव वेदार्थवित् प्रवक्ता चब्रह्मचारी सहस्रदः शतायुश्चैव विज्ञेया ब्राह्मणाःपङ्क्तिपावनाः पूर्वेद्युरपरेद्युर्व्वा श्राद्धकर्मण्युपस्थिते ।निमन्त्रयेत त्र्यवरान् सम्यग्विपान् यथोदितान् निम-न्त्रितो द्द्विजः पित्र्ये नियतात्मा भवेत् सदा चच्छन्दांस्यधीयीत यस्य श्राद्धञ्च तद्भवेत् निमन्त्रितान्हि पितर उपतिष्ठन्ति तान् द्विजान् वायुवच्चानु-गच्छन्ति तथासीनानुपासते केतितस्तु यथान्यायंहव्यकव्ये द्विजोत्तमः कथञ्चिदप्यतिक्रामन् पापः शूक-रतां व्रजेत् आमन्त्रितस्तु यः श्राद्धे वृषल्या सहमोदते दातुर्यत् दुष्कृतं किञ्चित्तत् सर्वं प्रतिपद्यते ।अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः न्यस्तशस्त्रामहाभागाः पितरः पूर्वदेवताः यस्मादुत्पत्तिरेतेषांसर्वेषामप्यशेषतः ये यैरुपचर्य्याः स्युर्नियमैस्तान्नि-बोधत मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः ।तेषामृषीणां सर्वेषां पुत्त्राः पितृगणाः स्मृताः विराट्-सुताः सोमसदः साध्यानां पितरः स्मृताः अग्निष्वा-त्ताश्च देवानां मारीच्या लोकविश्रुताः दैत्यदानव-यक्षाणां गन्धर्वोरगरक्षसाम् सुपर्णकिन्नराणाञ्च स्मृतावर्हिषदोऽत्रिजाः सोमपा नाम विप्राणां क्षत्त्रियाणांहविर्भुजः वैश्यनामाज्यपा नाम शूद्राणान्तु सुका-लिनः सोमपास्तु कवेः पुत्त्रा हविष्मन्तोऽङ्गिरःसुताः ।पुलस्त्यस्याज्यपाः पुत्त्रा वशिष्ठस्य सुकालिनः अग्नि-दग्धानग्निदग्धान् काव्यान् बर्हिषदस्तथा अग्निष्वा-त्तांश्च सौमांश्च विप्राणामेव निर्द्दिशेत् यएते तु गणामुख्याः पितॄणां परिकीर्त्तिताः तेषामपीह विज्ञेयं पु-त्त्रपौत्त्रमनन्तकम् ऋषिभ्यः पितरो जाताः पितृभ्योदेवदानवाः देवेभ्यस्तु जगत् सर्व्वं चरं स्थाण्वनुपूर्वशः ।राजतैर्भाजनैरेषामथ वा राजतान्वितैः वार्य्यपि श्रद्धयादत्तमक्षयायोपकल्पते देवकार्य्याद्द्विजातीनां पितृकार्य्यंविशिष्यते दैवं हि पितृकार्य्यस्य पूर्वमाप्यायनंस्मृतम् तेषामारक्षभूतन्तु पूर्वं दैवं नियोजयेत् ।रक्षांसि हि विलुम्पन्ति श्राद्धमारक्षवर्जितम् दैवाद्यन्तंतदीहेत पित्राद्यन्तं तद्भवेत् पित्राद्यन्तं त्वीहमानःक्षिप्रं नश्यति सान्वयः शुचिं देशं विविक्तञ्च गोम-येनोपलेपयेत् दक्षिणाप्रवणञ्चैव प्रयत्नेनोपपादयेत् ।अवकाशेषु चोक्षेषु नदीतीरेषु चैव हि विविक्तेषु चतुष्यन्ति दत्तेन पितरः सदा आसनेषूपकॢप्तेषु बर्हि-ष्मत्सु पृथक् पृथक् उपस्पृष्टोदकान् सन्यग्विप्रांस्तानु-पवेशयेत् उपवेश्य तु तान् विप्रानासनेष्वजुगुप्सि-तान् गन्धमाल्यैः सुरभिभिरर्च्चयेदेवपूर्वकम् तेषामु-दकमानीय सपवित्रांस्तिलानपि अग्नौ कुर्य्यादनुज्ञातोब्राह्मणो ब्राह्मणैः सह अग्नेः सोमयमाभ्याञ्च कृत्वा-प्यायनमादितः हविर्दानेन विधिवत् पश्चात् सन्तर्पयेत्पितॄन् अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।यो ह्यग्निः द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते अक्रोध-नान् सुप्रसादान् वदन्त्येतान् पुरातनान् लोकस्याप्या-यने युक्तान् श्राद्धदेवान् द्विजोत्तमान् अपसव्यमग्नौकृत्वा सर्वमावृत् परिक्रमन् अपसव्येन हस्तेन निर्व-पेदुदकं भुवि त्रींस्तु तस्माद्धविःशेषात् पिण्डान् कृत्वासमाहितः औदकेनैव विधिना निर्वपेद्दक्सिणामुखः ।न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् तेषु दर्भेषुतं हस्तं निमृज्याल्लेपभागिनाम् आचम्योदक् परा-वृत्य त्रिरायम्य शनैरसून् षड् ऋतूंश्च नमस्कुर्य्यात्पितॄनेव मन्त्रवित् उदकं निनयेच्छेषं शनैः पिण्डा-न्तिके पुनः अवजिघ्रेच्च तान् पिण्डान् यथा न्युप्तान्समाहितः पिण्डेभ्यस्त्वल्पिकां मात्रां समादायानु-पूर्वशः तानेव विप्रानासीनान् विधिवत् पूर्वमाशयेत् ।ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् विप्रवद्वापितं श्राद्धे स्वकं पितरमाशयेत् पिता यस्य तु वृत्तःस्याज्जीवेद्वापि पितामहः पितुः नाम संकीर्त्त्यकीर्त्तयेत् प्रपितामहम् पितामहोवा तच्छ्राद्धं भुञ्जी-तेत्यब्रवीन्मनुः कामं वा समनुज्ञातः स्वयमेव समा-चरेत् तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम् ।तत्पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन् पाणि-भ्यान्तूपसंगृह्य स्वयमन्नस्य वर्द्धितम् विप्रान्तिके पितॄन्ध्यायन् शनकैरुपनिक्षिपेत् उभयोर्हस्तयोर्मुक्तं यद-न्नमुपनीयते तद्विप्रलुम्पन्त्यसुराः सहसा दुष्टचेतसः ।गुणांश्च सूपशाकाद्यान् पयो दधि घृतं मधुन् बिन्य-सेत् प्रयतः सम्यक् भूमावेव समाहितः भक्ष्यं भोज्यञ्चविविधं मूलानि फलानि हृद्यानि चैव मांसानिपानानि सुरभीणि उपनीयं तु तत् सर्वं शनकैःसुसमाहितः परिवेषयेत प्रयतो गुणान् सर्वान् प्रचो-दयन् नास्रमापातयेज्जातु कुप्येन्नानृतं वदेत् ।न पादेन स्पृशेदन्नं नचैतदवधूनयेत् अस्रङ्गमयतिप्रेतान् कोपोऽरीननृतं शुनः पादस्पर्शस्तु रक्षांसिदुष्कृतीनवधूननम् यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्यादमत्-सरः ब्रह्मोद्याश्च कथाः कुर्य्यात् पितॄणामेतदीपसितम् ।स्वाध्यायं श्रावयेत् प्रित्र्ये धर्मशास्त्राणि चैव हि ।आख्यानानीतिहासाश्च पुराणानि खिलानि हर्ष-येद्व्र्याह्मणांस्तुष्टो भोजयेच्च शनैः शनैः अन्नाद्येनास-कृच्चैतान् गुणैश्च परिचोदयेत् व्रतस्थमपि दौहित्रंश्राद्धे यत्नेन भोजयेत् कुतपञ्चासने दद्यात् तिलैश्चविकिरेन्महीम् त्रीणि श्राद्धे पवित्राणि दौहित्रकुतपस्तिलाः त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्व-राम् अत्युष्णं सर्व्वमन्नं स्याद्भुञ्जीरंस्ते वाग्यताः ।न द्विजातयो ब्रूयुर्दात्रा पृष्टाहविर्गुणान् ।यावदुष्णं भवत्यन्नं यावदश्नाति वागयतः पित-रस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः यद्वेष्टित-शिरा भुङक्ते यद्भुङ्क्ते दक्षिणामुखः सोपानत्कश्चथद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते चाण्डालश्च वराहश्चकुक्कुटः श्वा तथैव रजस्वला षण्ढश्च नेक्षेरन्न-श्रतो द्विजान् होमे प्रदाने भोज्ये यदेभिरभि-वीक्षिते दैवे कर्मणि पित्र्ये वा तद्गच्छत्ययथातथम् ।घ्राणेन शूकरो हन्ति पक्षवातेन कुक्कुटः श्वा तु दृष्टि-निपातेन स्पर्शेनावरवर्णजः खञ्जो वा यदि वा काणोदातुः प्रेष्योऽपि वा भवेत् हीनातिरिक्तगात्रो वातमप्यपनयेत्ततः व्राह्मणं भिक्षुकं वापि भोजनार्थ-मुपस्थितम् व्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ।सार्ववर्णिकमन्नाद्यं सन्नीयाप्लाव्य वारिणा समुत्सृजे-द्भुक्तवतामग्रतो विकिरन् भुवि असंस्कतप्रमीतानांत्यागिनां कुलयोषिताम् उच्छिष्टं भागधेयं स्याद्दर्भेषुविकिरश्च यः उच्छेषणं भूमिगतमजिह्मस्याशठस्य ।दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते आसपिण्ड-क्रियाकर्म्म द्विजातेः संस्थितस्य तु अदैवं भोजये-च्छ्राद्धं पिण्डमेकन्तु निर्वपेत् सहपिण्डक्रियायान्तुकृतायामस्य धर्म्मतः अनयैवावृता कार्य्यं पिण्ड-निर्वपणं सुतैः श्राद्धं भुक्त्वा उच्छिष्टं वृषलायप्रयच्छति मूढो नरकं याति कालसूत्रमवाक्शिराः ।श्राद्धभुग्वृषलीतल्पं तदहर्योऽधिगच्छति तस्याः पुरीषेतन्मासं पितरस्तस्य शेरते पृष्ट्वा स्वदितमित्येवं तृप्ता-नाचामयेत्ततः आचान्तांश्चानुजानीयादभि भो! रम्य-यामिति स्वधास्त्वित्येव तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ।स्वधाकारः परा ह्याशीः सर्वेषु पितृकर्मसु ततो भुक्त-वतां तेषामन्नशेषं निवेदयेत् यथा ब्रूयुस्तथा कुर्य्या-दनुज्ञातस्ततो द्विजैः पित्र्ये स्वदितमित्येव वाव्यंगोष्ठे तु सुश्रुतम् सम्पन्नमित्यभ्युदये दैवे रुचित-मित्यपि अपराह्णस्तथा दर्भा वास्तुसम्पादनं तिलाः ।सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्म्मसु सम्पदः दर्भाःपवित्रं पूर्वाह्णो हविष्याणि सर्वशः पवित्रं यच्चपूर्वोक्तं विज्ञेया हव्यसस्पदः मुन्यन्नानि पयः सोमोमांसं यच्चानुपस्कृतम् अक्षारलवणञ्चैव प्रकृत्याहविरुच्यते विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्-यतः शुचिः दक्षिणां दिशमाकाङ्क्षन् याचेतेमान्वरान् पितॄन् दातारो नोऽभिवर्द्धन्तां वेदाः सन्तति-रेव श्रद्धा नो मा व्यगमद्बहु देयञ्च नोऽ-स्त्विति एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् ।गां विप्रमजमग्निं वा प्राशयेदपसु वा क्षिपेत् पिण्ड-निर्वपणं केचित् पुरस्तादेव कुर्वते वयोभिः स्वादय-न्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा पतिव्रता धर्म्मपत्नीपितृपूजनतत्परा मध्यमन्तु ततः पिण्डमद्यात् सम्यक्सुतार्थिनी आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् ।धनवन्तं प्रजावन्तं सात्विकं धार्म्मिकं तथा प्रक्षाल्यहस्तावाचम्य ज्ञातिप्रायं प्रकल्पयेत् ज्ञातिभ्यः सत्कृतंदत्त्वा बान्धवानपि भोजयेत् उच्छेषणन्तु तत्तिष्ठेद्-यावद्विप्रा विसर्जिताः ततो गृहबलिं कुर्य्यादितिधर्म्मो व्यवस्थितः हविर्यच्चिररात्राय यच्चानन्त्यायकल्पते पितृभ्यो विधिवद्दत्तं तत् प्रवक्ष्याम्यशेषतः ।तिलैर्व्रीहियवैर्म्माषैरद्भिर्मूलफसेन वा दत्तेन मासंप्रीयन्ते विधिवत् पितरो नृणाम् द्वौ मासौ मत्स्य-मासेन त्रीन्मासान् हारिणेन तु औरभ्रेणाथ चतुरःशाकुनेनाथ पञ्च वै षण्मासान् छागमांसेन पार्षतेनच सप्त वै अष्टावेणस्य मांसेन रौरबेण नवैव तु ।दश मासांस्तु तृप्यन्ति वराहमहिषामिषैः शशकूर्म-योस्तु मांसेन मासानेकादशैव तु संवत्सरन्तु गव्येनपयसा पायसे बार्धीणसस्य मांसेन तृप्तिर्द्वा-दशवार्षिकी कालशाकं महाशल्काः खङ्गलोहा-मिषं मधु आनन्त्यायैव कल्पन्ते मुन्यन्नानि सर्वशः ।यत्किञ्चिन्मधुना मिश्रं प्रदद्यात्तु त्रयीदशीम् तदप्य-क्षयमेव स्याद्वर्षासु मघासु अपि नः कुलेजायाद्यो नो दद्यात्त्रयोदशीम् पायसं मधुसर्पिभ्यांप्राकछाये कुञ्जरस्य यद्यद्ददाति विधिवत् सम्यक्श्रद्धासमन्वितः तत्तत् पितॄणां भवति परत्रानन्त-मक्षयम् कृष्णपक्से दशम्यादौ वर्ज्जयित्वा चतुर्द्दशीम् ।श्राद्धे प्रशस्तास्तिथयो यथैता तथेतराः युक्षु कुर्वन्दिनर्क्षेषु सर्व्वान् कामान् समश्नुते अयुक्षु तु पितृन्सर्वान् पजां प्राप्नोति पुष्कलाम् यथा चैवापरः पक्षःपूर्वपक्षाद्विशिष्यते तथा श्राद्धस्य पूर्व्वाह्णादपराह्णोविशिष्यते प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा ।पित्र्यमा निधनात् कार्य्यं विधिवद्दर्भपाणिना रात्रौश्राद्धं कुर्वीत राक्षसी कीर्त्तिता हि सा सन्ध्ययो-रुभयोश्चैव सूर्य्ये चैवाचिरोदिते अनेन विधिनाश्राद्धं त्रिरव्दस्येह निर्वपेत् हेमन्तग्रीष्मवर्षासु पाञ्च-यज्ञिकमन्वहम् पैतृयज्ञियो होमो लौकिकेऽग्नौ-विधीयते दर्शेन विना श्राद्धमाहिताग्नेर्द्वि-जन्मनः यदेव तर्पयत्यद्भिः पितॄन् स्नात्वा द्विजो-त्तमः तेनैव कृत्स्नमाप्नोति पितृयज्ञक्रियाफलम् वसून्वदन्ति वै पितॄन् रुद्रांश्चैव पितामहान् प्रपिताम-हांस्त्वादित्यान् श्रुतिरेषा सनातनी विधसाशी भवेन्नित्यंनित्यं वामृतभोजनः विवसो भुक्तशेषन्तु यज्ञशेषंतथाऽमृतम् एतद्वोऽभिहितं सर्वं विधानं पाञ्चयज्ञि-कम् द्विजातिमुख्यवृत्तीनां विधानं श्रूयतामिति”३ अ० “चतुर्थमायुषो भागमुषित्वाद्यं गुरौ द्विजः ।द्वितीयमायुषो भागं कृतदारो गृहे वसेत् अद्रोहेणैवमूतानामल्पद्रोहेण वा पुनः या वृत्तिस्तां समास्थायविप्रो जीवेद्नापदि यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्म्म-भिरगर्हितैः अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयम् ।ऋतामृताभ्याञ्जीवेत्तु मृतेन प्रमृतेन वा सत्यानृता-ख्यया वापि श्ववृत्त्या कदाचन ऋतमुञ्छशिलज्ञेयममृतं स्यादयाचितम् मृतन्तु याचितं भैक्षं प्रमृतंकर्षणं स्मृतम् सत्यानृतन्तु बाणिज्यं तेन चैवापिजीव्यते सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्ज्जयेत् ।कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा त्र्यहै-हिको वापि भवेदश्वस्तनिक एव वा चतुर्णामपिचैतेषां द्विजानां गृहमेधिनाम् ज्यायान् परः परोज्ञेयो धर्मतो लोकजित्तमः षट्कर्मैको भवत्येषां त्रिभि-रन्यः प्रवर्त्तते द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ।वर्त्तयंश्च शिलोञ्छाभ्यामग्निहोत्रपरायणः इष्टीःपार्वायनान्तीयाः केवला निर्वपेत् सदा लोकवृत्तंवर्त्तेत वृत्तिहेतोः कथञ्चन अजिह्मामशठां शुद्धांजीवेद्ब्राह्मणजीविकाम् सन्तोषं परमास्थाय सुखार्थीसंयती भवेत् सन्तोषमूलं हि सुखं दुःखमूलं विप-र्य्ययः अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातकोद्विजः स्वर्ग्यायुष्ययशस्यानि व्रतानीमानि धारयेत् ।वेदोदितं स्वकं कर्म नित्यं कुर्य्यादतन्द्रितः तद्धि कुर्वन्यथाशक्ति प्राप्नोति परमां गतिम् नेहेतार्थान् प्रस-ङ्गेन विरुद्धेन कर्मणा विद्यमानेष्वर्थेषु नार्त्त्या-मपि यतस्ततः इन्द्रियार्थेषु सर्वेषु प्रसज्जेत का-मतः अतिप्रसक्तिश्चैतेषां मनसा सन्निवर्त्तयेत् ।सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः यथा-तथाध्यापयंस्तु सा ह्यस्य कृतकृत्यता वयसः कर्मणो-ऽर्थस्य श्रुतस्याभिजनस्य वेधवाग्बुद्धिसारूप्यमाच-रन् विचरेदिह बुद्धिवृद्धिकराण्याशु धन्यानि हि-तानि नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदि-कान् यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ।तथातथा विजानाति विज्ञानञ्चास्य रोचते ऋषियज्ञंदेवयज्ञं भूतयज्ञञ्च सर्वदा नृयज्ञं पितृयज्ञञ्च यथा-शक्ति हापयेत् एतानेके महायज्ञान् यज्ञशास्त्र-विदो जनाः अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ।वाच्येके जुह्वति प्राणं प्राणे वाचञ्च सर्वदा वाचिप्राणे पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम् ज्ञानेनैवापरेविप्रा यजन्त्येतैर्मखैः सदा ज्ञानमूलां क्रियामेषांपश्यन्तो ज्ञानचक्षुषा अग्निहोत्रञ्च जुहुयादाद्यन्तेद्युनिशोः सदा दर्शेन चार्द्धमासान्ते पौर्णमासेन चैवहि शश्यान्ते नवशस्येष्ट्या तथर्त्वन्ते द्विजोऽध्वरैः ।पशुना त्वयनस्यादौ समान्ते सौमिंकैर्मखैः नानिष्ट्वानवशस्येष्ट्या पशुना चाग्निमान् द्विजः नवान्नमद्या-न्मांसं वा दीर्घमायुर्जिजीविषुः नवेनानर्च्चिता ह्यस्यपशुहव्येन चाग्नयः प्राणानेवात्तुमिच्छन्ति नवान्ना-मिषगर्द्धिनः आसनाशनशय्याभिरद्भिर्मूलफलेन वा ।नास्य कश्चिद्वसेद्गेहे शक्तितोऽनर्च्चितोऽतिथिः पाष-ण्डिनो विकर्मस्थान् बैडालव्रतिकान् शठान् हेतुकान्वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् वेदविद्याव्रत स्ना-तान् श्रोत्रियान् गृहमेधिनः पूजयेधव्यकव्येन विप-रीतांश्च वर्जयेत् शक्तितोऽपचमानेभ्यो दातव्यं गृहमे-धिना संविभागश्च भूतेभ्यः कर्त्तव्योऽनुपरोधतः ।” इत्येवंस्नातक गृहस्थधर्माः उक्ताः शेषं स्नातकशब्दे वक्ष्यते ।काशी० ख० ३९ अ० गृहस्थधर्मा उक्ता यथा“न क्लेशेन विना द्रव्यमर्थहीने कुतः क्रिया ।क्रियाहीने कुतो धर्मो धर्महीने कुतः सुखम् सुखंहि सर्वदा काङ्क्ष्यं तच्च धर्मसमुद्भवम् तस्माद्धर्मोऽत्रकर्त्तव्यश्चातुर्वर्ण्येन यत्नतः न्यायागतेन द्रव्येण क-र्त्तव्यं पारलौकिकम् दानञ्च विधिना देयं कालेपात्रे भावतः विधिहीनन्तथाऽपात्रे यो ददातिप्रतिग्रहम् केवलं हि तद्याति शेषन्तस्य नश्यति ।व्यसनार्थे कुटुम्बार्थे यदृणार्थे दीयते तदक्षयंभवेदत्र परत्र संशयः मातापितृविहीनंयो मौञ्जीपाणिग्रहादिभिः संस्कारयेन्निजैरर्थैस्तस्यश्रेयस्त्वनन्तकम् अग्निहोत्रैर्न तच्छ्रेयो नाग्नि-ष्टोमादिभिर्मखैः यच्छ्रेयः प्राप्यते ह्यर्थैर्द्विजैकस्मिन्प्रतिष्ठिते पितृगेहे तु या कन्या रजः पश्येदसंस्कृता ।