| YouTube Channel

गृहं (gRhaM)

 
Apte 1890
English
गृहं [गृह्यते धर्माचरणाय, ग्रह् गेहार्थे Tv.] 1 A house, dwelling, habitation, mansion
गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते Pt. 4. 81, 5. 15
पश्य वानरमूर्खेण सुगृही निर्गृहीकृता Pt. 1. 390.
2 A wife
(the first quotation in 1 is sometimes erroneously cited as an illustration).
3 The life of a householder
हि सति कुलधुर्ये सूर्यवंश्या गृहाय R. 7. 71, 5. 10
Mv. 4. 28.
4 A sign of the zodiac.
5 A name or appellation.
हाः (m. pl.) 1 A house, dwelling
इमे नो गृहाः Mu. 1
स्फटिकोपलविग्रहा गृहाः शशभृद्भित्तनिरंकभित्तयः N. 2. 74
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं Me. 75.
2 A wife.
3 The inhabitants of a house, family.
हः Ved. An assistant, or servant. In comp. oft. rendered by ‘domestic, ‘household’ or ‘tame’
e. g. °कपोतः ‘a tame pigeon’
°कार्याणि-कर्माणि ‘household duties’
°शकुंतिका ‘tame bird’ U. 1. 45 &c.
Comp.
अक्षः a loophole, eyelet-hole, a round or oblong window.
अधिपः,
ईशः,
ईश्वरः {1} a house-holder. {2} a regent of a sign of the zodiac.
अयनिकः a house-holder.
अर्थः domestic affairs, any household matter
गृहार्थोऽग्निपरिप्क्रिया Ms. 2. 67.
अंभिपालिन् m. a watchman.
अम्लं a kind of sour-gruel
अवग्रहणी the threshold.
अश्मन् m. a flat oblong stone upon which condiments are ground
(Mar. पाटा).
आगत a. one who has come to a house. (
तः) a guest.
आचारः household or domestic business
U. 2.
आरामः,
वाटी,
वाटिका a garden attached to a house.
आशया the betel-tree.
आश्रमः the order of a house-holder, the second stage in the religious life of a Brāhmaṇa
see आश्रम.
आश्रमिन् m. a householder.
उत्पातः any domestic nuisance
उपकरणं a domestic utensil, anything required for household use.
कच्छपः = गृहाश्मन् q. v.
कपोतः
तकः a tame or domestic pigeon.
करणं {1} household affairs. {2} house-building.
कर्तृ m. ‘a house-builder, a kind of sparrow.
कर्मन् n. {1} household affairs. {2} a domestic rite. °करः, °कारः, °दासः a menial, domestic servant
शंभुस्वयंभुहरयो हरिणेक्षणानां येनाक्रियंत सततं गृहकर्मदासाः Bh. 1. 1.
कलहः domestic feuds, intestine broils.
कारकः a house-builder, mason
Y. 3. 146.
कारिन् m. {1} a housebuilder. {2} a kind of wasp.
कुक्कुटः a domestic cock.
कार्यं household affairs
Ms. 5. 150.
गोधा,
गोधिका the small house-lizard.
चूल्ली a house with two rooms contiguous to each other, but one facing west, the other east.
छिद्रं {1} a family-secret or scandal. {2} family dissensions.
जः,
जातः a slave born in the house.
जनः family, members of a family, especially the wife
Mu. 1.
जालिका deceit, disguise.
ज्ञानिन् (also गृहेज्ञानिन्) ‘wise only in the inside of the house’, inexperienced, stupid, foolish.
तटी a terrace in front of the house.
दाहः setting a house on fire, incendiarism.
दासः a domestic slave.
दीप्तिः f. the splendour or ornament of a house, a virtuous woman.
देवता the goddess of a house
(pl.) a class of household deities.
देहली the threshold of a house
यासां बलिः सपदि मद्गृहदेहलीनां Mk. 1. 9.
नमनं wind.
नाशनः a wild pigeon.
नीडः a sparrow.
पतिः {1} a householder, a man who has entered on the second stage of life, one who, after having completed his studies, is married and settled. {2} a sacrificer. {3} the virtue of a householder
i. e. hospitality. {4} Ved. an epithet of Agni. {5} the maintenance of the sacred and perpetual fire.
पत्नी Ved. ‘the mistress of a house, the wife of the householder.
पालः {1} the guardian of a house. {2} a house-dog.
पोतकः the site of a house, the ground on which it stands and which surrounds it.
प्रवेशः a solemn entrance into a house according to prescribed rites.
बभ्रुः a domestic ichneumon.
