| YouTube Channel

गृध्रसी (gRdhrasI)

 
शब्दसागरः
English
गृध्रसी
f.
(-सी)
1. Lumbago.
2. Rheumatism, affecting the loins.
E.
गृध्र
desire, सो to destroy, and ङीप् affixes
also sometimes written
ग्रध्रसी.
Yates
English
गृध्रसी (सी) 3.
f.
Lumbago.
Spoken Sanskrit
English
गृध्रसी gRdhrasI
f.
lumbago
गृध्रसी gRdhrasI
f.
rheumatism affecting the loins
Wilson
English
गृध्रसी
f.
(-सी)
1 Lumbago.
2 Rheumatism affecting the loins.
E.
गृध desire, सो to destroy, and ङीप् affixes
also
sometimes written ग्रध्रसी.
Apte
English
गृध्रसी [gṛdhrasī], 1 Lumbago.
Rheumatism affecting the loins
Charaka 1.5, 2.
Apte 1890
English
गृध्रसी 1 Lumbago.
2 Rheumatism affecting the loins.
Monier Williams Cologne
English
गृध्र—सी
f.
(metrically also -सि) rheumatism affecting the loins,
Car.
i, 5 and 20
vi, 5 and 24
Suśr.
Monier Williams 1872
English
गृध्रसी गृध्रसी, f. lumbago
rheumatism
affecting the loins.
Shabdartha Kaustubha
Kannada
गृध्रसी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ವಾತರೋಗ
निष्पत्तिः - > षो (अन्तकर्मणि) - "कः"(३-२-३) गौरा० "ङीष् (४-१-४१)
व्युत्पत्तिः - > गृध्रमिव स्यति
प्रयोगाः - > "पार्ष्णिप्रत्यङ्गुलीनां तु कण्डरा याऽनिलार्दिता सक्थ्नः क्षेपं निगृह्णीयात् गृध्रसीति हि सा स्मृता ॥"
उल्लेखाः - > सुश्रुत० निदान० १-७४
Wordnet
Sanskrit
Synonyms:
वातरोगः, वायुरोगः, वातामयः, वातव्याधिः, वातः, वायुः, रसवातः, अनिलामयः, अनिलरोगः, अनिलः, धनुर्वातः, पटीरं, गृध्रसी
noun
रोगविशेषः- यस्मिन् सन्धिस्थाने पीडा तथा शोथः जायते।
"सः वातरोगेन पीडितः।"
शब्दकल्पद्रुमः
Sanskrit
गृध्रसी,
स्त्री,
(गृध्यति मांसमभिकाङ्क्षति सततं इतिगृध् + क्रन् गृध्रो मांसलोलुपो मनुष्यः तं स्यतिपीडयति नाशयति वा सो + कः ङीष् ।)वातरोगविशेषः तल्लक्षणं यथा, --“स्फिक्पूर्व्वोरुकटीपृष्ठजानुजङ्घापदं क्रमात् ।गृध्रसी स्तम्भरुक् तोदैर्गृह्णाति स्पन्दते मुहुः
वाताद्वातकफाभ्यां सा विज्ञेया द्विविधा पुनः ।वातजायां भवेत्तोदो देहस्यातीववक्रता
जानुजङ्घोरुसन्धीनां स्फुरणं स्तम्भता भृशम् ।वातश्लेष्मोद्भवायान्तु गौरवं वह्निमार्द्दवम्
तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव
”गृध्रसीवातात् केवलात् स्फिगादिपर्य्यन्तं स्तम्भरुक्तोदैर्गृह्णाति क्रमात् वृद्धिक्रमात् तेन यथायथा वर्द्धते तथा तथा स्फिगादीन्याक्रामतिनात्र ग्रहणे निर्द्देशक्रमनियमः तथा मुहुःस्पन्दते स्फिगादिषु शिराकम्पं करोतीत्यर्थः
*
अथ तस्याश्चिकित्सा ।“गृध्रस्यान्तु नरं सम्यक् रेकेण वमनेन वा ।ज्ञात्वा निरामं दीप्ताग्निं वस्तिभिः समुपाचरेत्
नादौ वस्तिविधिं कुर्य्याद्यावदूर्द्ध्वं शुध्यति ।स्नेहो निरर्थकः स्याद्भस्मन्येव हुतो यथा
*
तैलमेरण्डजं प्रातर्गोमूत्रेण पिबेन्नरः ।मासमेकं प्रयोगोऽयं गृध्रस्यान्तु ग्रहापहः
तैलं घृतं सार्द्रकमातुलुङ्ग-रसं सचुक्रं सगुडं पिबेद्वा ।कट्यूरुपृष्ठत्रिकशूलगुल्म-गृध्रस्युदावर्त्तहरः प्रयोगः
निष्कुष्यैरण्डबीजानि पिष्ट्वा क्षीरे विपाचयेत् ।तत्पायसं कटीशूले गृध्रस्यां परमौषधम्
एरण्डमूलं विल्वञ्च बृहंती कण्टकारिका ।कषायो रुचकोपेतः पीतो वृषणवस्तिजम्
गृध्रसीजं हरेच्छूलं चिरकालानुबन्धि
”रुचकं सौवर्च्चलम्
“गोमूत्रैरण्डतैलाभ्यां कृष्णाचूर्णं पिबेन्नरः ।दीर्घकालोत्थितां हन्ति गृध्रसीं कफवातजाम्
सिंहास्यदन्तीकृतमालकानांपिबेत् कषायं रुवु-तैलमिश्रम् ।यो गृध्रसीनष्टगतिः प्रसुप्तःस शीघ्रगः स्याद्धि किमत्र चित्रम्
बृहन्निम्बतरोः सारो वारिणा परिपेषितः ।स पीतो नाशयेत् क्षिप्रमसाध्यामपि गृध्रसीम्
शेफालिकादलैः क्वाथो मृद्वग्निपरिपाचितः ।दुर्व्वारंगृध्रसीरोगं पीतमात्रः प्रणाशयेत्
”शेफालिकानिर्गुण्डी
“रास्नायास्तु पलञ्चैकं पञ्च कर्षाणि गुग्गुलोः ।सर्पिषा वटिकां कृत्वा भक्षयेद् गृध्रसीहरीम्
”इति रास्नागुग्गुलुः
“रास्नामृतारग्वधदेवदारु-त्रिकण्टकैरण्डपुनर्न्नवानाम् ।क्वाथं पिबेन्नागरचूर्णमिश्रंजङ्घोरुपृष्ठत्रिकपार्श्वशूली
”इति रास्नासप्तकक्वाथः
१०
“पथ्याविभीतामलकीफलानांशतं क्रमेण द्विगुणाभिवृद्धम् ।प्रस्थेन युक्तञ्च पलङ्कषाणांद्रोणे जले संस्थितमेकरात्रम्
अर्द्धावशेषं क्वथितं कषायंभाण्डे पचेत्तत् पुनरेव लौहे ।अमूनि वह्नेरवतार्य्य दद्यात्द्रव्याणि संचूर्ण्य पलार्द्धकानि
विडङ्गदन्तीत्रिफलागुडूची-कृष्णात्रिवृन्नागरकोषणानि ।यथेष्टचेष्टस्य नरस्य शीघ्रंहिमाम्बुपानानि भोजनानि
निषेव्यमाणो विनिहन्ति रोगान्स गृध्रसीं नूतनखञ्जताञ्च ।प्लीहानमुग्रं जठराणि गुल्मंपाण्डुत्वकण्डूवमिवातरक्तम्
पथ्यादिको गुग्गुलुरेष नाम्नाख्यातः क्षितावप्रमितप्रभावः ।बलेन नागेन समं मनुष्यंजवेन कुर्य्यात्तुरगेण तुल्यम्