भ्रूणहा तत्पिता ज्ञेयो वृषली सापि कन्यका यस्तांपरिणयेन्भोहात् भवेद्वृषलीपतिः तेन सम्भाषण-न्त्याज्यमपाङ्क्तेयेन सर्वदा विज्ञाय दोषमुभयोः क-न्यायाश्च वरस्य सम्बन्धं वाचयेत् पश्चादन्यथा दोष-भाक् पिता स्त्रियः पबित्राः सततं नैता दुष्यन्तिकेनचित् मासि मासि रजोह्यासां दुष्कृतान्यपक-र्पति पूर्वं त्रिभिः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः ।भुञ्जते मानुषाः पश्चान्नैतादुष्यन्ति केनचित् स्त्रीणांशौचं ददौ सीमः पावकः सर्वमेध्यताम् कल्याणवाणीङ्गन्धर्वस्तेन मेध्याः सदा स्त्रियः कन्यां भुङ्क्तेरजःकालेऽग्निः शशी लोमदर्शने स्तनोद्भेदे गन्धर्व-स्तत्प्रागेव प्रदीयते दृश्यरोमा त्वपत्यघ्नी कुलघ्नी भूतयौवना पितृघ्न्याविस्कृतरजास्ततस्ताः परिवर्ज्जयेत् ।कन्यादानफलप्रेप्सुस्तस्माद्दद्यादनग्निकाम् अन्यथान फलं दातुः प्रतिग्राही पतेदधः कन्यामभुक्तांसोमाद्यैर्ददद्दानफलं लभेत् दैवभुक्तां ददद्दातान स्वर्गमधिगच्छति शयनासनयानानि कुतपं स्त्री-मुखं कुशम् यज्ञपात्राणि सर्वाणि दुष्यन्ति बुधाःक्वचित् वत्सः प्रस्नवने मेध्यः, शकुनिः फलपातने ।नार्य्योरतिप्रयोगेषु श्वा मृगग्रहणे शुचिः अजा-श्वयोर्मुखं मेध्यं गावो मेध्याश्च पृष्ठतः पादतो ब्रा-ह्मणामेध्याः स्त्रियो मेध्यास्तु सर्वतः बलात्कारोप-भुक्ता वा चौरहस्तगतापि वा त्याज्या दूषितानारी नास्यास्त्यागो विधीयते अम्लेन ताम्रशुद्धिःस्याच्छुद्धिः कांस्यस्य भस्मना संशुद्धा रजसा नार्य्यास्तटिनी वेगतः शुचिः मनसापि हि या नेह चिन्त-येत् पुरुषान्तरम् सोमया सह सौख्यानि भुङ्क्ते चा-त्रापि कीर्त्तिभाक् पिता पितामही भ्राता सकुल्योजननी तथा कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ।अप्रयच्छन् समाप्नोति भ्रूणहत्यामृवावृतौ स्वयंत्वभावे दातॄणां कन्या कुर्यात् स्वयं वरम् हृताधि-कारां मलिनां पिण्डमात्रोपजीविनीम् परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् व्यभिचारादृतौ शुद्धिर्गर्भेत्यागो विधीयते गर्भभर्तृबधादौ महत्यपि चकल्मषे शूद्रैव भार्य्या शूद्रस्य सा स्वा विशः स्मृते ।ते स्वा चैव राज्ञस्तु ताश्च स्वा चाग्रजन्मनः आरोप्यशूद्रां शयने विप्रोगच्छेदधोगतिम् उत्पाद्य पुत्रंशूद्रायां ब्राह्मण्यादेव हीयते दैवपित्र्यातिथेयानितत्प्रधानानि यस्य तु देवाद्यास्तानि नाश्नन्ति चस्वर्गन्नं गच्छति जामथो यानि गेहानि शपन्त्यप्रतिपूजिताः कृत्याभिर्निहितानीव नश्येयुस्तान्यसंश-यम् तदभ्यर्च्याः सुवासिन्यो भूषणाच्छादनाशनैः ।भूतिकामैर्नरैर्नित्यं सङ्कटेषूत्सवेषु यत्र नार्यःप्रमुदिता भूषणाच्छादनाशनैः रमन्ते देवतास्तत्र स्यु-स्तत्र सफलाः क्रियाः यत्र तुष्यति भर्त्रा स्त्री स्त्रियाभर्त्ता तुष्यति तत्र वेश्मनि कल्याणं सम्पद्येत पदेपदे जपोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः ।प्राशितं पितृसंतृप्तिर्हुतं ब्राह्मं द्विजार्चनम् पञ्च-यज्ञानिमान् कुर्वन् ब्राह्मणो नावसीदति एतेषामन-नुष्ठानात् पञ्चसूनामवाप्नुयात् ब्राह्मणं कुशलं पृच्छे-द्वाहुजातमनामयम् वैश्यं सुखं समागम्य शूद्रंसन्तोषमेव जातमात्रः शिशुस्तावद्यावदष्टौ समाःस्मृताः भक्ष्याभक्ष्येषु नो दुष्येद्यावन्नैवोपनीयते ।भरणं पोष्यवर्गस्य दृष्टादृष्टफलोदयम् प्रत्यवायोऽह्य-भरणे भर्त्तव्यस्तत् प्रयत्नतः माता पिता गुरुः पत्नी त्व-पत्यानि समाश्रिताः अभ्यागतोऽतिथिश्चाग्निः पौष्य-वर्गा अमी नव जीवति पुमान् योऽत्र बहुभिश्चो-पजीव्यते जीवन्मृतोऽथ विज्ञेयः पुरुषः सोदर-म्भरिः दीनानाथविशिष्टेभ्यो दातव्यं भूतिमिच्छ-ता अदत्तदाना जायन्ते परभाग्योपजीविनः वि-भागशीलसंयुक्तोदयावांश्च क्षमारतः देवतातिथिभ-क्तस्तु गृहस्थो धार्मिकः स्मृतः शर्वरीमध्ययामौ द्वौहुतशेषञ्च यद्धविः तत्र स्वपंस्तदश्नंश्च ब्राह्मणोनावसीदति नवैतानि गृहस्थेन कार्याण्यभ्यागतेसदा सुधामयानि यत् सौम्यं वाक्यञ्चक्षुर्मनोमुखम् ।अभ्युत्यानमिहायाते सस्नेहपूर्वभाषणम् उपासन-मनुव्रज्या गृहस्थोन्नतिहेतवे तथेषद्व्यययुक्तानिकार्याण्येतानि वै नव आसनं पादशौचञ्च यथाशक्त्य-शनं क्षितिः शय्या तृणं जलाभ्यङ्गदीपा गार्हस्थ्यसि-द्धिदाः तथा नव विकर्माणि त्याज्यांनि गृहमेधिना ।पैशुन्यं परदाराश्च द्रोहः क्रोधानृताप्रियम् द्वेषो-दम्भश्च माया स्वर्गमार्गार्गलानि हि नवावश्यक-कर्माणि कार्य्याणि प्रतिवासरम् स्नानं सन्ध्या जपोहोमः स्वाध्यायो देवतार्चनम् वैश्वदेवन्तथांतिथ्यंनवमं पितृतर्पणम् नव गोप्यानि यान्यत्र मुने! तानिनिशामय जन्मर्क्षं मैथुनं मन्त्रो गृहच्छिद्रञ्च पञ्च-मम् आयुर्धनापमानं स्त्री प्रकाश्यानि सर्वथा ।नबैतानि प्रकाश्यानि रहः पापमकुत्सितम् प्रायोग्यमृणशुद्धिश्च स्वान्वयः क्रयविक्रयौ कन्यादानं गुणो-त्कर्षो नान्यत् केनापि कुत्रचित् पात्रमित्रविनीतेषु-दीनानाथोपकारिषु मातापितृगुरुष्वेतन्नवकं दत्त-मक्षयम् निष्फलं नवकं सृष्टं चाटचारणतस्करे ।कुवैद्ये कितवे धूर्त्ते शठे मन्दे वन्दिनि आपत्स्वपिन देयानि नव वस्तूनि सर्वदा अन्वये सति स्वर्वस्वं दाराश्चशरणागतः न्यासाधी कुलवृत्तिञ्च निक्षपं स्त्रीधनंसुतम् यो ददाति मूढात्मा प्रायश्चित्तैर्विशुद्ध्यति ।एतन्नवानां नवकं ज्ञात्वा श्रियमवाप्नुयात् अन्यच्च नवकंवच्मि सर्वेषां स्वर्गमार्गदम् सत्यं शौचमहिंसा चक्षान्तिर्ज्ञानं दया दमः अस्तेयमिन्द्रियाकोचः सर्वेधांधससाधनम् अभ्यस्य नवतिञ्चैनां स्वर्गमार्गप्रदीधि-काम् सतामभिमतां पुण्यां गृहस्थो नावसीदति ।जिह्वा भार्य्या सुतो भ्राता मित्रदाससमाश्रिताः ।यस्यैते विनयाढ्याश्च तस्य सर्वत्र गौरवम् पानं दुर्जन-संसर्गः पत्या विरहाटनम् स्वप्नोऽन्यगेहवासश्चनारीणां दूषणानि षट् समार्घं धान्यमुद्धृत्य महार्घंयः प्रयच्छति हि वार्द्धुषिको नाम तस्यान्नं नैवभक्षयेत् अग्रे माहिषिकं दृष्ट्वा मध्ये तु वृषलीप-तिम् अन्ते वार्द्धुषिकञ्चैव निराशाः पितरोगताः ।महिषीत्युच्यते नारी या स्याद्व्यभिचारिणी तां प्र-हृष्टां कामयते यः माहिषिकः स्मृतः स्ववृषं या-परित्यज्य परवृषे वृषायते वृषली सा हि वि-ज्ञेया शूद्रा वृषली भवेत् यावदुष्णं भवत्यन्नंयावन्मौनेन भुज्यते तावदश्रन्ति पितरो यावन्नोक्ताहविर्गुणाः विद्याविनयसम्पन्ने श्रोत्रिये गृहमागते ।क्रीडन्त्योषधयः सर्वा यास्यामः परमाङ्गतिम् भ्रष्ट-शौचव्रताचारे विप्रे वेदविवर्जिते रोदित्यन्नं दीय-मानं किं मया दुष्कृतं कृतम् यस्य कोष्ठगतञ्चान्नंवेदाभ्यासेन जीर्य्यति तारयति दातारं दश पूर्वान्दशापरान् स्त्रीणां वपनं कार्यं गाः समनु-व्रजेत् रात्रौ वसेद्गोष्ठे कुर्य्याद्वैदिकीं श्रुतिम् ।सर्वान् केशान् समुद्धृत्य च्छेदयेदङ्गुलिद्वयम् एवमेव तुनारीणां शिरसो मुण्डनं भवेत् राजा वा राज-पुत्री वा ब्राह्मणो वा बहुश्रुतः अकारयित्वा वपनंप्रायश्चित्तं तु निर्दिशेत् केशानां रक्षणार्थाय द्विगुणंव्रतमाचरेत् द्विगुणा दक्षिणां देया ब्राह्मणे वेदपारगे ।यो गृहीत्वा विवाहाग्निं गृहस्थ इव मन्यते अन्नंतस्य भोक्तव्यं वृथापाको हि स्मृतः दाराग्नि-होत्रदीक्षाञ्च कुरुते योऽग्रजे स्थिते परीवेत्ता सविज्ञेयः परिवित्तिस्तु पूर्वजः परिवेत्तिः परीवेत्ता याचैव परिविद्यते सर्वे ते नरकं यान्ति दाभ्याजकप-ञ्चमाः क्लीवे देशान्तरस्थे मूके प्रव्रजिते जडे ।कुब्जे खर्वे पतिते दोषः परिवेदने वेदाक्षराणियावन्ति नियुज्यादिर्थकारणात् तावतीर्वै भ्रूणहत्यावेदविक्रयकृल्लभेत् यस्तु प्रव्रजितो भूत्वा सेवते मैथुनंपुनः षष्टि वर्षसहस्राणि वष्ठायां जायते कृमिः ।