| YouTube Channel

गूर्द्द (gUrdda)

 
शब्दकल्पद्रुमः
Sanskrit
गूर्द्द, निकेतने कूर्द्दे इति कविकल्पद्रुमः
(चुरां-परं-अकं-सेट् ।) क, गूर्द्दयति इतिदुर्गादासः
गूर्द्द, कूर्द्दे इति कविकल्पद्रुमः
(भ्वां-आत्मं-अकं-सेट् ।) ङ, गूर्द्दते इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
गु(गू)र्द्द कूर्दने
भ्वा०
आत्म० अक० सेट् गूर्दते अगू-र्द्दिष्ट जुगूर्दे लघुयुक्तस्य क्विपि गूः गुरौ गुरः ।दीर्घान्वितस्य गूः गूरौ गूर इति भेदः
गु(गू)र्द्द निवासे कूर्दने चुरा०
उभ०
अक० सेट् गु-(गू)र्दयति ते अजुगु(गू)र्दत्--त
गूर्द्द स्तुतौ
सक०
चु०
उभ०
सेट् गूर्द्दयति ते अजुगूर्द्दत् ।“गूर्द्दयतिः स्तुतिकर्म्मा” निघ० “तं गूर्दय स्वर्णरम्” ऋ०७ १९ “गूर्दय स्तुहि” भा० क्रीडार्थे गुर्द्दवत्