गृहस्थः (gRhasthaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiगृहस्थः
गृहम्-स्थः -
"गृही, दूसरे आश्रम में प्रवेश करके रहने वाला"
Wordnet
Sanskrit गृहस्थः
यः गृहस्थाश्रमम् आचरति।
"गृहस्थेन गृहस्थधर्मः आचरणीयः।"
गृहस्थः, ज्येष्ठाश्रमी, गृहमेधी, स्नातकः, गृही, गृहपतिः, सत्री, गृहयाय्यः, गृहाधिपः, कुटुम्बी, गृहायनिकः
यः गृहेषु दारेषु अभिरमते।
"सः गृहस्थः सुखी भवति यः कुटुम्बेन सह जीवति।"
शब्दकल्पद्रुमः
Sanskritगृहस्थः, (“न गृहं गृहमित्याहुर्गृहिणी गृह-मुच्यते ।” अतएव गृहेषु दारेषु तिष्ठति अभि-रमते इति । गृह + स्था + “सुपि स्थः ।” ३ । २ । ४ ।इति कः ।) गृही । द्वितीयाश्रमी । तत्पर्य्यायः ।ज्येष्ठाश्रमी २ गृहमेधी ३ स्नातकः ४ गृही ५ ।इति हेमचन्द्रः । ३ । ४७१ ॥
गृहपतिः ६सत्री ७ । इत्यमरः । २ । ८ । १५ ॥
गृहयाय्यः ८ ।इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
गृहा-धिपः ९ । इति हलायुधः ॥
कुटुम्बी १० । इतिजटाधरः ॥
गृहायनिकः ११ । इति शब्दरत्ना-वली ॥
* ॥
तस्य धर्म्मो यथा, --“गृहस्थो ब्रह्यचारी च वानप्रस्थोऽथ भिक्षुकः ।चत्वार आश्रमाः प्रोक्ताः सर्व्वे गार्हस्थ्यमूलकाः ॥
यः कश्चिदिह लोकेऽस्मिन्नागमः संप्रकीर्त्तितः ।तस्यात्र गमनं श्रेयः कीर्त्तिरेषा सनातनी ॥
संस्कारैः संस्कृतः पूर्व्वं यथावच्चरितव्रतः ।जातौ गुणविशिष्टायां समावर्त्तेत वेदवित् ॥
स्वदारनिरतो नित्यं शिष्टाचारो जितेन्द्रियः ।पञ्चभिञ्च महायज्ञैः श्रद्दधानो यजेदिह ॥
देवतातिथिशिष्टाशी निरतो वेदकर्म्मसु ।इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि ॥
न पाणिपादचपलो न नेत्रचपलो मुनिः ।न च वागङ्गचपल इति शिष्टस्य गोचरः ॥
नित्यं यज्ञोपवीती स्यात् शुक्लवासाः शुचिव्रतः ।नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत् ॥
जितशिश्नोदरो मैत्रः शिष्टाचारसमन्वितः ।वैणवीं धारयेद्यष्टिं सोदकञ्च कमण्डलुम् ॥
अधीत्याध्यापनं कुर्य्यात् तथा यजनयाजने ।दानं प्रतिग्रहञ्चापि षड्गुणां वृत्तिमाचरेत् ॥
त्रीणि कर्म्माणि यानीह ब्राह्मणानान्तु जीविका ।याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ॥
अथ शेषाणि चान्यानि त्रीणि कर्म्माणि यानि तु ।दानमध्ययनं यज्ञो धर्म्मयुक्तानि तानि तु ॥
तेध्वप्रमादं कुर्व्वीत त्रिषु कर्म्मसु धर्म्मवित् ।दान्तो मैत्रः क्षमायुक्तः सर्व्वभूतसमो मुनिः ॥
सर्व्वमेतद् यथाशक्ति विप्रो निर्व्वर्त्तयन् शुचिः ।एवं युक्तो जयेत् स्वर्गं गृहस्थः संशितव्रतः ॥
”इत्थाश्वमेधिकपर्व्व ॥
“सर्व्वेषामाश्रमाणान्तु द्वैविध्यन्तु चतुर्व्विधम् ।ब्रह्मचार्य्युपकुर्व्वाणो नैष्ठिको ब्रह्मतत्परः ॥
योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ।उपकुर्व्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥
अग्नयोऽतिथिश्रुश्रूषा यज्ञो दानं सुरार्च्चनम् ।गृहस्थस्य समासेन धर्म्मोऽयं द्विजसत्तमाः ॥
उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ।कुटुम्बभरणे युक्तः साधकोऽसौ गृही भवेत् ॥
ऋणानि त्रीण्युपाकृत्य त्यक्त्वा भार्य्याधनादिकम् ।एकाकी विचरेद् यस्तु उदासीनः स मौक्षिकः ॥
”इति गारुडे ४९ अध्यायः ॥
बाहुल्यन्तु तत्रैव । ५० । ५१ । अध्याययोर्द्रष्टव्यम् ॥
* ॥
गृहस्थब्राह्मणधर्म्मो यथा, --“चतुर्थमायुषो भागमुषित्वाद्यं गुरौ द्विजः ।द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ।या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥
यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्म्मभिरगर्हितैः ।अक्लेशेन शरीरस्य कुर्व्वीत धनसञ्चयम् ॥
ऋतामृताभ्याञ्जीवेत्तु मृतेन प्रमृतेन वा ।सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥
ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् ।मृतन्तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥
सत्यानृतन्तु वाणिज्यं तेन चैवापि जीव्यते ।सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्ज्जयेत् ॥
”इत्यादि मानवे ४ अध्यायः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