बलिः a domestic oblation, offering of the remnants of a meal to all creatures, such as animals, supernatural beings, and particularly household deities
Ms. 3. 265. °प्रियः a crane. °भुज् m. {1} a crow. {2} a sparrow
नीडारंभैगृहबलिभुजामाकुलग्रामचैत्याः Me. 23. °देवता a deity to whom a domestic oblation is offered.
भंगः {1} one who is driven from his house, an exile. {2} destroying a house. {3} breaking into a house. {4} failure, ruin or destruction of a house, firm &c.
भंजनं {1} breaking down or destroying a house. {2} causing the decay or ruin of a family.
भर्तृ m. the master of a house.
भूमिः f. the site of a house.
भेदिन् a. {1} prying into domestic affairs. {2} causing domestic quarrels.
भोजिन् m. an inmate of the same house, tenant.
मणिः a lamp.
माचिका a bat.
मृगः a dog.
मेघः a multitude of houses.
मेध a. {1} one who performs the domestic rites. {2} connected with the duties of a householder. (
धः) {1} a householder. {2} a domestic sacrifice.
मधिन् m. a householder, a married Brāhmaṇa who has a household
(गृहैर्दारैर्मेधंते संगच्छंते Malli.)
प्रजायै गृहमेधिनाम् R. 1. 7
see गृहपति above. (
नी) the wife of a householder, a house-wife.
यंत्रं a stick or other instrument to which, on solemn occasions, flags are fastened
गृहयंत्रपताकाश्रीरपौरादरनिर्मिता Ku. 6. 41.
रंध्रं family-dissensions.
वाटिका,
वाटी a garden attached to a house.
वित्तः the owner of a house.
शुकः a domestic parrot, one kept for pleasure
Amaru. 13.
संवेशकः a house-builder by profession.
स्थः a householder, one who has entered on the stage of a householder
संकटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता U. 1. 9
see गृहपति above and Ms. 3. 68
6. 90. °आश्रमः the life of a householder
see गृहाश्रम. °धर्मः the duty of a householder.
स्थूणा the pillar of a house.
शब्दकल्पद्रुमः
Sanskrit
गृहं,
क्ली,
(गृह्णाति धान्यादिकं जीवनार्थं यस्मि-न्निति ग्रह + “गेहे कः ।” १४४ इतिकः ।) इष्टकादिरचितवासस्थानम् घर इतिभाषा
(यथा, मनुः ३४ ।“चतुर्थे मासि कर्त्तव्यं शिशोर्निष्क्रमणं गृहात्
”अर्द्ध्वर्च्चादित्वादेवायं शब्दो विभाषया पुंसि चवर्त्तते तत्र बहुवचनान्त एव यथा, --“गृहाः पुंसि भूम्न्येव ।” इत्यमरः
अत-एव मनौ २५० ।“शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन्दधि
”)तत्पर्य्यायः गेहम् उदवसितम् वेश्म ४सद्म निकेतनम् निशान्तम् वस्त्यम् ८सदनम् भवनम् १० अगारम् ११ मन्दिरम् १२गृहाः १३ निकाय्यः १४ निलयः १५ आलयः १६वासः १७ कुटः १८ शाला १९ सभा २० इत्य-मरः ४-५