शूद्रान्नं शूद्रसम्पर्कः शूद्रेण सहासनम् शूद्राद्वि-द्यागमः कश्चित् ज्वलन्तमपि पातयेत् शूद्रादाहृत्य नि-र्वापं ये पचन्त्यबुधा द्विजाः ते यान्ति नरकं घोरंब्रह्मतेजोविवर्जिताः हस्तदत्ताश्च ये स्नेहाव्यञ्जनंलवणानि दातारं नोपतिष्ठन्ति भोक्ता भुङ्क्तेतु किल्विषम् आयसेनैव पात्रेण यक्ष्न्नमुपनीयते ।भोक्ता तद्विट्समं भुङ्क्ते दाता नरकं व्रजेत् अ-ङ्गुल्या दन्तकाष्ठञ्च प्रत्यक्षलवणञ्च यत् मृत्तिकाभक्षणंयच्च समं गोमांसभक्षणैः पानीयं पायसं भैक्ष्यं घृतंलवणमेव हस्तदत्तं गृह्णीयात् तुल्यं गोमांस-भक्षणैः अग्रतो निवसेन्मूर्खो दूरस्थश्च गुणान्वितः ।गुणान्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ब्राह्म-णातिक्रमोनास्ति विप्रे वेदविवर्जिते ज्वलन्तमग्नि-मुत्सृज्य हि भस्मनि हूयते सन्निकृष्टमधीयानब्राह्मणं यो व्यतिक्रमेत् भोजने चैव दाने दहत्यासप्तमं कुलम् गोरक्षकान् बाणिजकान् तथा कारुकु-शीलवान् प्रेष्यान् वार्द्धुषिकांश्चैव विप्रान् शूद्रवदा-चरेत् देवद्रव्यविभागेन ब्रह्मस्वहरणेन कुला-न्याशु विनश्यन्ति ब्राह्मणातिक्रमेण मा देहीतिच यो व्रूयाद्रेवाग्निब्राह्मणेषु तिर्यगयोनिशतं गत्वा चाण्डालेष्वभिजायते वाण्या यच्च प्रतिज्ञातंकर्मणा नोपपादितम् ऋणन्तद्धर्मसंयुक्तमिह लोके परत्रच विघसाशी भवेन्नित्यं नित्यञ्चामृतभोजनः यज्ञ-शेषोऽमृतं भुक्तशेषन्तद्विधसं विदुः सव्यादंसात्परिभ्रष्टे नाभिदेशव्यवस्थिते वस्त्रे एकवासास्तंदैवे पित्रे वर्जयेत् यदेव तर्पयत्यद्भिः पितॄन्स्नात्वा द्विजोत्तमः तेनैव सर्वमाप्नोति वितृयज्ञक्रियाफलम् हस्तं प्रक्षाल्य गण्डूषं यः पिबेद्भोजनान्तरे ।दैवं पित्र्यं तथात्मानं त्रयं उपघातयेत् गणान्नंगणिकान्नञ्च यदन्नं ग्रामयाजके स्त्रीणां प्रथमगर्भेषुभुक्त्वा चान्द्रायणञ्चरेत् पक्षे वा यदि वा मासे यस्यगेहेऽत्ति द्विजः भुक्त्वा दुरात्मनस्तस्य चरेच्चान्द्रायणंव्रतम् सतीनान्दीक्षिताणाञ्च यतीनां व्रतचारिणाम् ।एतेषां सूतकन्नास्ति आर्त्विज्यं कर्म कुर्वताम् अजीर्णे-ऽभ्युदिते वान्ते श्मश्रुकर्मणि मैथुने दुःस्वप्ने दुर्जन-स्पर्शे स्नानमेव विधीयते चैत्थवृक्षं चितिं यूपं शि-वनिर्माल्यभोजनम् वेदविक्रयिणं स्मृष्ट्वा सचेलोजलमाविशेत् अग्न्यगारे गवां गोष्ठे देवब्राह्मणसन्निधौ ।खाध्याये भोजने पाने पादुके वै विवर्जयेत् स्वलक्षेत्रगतं धान्यं कूपवापीषु यत् जलम् अग्राह्यादपितद्ग्राह्यं यच्च गोष्ठगतं पयः यद्वेष्टितशिरा भुङ्क्तेयद्भुङ्क्ते दक्षिणामुखः सोपानत्कश्च यो भुङ्क्तेतद्वै रक्षांसि भुञ्जते यातुधानाः पिशाचाश्च रा-क्षसाः क्रूरकर्मिणः हरन्ति रसमन्नस्य मण्डलेनविवर्जितम् ब्रह्माद्याश्च सुराः सर्वे वशिष्ठाद्या मह-र्षयः मण्डलं चोपजीवन्ति ततः कुर्वीत मण्डल-म् ब्राह्मणे चतुरस्रं स्यात् त्र्यस्रं वै बाहुजन्मनः ।वर्त्तुलन्तु विशः प्रोक्तं शूद्रस्याभ्युक्षणं स्मृतम् नो-त्सङ्गे भाजनं कृत्वा नो पाणौ नैव कर्पटे नासने नच शय्यायां भुञ्जीत मलार्दितः धर्भशास्त्ररथारूढावेदखङ्गधराद्विजाः क्रीडार्थमपि यद्ब्रूयुः धर्मःपरमः स्मृतः रात्रौ दधियुतं द्रव्यं धर्मकामो भक्ष-येत् अश्नतो धर्महानिः स्यात् व्याधिभिश्चोपपीड्यते ।फाणितं गोरसं तोयं लवणं मधु काञ्जिकम् हस्तेनब्राह्मणो दत्त्वा कृच्छ्रं चान्द्रायणं चरेत् गन्धाभरण-माल्यानि यः प्रयच्छति धर्मवित् दुर्गन्धिः सदाऽतुष्टोयत्र यत्रोपजायते नीलीरक्तञ्च यद्वस्त्रं दूरतस्तद्विवर्ज्ज-वेत् स्त्रीणां क्रीडार्थसंयोगे शयनीये दुष्यति ।पालनाद्विक्रयाच्चैव तद्वित्तैरुपजीवनात् अपवित्रोभवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुद्ध्यति स्नानं दानं जपो-होमः स्वाध्यायः पितृतर्पणम् वृथा तस्य महायज्ञानीलीवासो बिभर्त्ति यः नीलीरक्तं यदा वस्त्रं द्विजःस्वाङ्गेषु धारयेत् तन्तुसंघातसंख्याते नरके बसेद्ध्रु-वम् अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ।अमृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् वैश्यस्यचान्नमेवान्नं शूद्रान्नं रुधिरं स्मृतम् वैश्यदेवेन हो-मेन देवताभ्यर्चनैर्जपैः अमृतं तेन विप्रान्नं ऋग्यजुःसामसंस्कृतम् व्यवहारानुरूपेण न्यायेन यदर्जि-तम् क्षत्रियस्य पयस्तेन प्रजापालनतो भवेत् कृषिगोरक्षबाणिज्यादन्नमुत्पाद्य यच्छति सीतायज्ञविधा-मेन वैश्यान्नं तेन सम्मतम् अज्ञानतिमिरान्धस्य मद्य-पानरतस्य रुधिरं तेन शूद्रान्नं वेदमन्त्रविव-र्जितम् वृथा शपथं कुर्यात् स्वल्पेऽप्यर्थे नरोबुधः ।वृथा हि शपथं कुर्वन् प्रत्येह विनश्यति कामि-नीषु विवाहेषु गवां भुक्ते धनक्षये ब्राह्मणाभ्युपपत्तौ चशपथे नास्ति पातकम् सत्येन शापयेद्विप्तं क्षत्रियंवाहनायुधैः गोवीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पा-तकैः अग्निं वाऽहारयेदेनमप्सु चैनं निमज्जयेत् ।स्पर्शयेत् पुत्रदाराणां शिरांस्येनञ्च वा पृथक् ।” अधिक-माचारशब्दे ६३३ पृष्ठादौ दृश्यम् ।स धर्मो व्याससंहितायाम् अ० उक्तो यथा“नित्यं नैमित्तिकं काम्यमिति कर्म त्रिधा मतम् ।त्रिविधं तच्च वक्ष्यामि गृहस्थस्यावधार्यताम् यामिन्याःपश्चिमे यामे त्यक्तनिद्रो हरिम् स्मरेत् आलोक्य म-ङ्गलद्रव्यं कर्मावश्यकमाचरेत् कृतशौचो निषेव्याग्निंदन्तान् प्रक्षाल्य वारिणा स्नात्वोपास्य द्विजः सन्ध्यांदेवादींश्चैव तर्पयेत् वेदवेदाङ्गशास्त्राणि इतिहासानिचाभ्यसेत् अध्यापयेच्च सच्छिष्यान् सद्विप्रांश्च द्विजो-त्तमः अलब्धं प्रापयेल्लब्ध्वा क्षणमात्रं समापयेत् ।समर्थो हि समर्थेन नाविज्ञातः क्वचिद्वसेत् सरित्स-रसि वापीषु गर्तप्रस्रवणादिषु स्नायीत यावदुद्धृत्यपञ्च पिण्डानि वारिणा तीर्थाभावेऽप्यशक्त्या वा स्ना-यातोयैः समाहृतैः गृहाङ्गनगतस्तत्र यावदम्बरपीड-नम् स्नानमब्दैवतैः कुर्यात् पावनैश्चापि मार्ज्जयेत् ।मन्त्रैः प्राणांस्त्रिरायम्य सौरैश्चार्कं विलोकयेत् तिष्ठन्, स्थित्वा तु गायत्रीं ततः स्वाध्यायमारभेत् ऋचाञ्चयजुषां साम्नामथर्वाङ्गिरसामपि इतिहासपुराणानांवेदोपनिषदां द्विजः शक्त्या सम्यक् पठेन्नित्यमल्पम-प्यासमापनात् यज्ञदानतपसामखिलं फलमाप्नु-यात् तस्मादहरहर्वेदं द्विजोऽधीयीत वाग्यतः ।धर्मशास्त्रेतिहासादि सर्वेषां शक्तितः पठेत् कृतस्वा-ध्यायः प्रथमं तर्पयेच्चाथ देवताः जान्वा दक्षिणंदर्भैः प्रागग्रैः सयवैस्तिलैः एकैकाञ्जलिदानेन प्रकृ-तिस्थोपवीतकः समजानुद्वयो ब्रह्मसूत्रधार उदङ्-मुखः तिर्य्यग्दर्भैश्च वामाग्रैर्यवैस्तिलविमिश्रितैः ।अम्भोभिरुत्तरक्षिप्तैः कनिष्ठामूलनिर्गतैः द्वाभ्यां द्वा-भ्यामञ्जलिभ्यां मनुष्यांस्तर्पयेत्ततः दक्षिणाभिमुखःसव्यजान्वा द्विगुणैः कुशैः तिलैर्जलैश्च देशिन्यामूलदर्भाद्विनिःसृतैः दक्षिणांसोपवीतः स्यात् क्रमे-णाञ्जलिभिस्त्रिभिः सन्तर्पयेद्दिव्यपितॄंस्तत्परं पि-तॄन् स्वकान् मातृमातामहांस्तद्वत्त्रीनेवं हि त्रिभि-स्त्रिभिः मातामहानां येऽप्यन्ये गोत्रिणो दाहव-र्जिताः तानेकाञ्जलिदानेन तर्पयेच्च पृथक् पृथक् ।असंस्कृतप्रमीता ये प्रेतसंस्कारवर्जिताः वस्त्रनिष्पीड-नाम्भोभिस्तेषामाप्यायनम्भवेत् अतर्पितेषु पितृषुवस्त्रं निष्पीडयेच्च यः निराशाः पितरस्तस्य भवन्तिसुरमानुषाः पयोदर्भस्वधाकारगोत्रनामतिलैर्भवेत् सु-दत्तं तत्पुनस्तेषामेकेनापि वृथा विना अन्यचित्तेनयद्दत्तं यद्दत्तं विधिवर्जितम् अनासनस्थितेनापि त-ज्जलं रुधिरायते एवं सन्तर्पिताः कामैस्तर्पकांस्तर्प-यन्ति ब्रह्मविष्णुशिवादित्यमित्रवरुणनामभिः ।