आयुःप्रकर्षं विदधाति चक्षु-र्ब्बलं तथा पुष्टिकरो विषघ्नः ।क्षतस्य सन्धानकरो विशेषा-द्रोगेषु शस्तः सकलेषु तज्ज्ञैः
”इति पथ्यादिगुग्गुलुः
११
इति भावप्रकाशः
(तथा ।“रक्तवातसमुद्भूतान् दोषान् शृणु महामते ! ।कट्यूरुजानुमध्ये तु जायते बहुवेदना ।गृध्रसीति विजानीयात् तेन नोक्तञ्च लक्षणम्
”“शतावरी बले द्वे पिप्पली पुष्कराह्वयम् ।चूर्णमेरण्डतैलेन गृध्रसीमपकर्षति
अजमोदादिकं चूर्णमामवाते प्रकीर्त्तितम् ।तदत्र योजनीयञ्च गृध्रसीनां निवारणम्
”इति हारीते चिकित्सितस्थाने त्रयोविंशेऽध्याये
“पार्ष्णिं प्रत्यङ्गुलीनां या कण्डरा मारुतार्द्दिता ।सक्थ्युत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते
”इति वाभटे निदानस्थाने पञ्चदशेऽध्याये
“पार्ष्णी प्रत्यङ्गुलीनान्तु कण्डरा यानिलार्द्दिता ।सक्थ्नोः क्षेपं निगृह्णीयाद् गृध्रसीति हि सास्मृता
”इति सुश्रुते निदानस्थाने प्रथमेऽध्याये
चिकित्सास्या यथा, --“गृध्रसीविश्वाचीक्रोष्टुकशिरःखञ्जपङ्गुलवातकण्टक-पाददाहपादहर्षावबाहुकवाधिर्य्यधमनीगतवात-रोगेषु यथोक्तं यथोद्देशञ्च शिराव्यधं कुर्य्या-दन्यत्रावबाहुकाद्वातव्याधिचिकित्सितञ्चावे-क्षेत
इति सुश्रुते चिकित्सितस्थाने मेअध्याये
)
वाचस्पत्यम्
Sanskrit
गृध्रसी स्त्री गृध्रमपि स्यति सो--क गौरा० ङीष् त० वात-रोगभेदे यथाह सुश्रुतः “पार्ष्ण्यो प्रत्यङ्गुलीनां तु स्तम्भकृत्यानिलार्द्दिता सकथ्नोः क्षेपं निगृह्णीयाद् गृध्रसीतिहि सा स्मृता” माधवकरोऽप्याह “स्फिक्पूर्वोरुकटीपृष्ठजानुजङ्घापदं क्रमात् गृध्रसीस्तम्भकृत् तोदै-र्गृह्णाति स्पन्दते मुहुः वाताद्वातः कफात्तन्द्रा गौर-वाऽरोचकान्विता” भावप्रकाशे विस्तरेणोक्तम् यथाह“स्फिक्पूर्व्वोरुकटीपृष्ठजानुजङ्घापदम् क्रमात् गृध्रं-सीस्तम्भकृत् तोदैर्गृह्णाति स्पन्दते मुहुः वाताद्वातकफाभ्यां सा विज्ञेया द्विविधा पुनः वातजायां भवे-त्तोदो देहस्यातीव वक्रता जानुजङ्घोरुसन्धीनांस्फुरणं स्तम्भता भृशम् वातश्लेष्मोद्भवायान्तु गौरबंवह्निनार्द्दवम् तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव ।गध्रसी वातात् केबलात् स्फिगादिपर्य्यन्तं स्तम्भकृत्तोदैर्गृह्णाति क्रमात् वृद्धिक्रमात् तेन यथा यथावर्द्धते तथा तथा स्फिगादीन्याक्रामति नात्र ग्रहणेनिर्द्धेशक्रमनियमः तथा सुहुः स्पन्दते स्फिगादिषुशिराकम्पं करोतीत्यर्थः”