पस्त्यम् २१ सादनम् २२आगारम् २३ कुटिः २४ कुटी २५ गेहः २६निकेतः २७ साला २८ मन्दिरा २९ ओकः ३० ।इति भरतः
निवासः ३१ संवासः ३२आवासः ३३ अधिवासः ३४ निवसतिः ३५वसतिः ३६ केतनम् ३७ इति शब्दरत्नावली
गयः ३८ कृदरः ३९ गर्त्तः ४० हर्म्म्यम् ४१अस्तम् ४२ दुरोणे ४३ नीलम् ४४ दुर्य्याः ४५स्वसराणि ४६ अमा ४७ दमे ४८ कृत्तिः ४९योनिः ५० शरणम् ५१ वरूथम् ५२ छर्द्दिः ५३छदिः ५४ छाया ५५ शर्म्म ५६ अज्म् ५७ ।इति वेदनिघण्टौ अध्यायः
*
अथ गृहारम्भकालः ।“वैशाखश्रावणाषाढमार्गफाल्गुनकार्त्तिकाः ।सुप्रशस्ता गृहारम्भे पत्नीपुत्त्रसमृद्धिदाः
शुक्लपक्षे भवेत् सौख्यं कृष्णपक्षे भवेद्भयम् ।आदित्यभौमवर्जन्तु सर्व्वे वाराः शुभावहाः
पूर्णिमाद्यष्टमीं यावत् पूर्व्वास्यं वर्जयेद् गृहम् ।उत्तरास्यं कुर्व्वीत नवम्यादिचतुर्द्दशीम्
अमावस्याष्टमीं यावत् पश्चिमास्यं विवर्जयेत् ।नवम्यादि तथा याम्यां यावच्छुक्लचतुर्द्दशीम्
वज्रव्याघातशून्ये व्यतीपातातिगण्डयोः ।विष्कुम्भगण्डयोश्चैव गृहारम्भं कारयेत्
आदित्यद्वयरोहिणी मृगशिरो ज्येष्ठा धनिष्ठो-त्तरारेवत्याथ मघानुराधहरिभिः शुद्धैः स्वभावा-दिभिः ।सौम्यानां दिवसेऽथ गण्डरहिते योगे विरिक्तेतिथौविष्टित्यक्तदिने वदन्ति मुनयो वेश्मादिकार्य्यंशुभम्
त्रिभिस्त्रिभिर्वेश्मनि कृत्तिकाद्यै-रुच्छेषपुत्त्राप्तिधनानि शोकाः ।शत्रोर्भयं राजभयञ्च मृत्युःसुखं प्रवासश्च नव प्रभेदाः
नाशं दिशन्ति मकरालिकुलीरलग्नेमेषे घटे धनुषि कार्म्मसुदीर्घसूत्रम् ।कन्याझसे मिथुनके ध्रुवमर्थलाभोज्योतिर्व्विदः कलससिंहवृषेषु वृद्धिम्
”इति युक्तिकल्पतरुः
*
तत्र प्रवेशकालः ।“ज्येष्ठापुनर्व्वसूवर्जं गृहारम्भोदितञ्च यत् ।तत् सर्व्वं चिन्तयेद्वेश्मप्रवेशे दैवचिन्तकः
हस्तापुष्यपुनर्व्वसूशतभिषाज्येष्ठास्वथो रोहिणी-रेवत्युत्तरविष्णुवातशशभृन्मूलाधनिष्ठासु ।कन्याुम्भवृषालिसिंहमिथुनस्वर्क्षोदयेऽर्के शुभे-शुक्रेज्येन्दुजशीतरश्मिदिवसे वेश्मप्रवेशः शुभः
कृत्वाग्रतो द्विजवरानथ पूर्णकुम्भंदध्यक्षताम्रदलपुष्पफलोपशोभम् ।दत्त्वा हिरण्यवसनञ्च तथा द्विजेभ्योमाङ्गल्यशान्तिनिलयं निलयं विशेत्तु
”इति समयप्रदीपः
*
(गृहकरणे समयशुद्धिरुक्ता विश्वकर्म्मप्रकाशेद्वितीयाध्याये यथा, --“चैत्रे व्याधिमवाप्नोति यो नवं कारयेद्गृहम् ।वैशाखे धनरत्नानि ज्यैष्ठे मृत्युं तथैव
आषाढे भृत्यरत्नानि पशुवर्य्यमवाप्नुयात् ।श्रावणे मित्रलाभन्तु हानिं भाद्रपदे तथा
युद्धञ्चैवाश्विने मासि कार्त्तिके धनधान्यकम् ।धनवृद्धिं मार्गशीर्ये पौषे तस्करतो भयम्
माधे चाग्निभयं विद्याल्लक्ष्मीवृद्धिञ्च फाल्गुने
”गृहसंस्थापने मेषादिराशिगतशुभाशुभं यथातत्रैव, द्वितीयाध्याये ।“गृहसंस्थापनं सूर्य्ये मेषस्थे शुभदं भवेत् ।वृषस्थे धनवृद्धिः स्यान्मिथुने मरणं भवेत्
कर्कटे शुभदं प्रोक्तं सिंहे भृत्यविवर्द्धनम् ।कन्या रोगं तुला सौख्यं वृश्चिके धनधान्यकम्
कार्म्मुके महाहानिर्मकरे स्याद्धनागमः ।कुम्भे तु रत्नलाभः स्यात् मीने स्वप्नभयावहम्