पूजयेल्लक्षितैर्मन्त्रैर्वेदमन्त्रोक्तदेवताः उपस्थाय रवेःकाष्ठां पूजयित्वा देवताः ब्रह्माग्नीन्द्रौषधीजीव-विष्णुनामहतांहसाम् अपां यत्तेति सत्कायं नम-स्कारैः स्वनामभिः कृत्वा मुखं समालभ्य स्नानमेवं समा-चरेत् ततः प्रविश्य भवनमावसथ्ये हुताशने पाक-यज्ञांश्च चतुरोविदध्याद्विधिवद्द्विजः अनाहितावस-थ्याग्निरादायान्नं घृतप्लुतम् शाकलेन विधानेन जु-हुयाल्लौकिकेऽनले व्यस्ताभिर्व्याहृतिभिश्च समस्ताभि-स्ततः परम् षड्भिर्देवकृतस्येति मन्त्रवद्भिर्यथाक्रमम् ।प्राजापत्यं स्विष्टकृतं हुत्वैवं द्वादशाहुतीः ओङ्कार-पूर्वः स्वाहान्तस्त्यागः स्विष्टविधानतः भुवि दर्भान्समातीर्य बलिकर्म समाचरेत् विश्वेभ्यो देवेभ्य इतिसर्वभूतेभ्य एव भूतानां पतये चेति नमस्का-रेण शास्त्रवित् दद्याद्बलित्रयञ्चाग्रे पितृभ्यश्च स्वधानमः पात्रनिर्णेजनं वारि वायव्यां दिशि निःक्षि-पेत् उद्धृत्य षोडशग्रासमात्रमन्नं घृतोक्षितम् इद-मन्नं मनुष्येभ्यो हन्तेत्युक्त्वा समुत्सृजेत् गोत्रनाम-स्वधाकारैः पितृभ्यश्चापि शक्तितः षड्भ्योऽन्नमन्बहंदद्यात् पितृयज्ञविधानतः वेदादीनां पठेत् किञ्चि-दल्पं ब्रह्मसुखाप्तये ततोऽन्यदन्नमादाय निर्गत्य भवना-द्बहिः काकेभ्यः श्वपचेभ्यश्च प्रक्षिपेद्ग्रासमेव ।उपविश्य गृहद्वारि तिष्ठेद्यावन्मुहूर्त्तकम् अप्रमत्तोऽ-तिथिं लिप्सुर्भावशुद्धः प्रतीक्षकः आगतं दूरतः शान्तंभोक्तुकाममकिञ्चनम् दृष्ट्वा सम्मुखमभ्येत्य सत्कृत्य प्र-श्रयार्च्चनैः पादधावनसम्मानाभ्यञ्जनादिभिरर्चितः ।त्रिदिवं प्रापयेत्सद्यो यज्ञस्याभ्यधिकोऽतिथिः काला-गतोऽतिथिर्दृष्टवेदपारो गृहागतः द्वावेतौ पूजितौस्वर्गं नयतोऽधस्त्वपूजितौ विवाह्यस्नातकक्ष्माभृदाचा-र्यसुहृदृत्विजः अर्घ्या भवन्ति धर्मेण प्रतिवर्षं गृहा-गताः गृहागताय सत्कृत्य श्रोत्रियाय यथाविधि ।भक्त्योपकल्पयेदेकं महाभागं विसर्जयेत् विसर्जये-दनुव्रज्य सुतृप्तश्रोत्रियातिथीन् मित्रमातुलसम्बन्धि-बान्धवान् समुपागतान् भोजयेद्गृहिणोभिक्षां सत्-कृतां भिक्षुकोऽर्हति स्वाद्वन्नमश्नन्नस्वादु ददद्गच्छत्य-धोगतिम् गर्भिण्यातुरभृत्येषु बालवृद्धातुरादिषु ।बुभुक्षितेषु भुञ्जानो गृहस्थोऽश्नाति किल्विषम् ना-द्याद्गृध्येन्न पारक्यं कदाचिदनिमन्त्रितः निमन्त्रि-तोऽपि निन्द्येन प्रत्याख्यानं द्विजोऽर्हति शूद्राभि-शस्तवार्धुष्यवाग्दुष्टक्रूरतस्कराः क्रुद्धापविद्धबद्धोग्र-बधबन्धनजीविनः शैलूषशौण्डिकोन्नद्धोन्मत्तव्रात्यव्रत-च्युताः नग्ननास्तिकनिर्लज्जपिशुनव्यसनान्विताः ।कदर्यस्त्रीजितानार्य्यपरवादकृता नराः अनीशाः की-र्त्तिमन्तोऽपि राजदेवस्वहारकाः शयनासनसंसर्ग-वृत्तकर्मादिदूषिताः अश्रद्दधानाः पतिता भ्रष्टाचारा-दयश्च ये अभोज्यान्नाः स्युरन्नादो यस्य यः स्यात् सतत्समः नापितान्वयमित्रार्द्धसीरिणो दासगोपकाः ।शूद्राणामप्यमीषान्तु भुक्त्वान्नं नैव दुष्यति धर्मेणा-न्योन्यभोज्यान्ना द्विजास्तु विदितान्वयाः स्ववृत्तोपा-र्जितं मेध्यमाकरस्थं समाक्षिकम् अश्वलीढमगोघ्रात-मस्पृष्टं शूद्रवायसैः अनुच्छिष्टमसंदुष्टमपर्युषितमेवच अम्लानबाह्यमन्नाद्यमाद्यं नित्यं सुसंस्कृतम् कृ-शराऽपूपसंयावपायसं शष्कुलीति नाश्नीयाद्ब्रा-ह्मणोमांसमनियुक्तः कथञ्चन क्रतौ श्राद्धे नियुक्तोवा अनश्नन् पतति द्विजः मृगयोपार्जितं मांसमभ्यर्च्यपितृदेवताः क्षत्रियो, हीनशौर्यस्तत् क्रीत्वा वैश्योऽपिधर्मतः द्विजोजग्ध्वा वृथामांसं हत्वाप्यविधिना पशून् ।निरयेष्वक्षयं वासमाप्नोत्याचन्द्रतारकम् सर्वान् का-मान् समासाद्य फलमश्वमखस्य मुनिसाम्यमवा-प्नोति गृहस्थो मांसवर्जनात् द्विजैर्भोज्यानि ग-व्यानि माहिष्याणि पयांसि पलाण्डुश्वेतवृन्ता-करक्तमूलकमेव गृञ्जनारुणवृक्षासृग्जतुगभफ-लानि अकालकुसुमादीनि द्विजोजग्ध्वैन्दवं च-रेत् वाग्दूषितमविज्ञातमन्यपीडितकार्यपि भूते-भ्योऽन्नमदत्त्वा तदन्नं गृहिणोदहेत् हैमराजत-कांस्येषु पात्रेष्वद्यात् सदा गृही तदभावे साधुगन्ध-लोध्रद्रुमलतासु पलाशपद्मपत्रेषु गृहस्थोभोक्तु-मर्हति अभ्युक्ष्यान्नं नमस्कारैर्भुवि दद्याद्बलित्रयम् ।भूपतये भुवः पतये भूतानां पतये तथा अपः प्राश्यततः पश्चात् पञ्चप्राणाहुतिक्रमात् स्वाहाकारेणजुहुयाच्छेषमद्याद्यथासुखम् अनन्यचित्तोभुञ्जीतवाग्यतोऽन्नमकुत्सयन् तृप्तेरन्नमश्नीयादक्षुण्णंपात्रमुत्सृजेत् उच्छिष्टमन्नमुद्धत्य ग्रासमेकं भुवि-क्षिपेत् आचान्तः साधुसङ्गेन सद्विद्यापठनेन ।वृत्तवृद्धकथाभिश्च शेषाहमतिवाहयेत् सायं सन्ध्या-मुपासीत हुत्वाग्निं भृत्यसंयुतः आपोशानक्रिया-पूर्वमश्नीयादन्वहं द्विजः सायमप्यतिथिः पूज्यो हो-मकालागतोऽनिशम् श्रद्धया शक्तितोनित्यं श्रुतं ह-न्यादपूजितः नातितृप्त उपस्पृश्य पक्षाल्य चरणौशुचिः अप्रत्यगुत्तरशिराः शयीत शयने शुभे शक्ति-मानुदिते काले स्नानं सन्ध्यां हापयेत् ब्राह्मे मु-हूर्त्ते चोत्थाय चिन्तयेद्धितमात्मनः शक्तिमान् मतिमान्नित्यं वृत्तमेतत् समाचरेत्” ।वृहत्पराशरे तु तत्कृत्यं विस्तरतोविधानतश्चोक्तं विस्तरभयात् नोद्धतम् ।दिवसीयमुहूर्त्तभेदे गृहस्थकर्त्तव्यधर्मभेदमाहं दक्षः ।“प्रातरुत्थाय कर्त्तव्यं यद्द्विजेन दिने दिने० तत्सर्वं संप्रवक्ष्यामि द्विजानामुपकारकम् उदयास्तमयंयावन्न विप्रः क्षणिकोभवेत् नित्यनैमित्तिकैर्मुक्तः का-म्यैश्चान्यैरगर्हितैः यः स्वकर्म परित्यज्य यदन्यत्कुरुते द्विजः अज्ञानाद्यदि वा मोहात् तेन पतिताभवेत् दिवसस्याद्यभागे तु कृत्यं तस्योपदिश्यते द्वि-तीये तृतीये चतुर्थे पञ्चमे तथा षष्ठे सप्तमेचैव अष्टमे पृथक् पृथक् विभागेष्वेषु यत्कर्मतत्प्रवक्ष्याम्यशेषतः उषःकाले तु संप्राप्ते शौचं कृत्वायथार्थवत् ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् ।अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः स्रवत्येषदिवा रात्रौ प्रातःस्नानं विशोधनम् क्लिद्यन्ति हिप्रसुप्तस्य इन्द्रियाणि स्रवन्ति अङ्गानि समतांयान्ति उत्तमान्यधमैः सह नानास्वेदसमाकीर्णः शय-नादुत्थितः पुमान् अस्नात्वा नाचरेत् कर्म जपहो-मादि किञ्चन प्रातरुत्थाय यो विप्रः प्रातः स्नायीभवेत् सदा समस्तजन्मजं पापं त्रिभिवर्षैर्व्यपोहति ।उषस्युषसि यत् स्नानं सन्ध्यायामुदिते रवौ प्राजा-पत्येन तत्तुल्यं महापातकनाशनम् प्रातःस्नानं प्रशं-सन्ति दृष्टादृष्टकरं हि तत् सर्वमर्हति पूतात्मा प्रातः-स्नायी जपादिकम् स्नानादनन्तरं तावदुपस्पर्शनमु-च्यते अनेन तु विधानेन आचान्तः शुचितामियात् ।प्रक्षाल्य वादौ हस्तौ त्रिः पिबेदम्बु वीक्षितम् ।संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततोमुखम् संहत्य ति-सृभिः पूर्वमास्यमेवमुपस्पृशेत् ततः पादौ समभ्युक्ष्यअङ्गानि समुपस्पृशेत् अङ्गुष्ठेन प्रदेशिन्या घ्राणंपश्चादनन्तरम् अङ्गुष्ठानामिकाम्याञ्च चक्षुश्रोत्रेपुनः पुनः कनिष्ठाङ्गुष्ठया नाभिं हृदयञ्च तलेन बै ।सर्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत् सन्ध्या-याञ्च प्रभाते मध्याह्ने ततः पुनः सन्ध्यांनोपासते यस्तु ब्राह्मणोहि विशेषतः जीवन्नेवशूद्रः स्यान्मृतः श्वा चैव जायते सन्ध्याहीनोऽशुचि-र्नित्यमनर्हः सर्वकर्मसु यदन्यत् कुरुते कर्म तस्यफलमश्नुते सन्ध्याकर्मावसाने तु स्वयं होमोविधी-यते स्वयं होमे फलं यत्तु तदन्येन जायते ।ऋत्विक् पुत्त्रोगुरुभ्रांता भागिनेयोऽथ विट्पतिः ।एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि देवकार्यंततः कृत्वा गुरुमङ्गलवीक्षणम् देवकार्याणि पूर्वाह्णेमनुष्याणाञ्च मध्यमे पितॄणामपराह्णे कार्याण्ये-तानि यत्नतः पौर्वाह्णिकन्तु यत् कर्म यदि तत् सा-यमाचरेत् तस्य फलमाप्नोति बन्ध्यस्त्रीमैथुनं यथा ।दिवसस्याद्यभागे तु सर्वमेतद्विधीयते द्वितीये तथाभागे वेदाभ्यासोविधीयते वेदाभ्यासो हि विप्राणांपरमं तप उच्यते व्रह्मयज्ञः विज्ञेयः षडङ्गसहि-तस्तु सः वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः ।ततोदानञ्च शिष्येभ्यो वेदाभ्यासो हि पञ्चधा समित्-पुष्पकुशादीनां कालः समुदाहृतः तृतीये चैवभागे तु पोष्यवर्गार्थसाधनम् पिता माता गुरुर्भार्याप्रजा दीनाः समाश्रिताः अभ्यागतोऽतिथिश्चान्यः पो-ष्यवर्ग उदाहृतः ज्ञातिर्बन्धुजनः क्षीणस्तथाऽनाथः स-माश्रितः अन्येऽप्यधनयुक्ताश्च पोष्यवर्ग उदाहृतः ।भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् नरकं पी-डने चास्य तस्माद्यत्नेन तं भरेत् सार्वभौतिकमन्नाद्यंकर्त्तव्यन्तु विशेषतः ज्ञानविद्भ्यः प्रदातव्यमन्यथा नरकंव्रजेत् जीवति एवैकोबहुभिश्चोपजीव्यते जी-वन्तोमृतकाश्चान्ये आत्मम्भरयो नराः बह्वर्थेजीव्यते कश्चित् कुटुम्बार्थे तथा परः आत्मार्थेऽन्योन शक्नोति स्वोदरेणापि दुःखितः दीनानाथविशि-ष्टेभ्योदातव्यं मूतिमिच्छता अदत्तदाना जायन्तेपरभाग्योपजीविनः यद्ददाति विशिष्टेभ्यो यज्जुहोतिदिने दिने तत्तु वित्तमहं मन्ये शेषं कस्यापि र-क्षति चतुर्थे तथा भागे स्नानार्थं मृदमाहरेत् ।तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले नित्यं नै-मित्तिकं काम्यं त्रिविधं स्नानमुच्यते तेषां मध्येतु यन्नित्यं तत्पुनर्भिद्यते त्रिधा मलापहरणं प-श्चान्मन्त्रवत्तु जले स्मृतम् सन्ध्यास्नानमुभाभ्याञ्चस्नानभेदा प्रकीर्त्तिताः मार्जनं जलमध्ये तु प्राणा-यामोयतस्ततः उपस्थानं ततः पश्चात् सावित्र्या जपउच्यते सविता देवता यस्या मुखमग्निस्त्रिधा स्थितः ।विश्चामित्र ऋषिश्छन्दो गायत्री सा विशिष्यते पञ्चमेच तथाभागे संविभागो यथार्हतः पितृदेवमनु-ष्याणां कीटानाञ्चोपदिश्यते देवैश्चैव मनुष्यैश्च तिर्य-ग्भिश्चोपजीव्यते गृहस्थः प्रत्यहं यस्मात्तस्याज्येष्ठा-श्रमी गृही त्रयाणामाश्रमाणान्तु गृहस्तो योनिरु-च्यते तेनैव सीदमानेन सीदन्तीहेतरे त्रयः मूल-प्राणो भवेत् स्कन्दः स्कन्दाच्छाखाः सपल्लवाः मूले-नैव विनष्टेन सर्वमेतद्विनश्यति तस्मात् सर्वप्रयत्नेनरक्षितव्यो गृहाश्रमी राज्ञा चान्यैस्त्रिभिः पूज्योमाननीयश्च सर्वदा गृहस्थोऽपि क्रियायुक्तो गृहेणगृहाश्रमी चैव पुत्रदारेण स्वकर्मपरिवर्जितः ।अस्रात्वा चाप्यहुत्वा चाजप्त्वाऽदत्त्वा मानवः ।देवादीनामृणी भूत्वा नरकं प्रतिपद्यते एक एव हिभुङ्क्तेऽन्नमपरोऽन्नेन भुज्यते भुज्यते सः एबैकोयो भुङ्क्तेऽन्नं ससाक्षिकम् विभागशीलो यो नित्यंक्षमायुक्तोदयापरः देवतातिथिभक्तश्च गृहस्थः तुधार्मिकः दया लज्जा क्षमा श्रद्धा प्रज्ञा योगः कृत-ज्ञता एते यस्य गुणाः सन्ति गृही मुख्य उच्यते ।संविभागं ततः कृत्वा गृहस्थः शेषभुग्भवेत् भुक्त्वातु सुखमास्थाय तदन्नं परिणामयेत् इतिहासपुरा-णाद्यैः षष्ठञ्च सप्तमं नयेत् अष्टमे लोकयात्रा तुबहिः सन्ध्या ततः पुनः होमो भोजनकञ्चैव यच्चा-न्यद्गृहकृत्यकम् कृत्वा चैवं ततः पश्चात् स्वाध्यायंकिञ्चिदाचरेत् प्रदोषपश्चिमौ यामौ वेदाभ्यासेन तौनयेत् यामद्वयंशयानो हि ब्रह्मभूयाय कल्पते ।नैमित्तिकानि काम्यानि निपतन्ति यथा यथा तथातथैव कार्याणि कालस्तु विधीयते अस्मिन्नेव प्रयु-ञ्जानो ह्यस्मिन्नेव तु लीयते तस्मात् सर्बप्रयत्नेनकर्त्तव्यं सुखमिच्छता सर्वत्र मध्यमौ यामौ हुतमेषहविश्च यत् भुञ्जानश्च शयानश्च ब्राह्मणो नावसीदति ।“कलौ विशिष्य गृहस्थकर्त्तव्यकृष्यादिकं वृहत्पराशरे-णोक्तं कृषिशब्देऽनुक्तत्वात् प्रसङ्गादिहोच्यते यथा अ०“अतःपरं गृहस्थस्य कर्माचारं कलौ युगे धर्मं-साधारणं साक्षाच्चतुर्वर्णे क्रमागतम् युष्माकं सम्प्र-वक्ष्यामि पाराशरप्रचोदितम् षट्कर्मसहितोविप्रःकृषिवृत्तिं समाश्रयेत् हीनाङ्गं व्याधिसंयुक्तं प्राण-हीनञ्च दुर्बलम् क्षुद्युक्तं तृषितं श्रान्तमनड्वाहंन वाहयेत् स्थिराङ्गं नीरुजं तृप्तं शान्तं षण्डविवर्जितम् अधृष्टं सबलप्राणमनड्बाहं तु वाह-येत् वाहयेद्दिवसस्यार्द्धं पश्चात् स्नानं समाचरेत् ।कगवैर्न कृषिं कुर्यात्सर्वथा धेनुसंग्रहः बन्धनं पा-लनं रक्षां द्विजः कुर्याद्गृही गवाम् वत्साश्च यत्नतोरक्ष्या वर्द्धन्ते ते यथाक्रमम् दूरे तास्तु मोक्तव्याश्चरणाय कदाचन दूरे गावश्चरन्त्यो वै भवन्तिशुभायनाः प्रातरेव हि दोन्धव्या दुह्याः सायं तथागृही दीग्धुर्विपर्यये नैव वर्द्धन्ते ताः कदाचन ।अनादेयतृणं जग्ध्वा स्रवन्त्यनुदिनं पयः तुष्टिकृद्देव-तादीनां पूज्या गावः कथन्न ताः यस्याः शिरसिब्रह्मास्ते स्कन्धदेशे शिवः स्मृतः पृष्ठे विष्णुस्तथातस्थौ श्रुतयश्चरणेषु तु या अन्या देवताः काश्चित्तस्या-लोमसु ताः स्थिताः सर्वदेवमयी गौस्तु तुष्येत्तद्भ-क्तितो हरिः हरति स्पर्शनात्पापं पयसा पोषयन्ति-याः प्रापयन्ति दिवं दत्ताः पुण्या गावः कथन्न ताः ।यच्छफाहतभूमेस्तु उद्गताः पांशुसंस्पृशः प्रीणयेत्पुरुषस्यैनो वन्द्या गावः कथन्न ताः शकृन्मूत्रं हियस्यास्तुं पीतं पुनाति पातकम् किमपूज्यं हि तस्यागोरिति पाराशरोऽब्रवीत् गौरवत्सा दोग्धव्या नचैव गर्भसन्धिनी प्रसूता दशाहार्वाग्दोग्धा चेन्न-रकं व्रजेत् दुर्बला व्याधिसंयुक्ता पुष्पिता या द्विवत्-सभूः सा साधुभिर्न दोग्धव्या वर्णिभिः सुखमीप्-सुभिः कुलान्ते पुष्पिता गावः कुलान्ते बहवस्तिलाः ।कुलान्ते चलचित्ता स्त्री कुलान्ते बन्धुविग्रहः एकत्रपृथिवी सर्वा सशैलवनकानना तथा गौर्ज्यायमीसाक्षादेकत्रोभयतोमुखी यथोक्तविधिना चैता वर्णैःपाल्यास्तु पूजिताः पालयेत्पूजयन्नेवाः प्रेत्येहच मोदते दक्षिणाभिमुखा गाव उत्तराभिमुखा अपि ।बन्धनीयास्तथैतास्तु प्राक्पश्चिमामुखाः गोवृषवाजियाक्षायां सुतीक्ष्णं लोहदात्रकम् स्थाप्यं तुसर्वदा तस्यां गवि लुप्तविमोक्षणात् गावो देयाःसदारक्ष्याः पोष्याः पाल्याश्च सर्वदा ताडयन्ति चये पापा ये चाकर्षन्ति ता नराः नरके पच्यन्तेऽङ्गानिश्वासेन प्रपीडिताः सपशुचर्मदण्डेन मृदु तासांनिवर्त्तनम् गच्छ गच्छेति तां ब्रूयात् मा मा भैरितिवारयेत् संस्पृशन् गां नमस्कृत्य कुर्यात्तान्तु प्रदक्षि-णम् प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा तृ-णोदकादिसंयुक्तं यः प्रदद्याद्गवाह्निकम् सोऽश्वमेध-समं पुण्यं लभते नात्र संशयः पृथिव्यां यानितोर्थानि समुद्राश्च सरांसि गवां शृङ्गोदकस्नानेकलां नार्हन्ति षोडशीम् कुतस्तेषां हि पापानि येषांगृहमलङ्कृतम् सततं बालवत्साभिर्गोभिः स्त्रीभि-रिव स्वयम् ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम् तिष्ठन्त्येकत्र मन्त्राणि हविरेकत्र तिष्ठति ।गोभिर्यज्ञाः प्रवर्त्तन्ते गोभिर्देवाः प्रतिष्ठिताः गो-भिर्वेदाः समुद्गीर्णाः सषडङ्गपदाः क्रमात् सौर-भेयास्तु तस्याग्रे पृष्ठतोऽप्यस्य ताः स्थिताः वसन्तिहृदये नित्यन्तासां मध्ये वसन्ति ये ते पुण्यपुरुषाःक्षौण्यां नाकेऽपि दुर्लभाश्च ते शृङ्गमूले स्थितो ब्रह्माभृङ्गमूले तु केशवः शृङ्गाग्रे शङ्करं विद्यात्त्रयोदेवाःप्रतिष्ठिताः शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणिच सर्वे देवाः स्थिता देहे सर्बदेवमयी हि गौः ल-लाटाग्रे स्थिता देवी नासामध्ये तु षण्मुखः क-म्बलाश्वतरौ नागौ तत्कर्णे यौ व्यवस्थितौ स्थितौतस्याश्च सौरभ्याश्चक्षुषोः शशिभास्करौ दन्तेषु वसव-श्चाष्टौ जिह्वायां वरुणः स्थितः सरस्वती हु-ङ्कारे यमयक्षौ गण्डयोः ऋषयो रोमकूपेषु प्रस्रावेजाह्नवीजलम् कालिन्दी गोमये तस्या अपरा देवतास्तथा अष्टविंशतिदेवानां कोठ्या लोमसु ताः स्थिताः ।उदरे गार्हपत्योऽग्निर्हृद्देशे दक्षिणस्तथा मुखेचाहवनीयस्तु चावसाथ्यस्तु कुक्षिषु एवं योवर्त्तते गोषु ताडने क्रोधवर्जितः महतीं श्रियमा-प्नोति स्वर्गलोके महीयते कुल्यं तस्या लङ्घेतपूतिगन्धं वर्जयेत् यावत्पिवति तदगन्धं तावत्-पुण्यं प्रवर्द्धते यो गां पयस्विनीं दद्यात्तरुणीं वत्स-संयुताम् शिवस्यायतनं दत्तं दत्तन्तेन तु विश्वकम् ।