चापमीननृयुक्कन्यामासा दोषवहाः स्मृताः ।ज्यैष्ठोर्ज्जमाघसिंहाख्याः सौरमाने तु शोभनाः
मासे तपस्ये तपसि माधवे नभसि त्विषे ।ऊर्ज्जे गृहनिर्म्माणं पुत्त्रपौत्त्रधनप्रदम्
निषिद्धेष्वपि कालेषु स्वानुकृले शुभे दिने ।तृणदारुगृहारम्भे मासदोषो विद्यते
पाषाणेष्टादिगेहानि निन्द्यमासे कारयेत् ।निन्द्यमासेऽपि चन्द्रस्य मासेन शुभदं गृहम्
गोचराष्टकवर्गाभ्यां वामवेधं विचिन्तयेत् ।दशा चान्तर्दशादीनां विचारश्चात्र कर्म्मणि
गुरुशुक्रबले विप्रान् सूर्य्यभूमिजयोस्तथा ।राशिसौम्यबले सौर-वर्णानुक्रमपूर्व्वशः
गृहारम्भं प्रकुर्व्वीत वर्णनाथबले सति ।सर्व्वेषामपि वर्णानां सूर्य्यचन्द्रबलं स्मृतम्
”गृहयोग्यभूमिपरीक्षा यथा तत्रैव, मे अध्याये ।“अथातः संप्रवक्ष्यामि लोकानां हितकाम्यया ।श्वेता रक्ता तथा पीता कृष्णा वर्णानुपूर्व्वशः
सुगन्धा ब्राह्मणी भूमी रक्तगन्धा तु क्षत्त्रिणी ।मधुगन्धा भवेद्वैश्या मद्यगन्धा शूद्रिणी
मधुरा ब्राह्मणी भूमिः कषाया क्षत्त्रिया मता ।अम्ला वैश्या भवेद्भूमिस्तिक्ता शूद्रा प्रकीर्त्तिता
”अथ भूमिभेदे फलानि यथा तत्रैव ।“सुवर्णगन्धा सुरसा धनधान्यसुखावहा ।व्यत्यये व्यत्ययफला ह्यतः कार्य्यं परीक्षणम्
चतुरस्रा महाधन्या द्विपाभा धनदायिनी ।सिंहाभा सद्गुणान् पुत्त्रान् वृषाभा पशुवृद्धिदा
वृत्ता सद्वृत्तदा भूमिर्भद्रपीठनिभा तथा ।त्रिशूलरूपा वीराणामुत्पत्तिधनसौख्यदा
लिङ्गाभा लिङ्गिनां श्रेष्ठा प्रासादध्वजसन्निभा ।पदोन्नतिं प्रकुरुते कुम्भाभा धनवर्द्धिनी
त्रिकोणशकटाकारा सूर्पव्यजनसन्निभा ।क्रमेण सुखसौख्यार्थधर्म्महानिकरी स्मृता
मुरजा वंशहा सर्पमण्डूकाभा भयावहा ।नैःस्वा खरानुकारा मृत्युदाऽजगरान्विता
चिपिटा पौरुषैर्हीना मुरजाभा तथैव ।काकोलूकनिभास्तद्वत् दुःखशोकभयप्रदा
सर्पाभा पुत्त्रपौत्त्रघ्नी वंशाभा वंशहानिदा ।शूकरोष्ट्राजसदृशी धनुःपरशुरूपिणी ।कुचित्तान् मलिनान् मूर्खान् ब्रह्मघ्नान् जनयेत्सुतान्
कृकलासशवाकारां मृतपुत्त्रधनार्त्तिदाम् ।दुर्गभ्यां पापिनीं दुष्टप्रजां भूमिं परित्यजेत्
मनोरमा सुतप्रदा दृढा धनप्रदा मता ।सुतार्थदा तथाप्युदक् सुरेशदिक्प्लवा मही
”अन्यद्विवरणन्तु तत्रैव विस्तरशो द्रष्टव्यम्
*
गृहकर्म्मणि वर्ज्यकाष्ठान्याह यथा, ज्योतिषतत्त्वे ।“क्षीरिवृक्षोद्भवं दारु गृहेषु निवेशयेत् ।कृताधिवासं विहगैरनिलानलपीडितम्
गजैर्विभग्नञ्च तथा विद्युन्निर्घातपीडितम् ।चैत्यदेवालयोत्पन्नं वज्रभग्नं श्मशानजम्
देवाद्यधिष्ठितं दारुनीपनिम्बविभीतकान् ।कण्टकिनोऽसारतरून् वर्जयेद् गृहकर्म्मणि
वटाश्वत्थौ निर्गुण्डीं कोविदारांस्तथैव ।प्लक्षकं शाल्मलीञ्चैव पलाशञ्च विवर्जयेत्
*
गृह्यते निर्द्दिश्यतेऽनेन इति ।) नाम (गृह्यतेस्वीक्रियते धर्म्माचरणायासौ इति ।) कलत्रम् ।इति शब्दरत्नावली
तथा स्मृतिः ।“न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।तया हि सहितः सर्व्वान् पुरुषार्थान् समश्नुते