उक्षा गौर्वेधसा स्मृष्टा तस्य ह्युत्पादनाय तैरु-त्पादितशस्येन सर्वमेतद्धि धार्यते यश्चैतान् पालयेत्यत्नाद्वर्द्धयेच्चैव यत्नतः जगन्ति तेन सर्वाणि सा-क्षात् स्युः पालितानि यावद्गोपालने पुण्यमुक्तं पूर्वमनीषिभिः उक्ष्णोऽपि पालने तेषां फलंदशगुणं भवेत् जगदेतद्धृतं सर्वमनडुद्भिश्चराचरम् ।वृष ईहावता रक्ष्यः पालनीयस्तु सर्वदा धर्मोऽयं भू-तले साक्षाद्ब्रह्मणा हितकारिणा त्रैलोक्यं धार-णायालमन्नानाञ्च प्रसूयते अनादेयानि घासानि विध्वं-सति सकामतः भ्रमति भूतले दूरमुक्षाणङ्को नपूजयेत् उत्पादयन्ति शस्यानि मर्दयन्ति वहन्ति ।आनयन्ति दवीयस्थमुक्ष्णोवा कोऽधिको भुवि स्कन्धेनदूराच्च वहन्ति भारं द्राक्षादि किञ्चिन्न खादयन्ति ।स्वीयेन जीवेन परस्य जीवं रक्षन्ति पुष्णन्ति विवर्द्ध-यन्ति पुण्यास्तु गावो वसुधातलेऽमी बिभ्रत्यहो-पृष्ठगगर्भभारम् भारः पृथिव्या दशताडिताया एकस्यचोष्णो ह्यपि साधुवाचः एकेन दत्तेन वृषेणयेन दत्ता भवेयुर्द्दश सौरभेयाः माहेश्वरीयं धरणीसमाना तस्माद्वृषात् पूजितमस्ति नान्यत् उत्पाद्य श-स्यानि तृणञ्चरन्ति तदेव भूयः सकलं वहन्ति नभारखिन्नाः प्रवदन्ति किञ्चिदहोवृषाद्धार्यति जीव-लोकः तृतीयेऽह्नि चतुर्थे वा यदेवोक्षाऽदृढोभवेत् ।तदा नसा तु भेत्तव्या नैव प्राग्दुर्बलस्य नासा-बेधनकीलन्तु खादिरं वाथ शैंशपम् द्वादशाङ्गुल-कङ्कार्यन्तज्ज्ञैस्त्रीणि समानि वा शाला द्विजानां वृष-गोहयानां तां याम्यदिग्द्वारवतीं विदध्यात् सौम्याककुब्द्वारवतीं सुशोभान्तेषां शमिच्छन् धृतमात्मनश्च ।गावो वृषो वा हयहस्तिनो वा अन्येऽपि सर्वे पशवोद्विजेन्द्राः याम्यां मुखा दिङ्मुखमुत्तरादिङ्मुखांशका-स्ते खलु बन्धनीयाः शालाप्रवेशे वृषगोपशूनां राजापियत्नाद्धयकुञ्जराणाम् होमञ्च सप्तार्चिषि शास्त्रयुक्तंकुर्याद्विधिज्ञो द्विजपूजनञ्च लाङ्गलं संप्रवक्ष्यामियत्काष्ठं यत्प्रमाणतः हलीशायास्तयामानं प्रतो-दस्य युगस्य चत्वारिंशत्तथाचाष्टावङ्गुलानि कुहःस्मृतः अथार्द्धमङ्गुलैर्भज्यं हलीशावेधतश्च यः ।षोडशैव तु तस्याधः षड्विंशतिस्तथोपरि वेधस्तथाच कर्त्तव्यः प्रमाणेन षडङ्गुलः अष्टाङ्गुलमुरस्तस्यतेधादूर्द्धं प्रकल्पयेत् ग्रीवा दशाङ्गुला चोर्द्धं हस्त-ग्राही तनः स्मृतः अङ्गुलैश्चाष्टभिस्तत् स्याद्वेधः स्यात्प्रतिहारकः तस्याधस्ताद्यच्चत्वारि वेधश्चतुरङ्गलः ।सार्वत्रज्ञैः शुभः कार्यस्ततद्वेधस्त्र्यङ्गुलो भवेत् पञ्चा-ङ्गुलमुरस्तस्याः सीरस्येति विभाजनम् पृथुत्वं शिर-सोधार्य्यं हस्ततलप्रमाणकम् अङ्गुलानि तथा चाष्टौउरसः पृथुता स्मृता बन्धाद्बहिः प्रतीहारी षट्-त्रिंशदङ्गुला भवेत् सुतीक्ष्णलोहपाशस्य मुक्तादा-मादिदारकृत् सीरं क्षीरवृक्षस्य विल्वपिचुमर्दयोः ।इत्यादीनां हि कुर्व्वाणी नन्दति चिरं गृही प्राञ्जलासप्तहस्ता तु हलीशा विदुषां मता तस्या वेधः सवर्णा-याः कार्य्यो नववितस्तिभिः प्लक्षाक्षयोर्न तत्कुर्य्यात्कीर्तिघ्नौ तौ प्रकीर्तितौ प्रमादतस्तु ताः कुर्वन् सशस्योनश्यते गृही नीचोच्चवृषमानेन तजज्ञास्तां प्रवदन्तिहि चतुर्हस्तं युगं कार्य्यं स्कन्धस्थानेऽर्धचन्द्रवत् ।मेषशृङ्ग्याः कदम्बस्य शालाधन्यतमस्य सम्या वेधा-द्बहिः कार्य्या दशाङ्गुलप्रमाणिका तन्माने प्रबालीच तदन्तरदशाङ्गुलम् प्रतोदीविषमग्रन्थिर्तैणवश्च चतुःकरः तदग्रे तु प्रकर्त्तव्यं यवाकारं तु लोहवत् ।हीनातिरिक्तं कर्त्तव्यं नैव किञ्चित्प्रामाणतः कुर्य्या-दनडुहां दैन्याददैन्यात् नरकं व्रजेत् यथाभीष्टं यथाशोभं बाहकस्य प्रमाणतः भूमेश्च कर्षणायालं तज्ज्ञाःसर्वं वदन्ति हि योजनं तु हलस्याथ प्रवक्ष्यामि यथातथा श्रेष्ठनक्षत्रसंयुक्ते पुण्येऽह्नि तद्विधीयते यत्रदिने तु बुध्येत तत्र कार्य्यं विजानता यत्र कृत्यंहितं चापि पुण्यं वा मनसि स्मरेत् तत्र विद्द्वान्द्विजश्रेष्टः पुण्येऽह्नि तद्धि कारयेत् मावृश्राद्धं द्विजःकृत्वा यथोक्तविधिना गृही द्रव्यकालानुसारेण कुर्वतोधर्मतः कृषिम् प्रोल्लिखन् मण्डलं पुष्पधूपदीपैः समर्चयेत् ।इन्द्राय तथाश्विभ्यां मरुद्भ्यश्च यथा द्विजः कुर्य्याद्बलिंहृतिं विद्वान् उदकानाञ्चयाय तथा कुमार्य्यैसीतायै अनुमत्यै तथा बलिम् नमः स्वाहेति मन्त्रेणकामयन्नात्मनः शुभम् दधिगन्धाक्षतैः पुष्पैः शमीपत्रैस्तिलैस्तथा संघृष्य सीरफालाग्रे हेम्ना वा रजतेनवा प्रलिप्य मधुसर्पिर्भ्यां कुर्य्याच्चैव प्रदक्षिणम् ।अथोक्ष्णो मण्डलं कुर्य्यात् कृत्वा सीरप्रवाहनम् ।पुष्पं लाङ्गलकल्याणं कल्याणाय नमोऽस्त्विति सीतायाःस्थापनं कुर्य्यात् पाराशरमृषिं स्मरेत् सीतां युञ्जतइत्याद्यैर्मन्त्रैः सीरं प्रवाहयेत् दधिदूर्वाक्षतैः पुष्पैःशमीपत्रैश्च पुण्यदैः सीतां पूज्य ततो भक्तोरक्तवस्त्रै-र्विशाणकैः सप्त धान्यानि चादाय प्रोक्ष्य पूर्वामुखीहली तानि दत्त्वा खलक्षेत्रे किरन् भूमीं कृषेद्द्विजः ।न यवैर्न तिलैर्हीनं द्विजः कुर्य्याच्च कर्षणम् तद्वि-हीनन्तु कुर्वाणं प्रशंसन्ति देवताः तिलमात्रच्युतंतोयं दक्षिणेशाम्पतेर्दिशि तेन तृप्यन्ति पितरो यावन्नतिलविक्रयः विक्रीय तिलान् यस्तु तर्पयेत्सर्षिदेवताः ।विमुच्य पितरस्तस्य प्रयान्तीव तिलैः सह उषाजलंयवस्तम्बपत्रेभ्यो भूतले पतत् पयोदधिघृताद्यैस्तु तर्प-येत्सर्वदेवताः देवपर्जन्यभूसीरबोयात् कृषिः प्रजायते ।व्यापारात् पुरुषस्यापि तस्मात्तत्रोद्यतो भवेत् शालीन्भूशणकार्पासं वार्ताकुप्रभृतीनि वापयेत्सर्ववीजानिसर्ववापी सीदति चन्द्रक्षये पतिर्विप्रो यो युनक्तिवृषान् क्वचित् तत्पञ्च दशवर्षाणि त्यजन्ति पितरो हितम् चन्द्रक्षये द्विजो विद्वान् यो भुङ्क्ते तु पराशनम् ।भोक्तुर्मासार्जितं पुण्यं भवेदशनमस्य तत् चन्द्रार्कयोस्तुसंयोगे कुर्याद्यः स्त्रीनिषेवणम् सरेतोभोजिनस्तस्यषण्मासं पितरः स्थिताः चन्द्रक्षये यः कुर्य्यान्नर-स्तरुनिकृन्तनम् तत्पर्णसंङ्ख्यया तस्य भवन्ति भ्रूणह-त्यकाः वनस्पतिगते सोमे योऽप्यध्यानं व्रजेन्नरः ।प्रभ्रष्टद्विजकर्माणं तं त्यजन्त्यमरादयः वासांसीन्दुप्र-णाशे यो रजकस्यामतिः क्षिपेत् पिबन्ति पितरस्तस्यमासं वस्त्रजलन्तु तत् सीमक्षये द्विजो याति तत्कामस्तुहुताशनम् तदेव पितृशापाग्निदग्धो नरकमाविवेत् ।अष्टमी कामभोगेन षष्ठी तैलोपभोगतः कुहूस्तु दन्त-काष्ठेन हिनस्त्यासप्तमं कुलम् चन्द्राप्रतीतौ पुरुषस्तुदैवादद्यादमत्या यदि दन्तकाष्ठम् सुराधिराजः सह-तस्तु तेन घातः कृतः स्यात्पितृदेवतानाम् तत्राभ्यज्यविषाणानि गावश्चैव वृषास्तथा चरणायं विसृज्यन्तेआगतान्निशि भोजयेत् उत्पाद्येह शस्यानि सर्वाणितृणचारिणः जगत्सर्वं घृतं यैस्तु पूज्यन्ते किन्न तेवृषाः येनैकेन प्रदत्तेन दत्तं गोदशकम्भवेत् यदूपेणस्थितो धर्मः पूज्यन्ते किन्न ते वृषाः पाल्याहियत्नतस्ते वै वाहनीया यथाविधि याति नरकं घोरंयो वाहयत्यपालयन् नाधिकाङ्गो हीनाङ्गः पुष्पि-ताङ्गो दृषितः वाहनीयो हि शुद्रेण वाहयन्क्षयमाप्नुयात् वर्जनीयादृष्टदोषा गावो वै दोहनेनरैः पाल्या वै यत्नतः सर्वे पालयन् शुभमाप्नुयात् ।अन्नार्थमेतान् वृषभान् ससर्ज परमेश्वरः अन्नेनाप्यायतेवर्षं त्रैलोक्यं सचराचरम् अग्निर्ज्वलति चान्नार्थंवाति चान्नाय मारुतः गृहणाति चाम्भसां सूर्य्यो रस-मन्नाय रश्मिभिः अन्नं प्राणो बलं चान्नमन्नाज्जी-वितमुच्यते अन्नं सर्वस्य चाधारः सर्वमन्ने प्रतिष्ठि-तम् सुरादीनां हि सर्वेषामन्नं वीजं परं स्थितम् ।तस्मादन्नात्परं तत्त्वं भूतं भविष्यति द्यौः पुमा-न्धरणी नारी अम्भोवीजन्दिवश्च्युतम् द्युधात्रीतोय-संयोगादन्नादीनां हि सम्भवः आपीमूलं हि सर्वस्यसर्वमप्सु प्रतिष्ठितम् आपोऽमृतरसो ह्याप आपःशुक्रं बलं महः सर्वस्य वीजमापो वै सर्वमद्भिःसमावृतम् सद्य आप्यायना ह्यापः आपो ज्येष्ठतरा-ह्यतः किञ्चित्कालं विनाऽन्नाद्यैर्जीवन्ति मनुजादयः ।न जीवन्ति विनाप्यद्भिस्तस्मादापोऽमृतं स्मृतम् दत्तानिचाद्भिरेतस्यां किं दत्तं क्षितौ भवेत् तथान्नेन प्रद-त्तेन सर्वं दत्तं भवेदिह अतोऽप्यन्नार्थभावेन कर्त्तव्यंकर्षणं द्विजैः यथोक्तेन विधानेन लाङ्गलादिप्रयो-जनम् सीते! सौम्ये! कुमारि! त्वं देवि! देवा-र्चिते! श्रिये सत्कृता यंथासिद्धा तथा मे सिद्धिदाभव सकृत्सूनोर्विना नाम्बा सीतायाः स्थापनं विना ।विनाप्यक्ष्णोरक्षणार्थं सर्वं हरति राक्षसः वापनेलवने क्षेत्रे खले गन्त्रीप्रवाहणे एष एव विधिर्ज्ञेयोधान्यानाञ्च प्रवेशने देवतायतनोद्याननिपातस्थानगोव्रजम् सीमाश्मशानभूमिञ्च वृक्षच्छायाक्षितिं तथा ।भूमिं निखातयूपाञ्च अयनस्थानमेव अन्यामपिहि चावाह्यां कर्षेत् कृषिकृत् धराम् मोषरांवाहयेद्भूमिं वर्चाश्मकर्करीवृताम् वाहयेन्नाप्रमत्तश्चन नदीपुलिनं तथा यद्यसौ वाहयेल्लोभात्द्वेषाद्वापिहि मानवः क्षीयते सोऽचिरात्पापात् सपुत्रपशुभा-न्धवः नरकं धोरतामिस्वं पापीयान् याति चैवसः ।योऽपहृत्य परकीयां कृषिकृद्वाहयेद्धराम् भूमिस्थेनपापेन ह्यनन्तनरकं वसेत् दूरे वाहयेत् क्षेत्रंनचैवात्यन्तिके तथा वाहयेन्न पथि क्षेत्रं वाहयन्दुःख-भाग्भवेत् क्षेत्रेष्वेवं वृतिं कुर्य्यात् यामुष्ट्रो नाव-लोकयेत् लङ्घयेत्पशुर्याञ्च नातीयाद्याञ्च शू-करः बन्धश्च यत्नतः कार्य्यो मृगादित्रासनाय ।अत्राप्युपद्रवं राजतस्करादिसमुद्भवम् संरक्षेत्सर्वतोयत्नाद्यस्मात् गृह्णात्यसौ करात् कृषिकृन्मानवस्त्वेवंमत्वा धर्मं कृषेर्ध्रुवम् अनवद्यां शुभां स्निग्धां जलाव-गाहनक्षमाम् निम्नां हि वाहयेद्भूमिं यत्र विस्रवतेजलम् वाहयेत्तु जलाभ्यर्णे अपुष्टसेकसम्भवैः ।शारदमुच्चकैःस्थाने कलम्बादि वपेद्धली अर्धाप्लु-तासु कार्पासं तदन्यत्र तु हैमनम् वसन्तग्रीष्मकालीयमप्सु स्निग्धेषु तद्विदः केदारेषु तथा शालीन् जलो-पान्तेषु चेक्षुकान् वृन्ताकशाकमूलानि कन्दानि चजलान्तिके वृष्टिविश्रान्तपानीयक्षेत्रेषु यवादिकान् ।तोधूमांश्च मसूरांश्च खल्वान् खलकुलन्तथा सम-स्निग्धेषु चोप्यानि भूमिजीवान् विजानता तिलाबहुविधाश्चोप्या अतसीशणमेव मृदम्बुतो जग-त्सर्वं वापयेत्कृषिकृन्नरः सम्पश्येच्चरतः सर्वान् गो-वृषादीन् स्वयङ्गृही चिन्तयेत्सर्वमात्मानं स्वयमेवकृषिं व्रजेत् प्रथमं कृषिबाणिज्यं द्वितीयं योनिपोष-णम् तृतीयं विक्रयं, वक्रं चतुर्थं राजसेवनम् ।नखैर्विलिखने यस्या ब्रूयुर्दोषं मनीषिणः तस्याःसीरविदारेण किन्न पापं क्षितेर्भवेत् तृणैकच्छेदमात्रेणप्रोच्यते क्षय आयुषः असङ्ख्यकन्दनिर्वासादसङ्ख्यात-म्भवेदघम् यदघं मत्स्यबधानां तथा सङ्कर्षिणामपि ।अर्हः कुक्कुटिकानाञ्च तदेव कृषिजीविनाम् बध-कानाञ्च यत्पापं यत्पापं मृगयोरपि कदर्य्याणाञ्चयत्पापं तत्पापं कृषिजीविनाम् वर्णानाञ्च गृह-स्थानां कृषिवृत्त्युपजीविनाम् तदेनसो विशुद्ध्यर्थं प्राहसत्यवतीपतिः द्वादशो नवमो वापि सप्तमः पञ्चमोऽपिवा धान्यभागः प्रदातव्यो देहिनः क्षेत्रिणो ध्रुवम् ।क्षश्माक्षद्यूतभूमौ विशां वै क्षेत्रभुग्भवेत् एकैकांशाप-कर्षः स्याद्यावद्दशमसप्तमौ ग्रामेशस्य नृपस्यापि वर्णिभिःकृषिजीविभिः
भागः प्रदातव्यो यतस्तौ कृषि-भागिनौ व्यूढौ सर्वमात्राणां देयोऽंशः स्याच्चतु-र्द्दशः एकैकांशापकर्षस्तु यावद्दशमसप्तमौ ब्राह्मणस्तुकृषिं कुर्वन्वाहयेदिच्छयाधराम् किञ्चित्कस्यचिद्दद्यात्ससर्वस्य प्रभुर्य्यतः ब्रह्मा वै ब्राह्मणानां स्यात्प्रभुस्त्वसृ-जदादितः तद्रक्षणाय बाहुभ्यामसृजत् क्षत्रियानपि ।पशुपाल्याशनोत्पत्त्यै ऊरुभ्याञ्च तथा विशः द्विज-दास्याय पण्याय पद्भ्यां शूद्रमकल्पयत् यत्किञ्चिज्ज-गती यत्र भूगेहाश्च गजादिकम् खभावेनेह विप्राणांब्रह्मा खयमकल्पयत् ब्राह्मणश्चैव राजा द्वाव-प्येतौ धृतव्रतौ तयोरन्तरं किञ्चित्प्रजा धर्मेण रक्ष-येत् तस्मान्न ब्राह्मणो दद्यात् कुर्वाणो धर्मतः कृषिम् ।ग्रामेशस्य नृपस्यापि किञ्चिम्मितमसौ बलिम् अथान्य-त्सम्प्रवक्ष्यामि कृषिकृच्छुद्धिकारणम् संशुद्धः कर्षकोयेनस्वर्गलोकमवाप्नुयात् सर्वसत्वोपकाराय सर्वत्र कृषि-कृन्नरः कुर्य्यात् कृषिं प्रयत्नेन सर्वसत्वोपजीव्यकृत् ।सर्वस्य स्थितिकारुण्यात्स देवपितृभिः पुनः मनुष्याणान्तुपोष्याय कृषिं कुर्य्यात् कृषीवलः वयांसि चान्यसत्वानिक्षुत्तृष्णापीडितान् द्विजान् विमोच्य सर्वतापेभ्यः स्वर्ग-लोकमवाप्नुयात् चतुर्दिक्षु खले कुर्य्यात् प्राच्यामतिघ-नावृतिम् सैकद्वारपिधानाञ्च पिदध्याच्चैव सर्वतः ।खरोष्ट्राजोरणांस्तत्र विशतस्तु निवारयेत् श्वशूकरशृ-गालादिकाकोलूककपोतकान् त्रिसन्ध्यं प्रोक्षणं कुर्य्यात्दानीयाभ्युक्षणाम्बुभिः रक्षा भस्मना कुर्य्याज्जल-धाराभिरक्षणम् त्रिसन्ध्यमर्चयेत्सीतां पराशरमृषिंस्मरन् प्रेतभूतादिनामानि वदेच्च तदग्रतः सूति-कागृहवत्तत्र कर्त्तव्यं परिरक्षणम् हरन्त्यरक्षितंयस्मात् रक्षांसि सर्वमेव हि प्रशस्तं दिनपूर्वाह्णे नाप-राह्णे सन्ध्ययोः धान्योन्मानं सदा कुर्यात्सीतापूजन-पूर्वकम् यजेत स्वलभिक्षाभिः खलेरोहिण्यएव हि ।भक्त्या सर्वं प्रदत्तं हि तत्समस्तमिहाक्षयम् खलयज्ञदक्षिणैषा ब्रह्मणा निर्मिता पुरा भागधेयमयीं कृत्वातां गृह्णन्त्वीह मात्रिकाम् शतक्रत्वादयो देवाः पितरःसोमपादयः सनकादिमनुष्याश्च ये चान्ये दक्षिणाशनाः ।तानुद्दिश्य विप्रेभ्यो दद्याच्च प्रथमं हली विवाहेखलयज्ञे संक्रान्तौ ग्रहणेषु पुत्रे जाते व्यती-पाते दत्तं भवति चाक्षयम् अन्येषामर्थिनां पश्चात्का-रुकाणां पुनः पुनः दीनानामप्यनाथानां कुष्ठिनांकुशरीरिणां क्लीबान्धबधिरादीनां सर्वेषामगिदीयते वर्णानां पतितानाञ्च द्युदृग्भूतानि तर्पयेत् ।चाण्डालानाश्च पाकानां प्रीत्यात्युच्चावचाददत् येकेचिदागतास्तत्र पूज्यास्ते विधिवद्द्विजाः स्तोकशःसीरिभिः सर्वे वर्णिभिर्गृहमेधिभिः दत्त्वा त्वनृतयावाचा क्रमेणाथ विसर्जयेत् तत् कृत्वा स्वगृहं गच्छे-च्छ्राद्धमभ्युदयं चरेत् शरद्धेमन्तवसन्तनवान्नः श्राद्ध-माचरेत् नाकृत्वान्नन्तदश्नीयादश्नंस्तदघमश्नुते कृष्या-मुत्पाद्य धान्यानि खलयज्ञं समाप्य सर्वसत्वहितेयुक्त इहामुत्र सुखी भवेत् कृषेरन्यतमोधर्मो नबभेत् कृषितोऽन्यतः सुखं कृषितोऽन्यत्र यदि धर्मेणकर्षति अवस्त्रत्वं निरन्नत्वं कृषितो नैव जायते ।अनातिथ्यञ्च दुष्टत्वं गोमतो कदाचन निर्धनत्वस-सभ्यत्वं विद्यायुक्तस्य कर्हिचित् अस्थानित्वमभाग्यत्वंन सुशीलस्य कर्हिचित् वदन्ति कवयः केचित् कृष्या-दीनां विशुद्धये लाभस्यार्द्धप्रदानाञ्च सर्वेषां शुद्धिकृ-द्भवेत् प्रतिग्रहाच्चतुर्थांशं वाणिग्लाभतृतीयकम् ।कृषितो विंशतिञ्चैव ददतो नास्ति पातकम् राज्ञोदत्त्वा षड्भागं देवतानां विंशतिम् त्रयस्त्रिंशञ्चविप्राणां कृषिकर्मा लिप्यते कृष्या समुत्पाद्ययवादिकानि धान्यानि भूयांसि मखान् विधाय मुक्तोगृहस्थोऽपि पराशरेण तस्यापि नो कश्चिदवादि दोषः ।देवा मनुष्याः पितरश्च सर्वे साध्याश्च यज्ञाश्च सकिन्न-राश्च गावो द्विजेन्द्राः सह सर्वसत्वैः कृष्यां तृप्ताःकिल केऽत्र लोके यश्चैतदालोच्य कृषिं विदध्यात् लिप्येनपापेन भूभवेन सीरेण तस्यापि विदारितापिस्याद्भूतधात्री वरदानदात्री षट् कर्माणि कृषिं ये तुकुर्युर्ज्ञानविधिं द्विजाः ते सुरादिवरप्राप्ताः स्वर्गलोक-मवाप्नुयुः षट्कर्मभिः कृषिः प्राक्तो द्विजानां गृहमे-धिनाम् गृहञ्च गृहिणीमाहुस्तद्विवाहोऽप्यथोच्यते” ।गृहस्थस्य भावः कर्म वा ष्यञ् गार्हस्थ्य गृहस्थ-धर्मे
न०