| YouTube Channel

गूर (gUra)

 
शब्दसागरः
English
गूर r. 10th cl. (गूरयते)
1. To strive, to endeavor to make an effort or
exertion.
2. To eat. (ई) गूरी r. 4th cl. (गूर्य्यते)
1. To hurt, to injure,
as to wound, to kill, &c.
2. To be decayed or old.
Wilson
English
गूर r. 10th cl. (गूरयते)
1 To strive, to endeavor, to make an effort or exertion.
2 To eat. (ई) गूरी r. 4th cl. (गूर्यते)
1 To hurt, to injure, as to wound, to kill, &c.
2 To be decayed or old.
धातुप्रदीपः
Sanskrit
गूरँ गूर उद्यमने
- गूरयते गूरणा 157
शब्दकल्पद्रुमः
Sanskrit
गूर, उद्यमे इति कविकल्पद्रुमः
(चुरां-आत्मं-सकं सेट् ।) दीर्घी कं, भग्नेषु नोगूरयते महोरगः इति दुर्गादासः
(तथाच कविरहस्ये ५१ ।“भग्नेषु नोद्गूरयतेऽस्त्रमाहवे-ऽयुक्तेऽपि यो नोद्गुरते स्वधर्म्मवित्
”)
गूर, वधे गत्याम् इति कविकल्पद्रुमः ।(दिवां-आत्मं-सकं-सेट् ।) दीर्घी तथा ।“दीपिपूरिजनिगरिधूरयःकाशिवाशिपदिशूरितूरयः ।घूरिजूरिखिदिविद्यतिः क्लिशि-श्चूरिशुध्यतिमनो दिवादिषु
इति रथोद्धतायां चण्डेश्वरः ।” इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
गूर उद्यमे चुरा० आत्म० अक० सेट् गूरयते अजुगुरत गूरणम्
गूर बधे गतौ दिबा० आत्म०
सक०
सेट् गूर्य्यते अगू-रिष्ट जुगूरे ईदित् गूर्णः
धातुवृत्तिः
Sanskrit
गूरँ गूर (अर्थः) उद्यमने
( गूरयते ) क्वचिदयं लघूपध ईदिच्चेह पठ्यते तदात्रेयमैत्रेयविरोधादुपेक्ष्यम् चुरादौ दीर्घोपध इति भिदावात्रेयः, दिवादौ तेनायमर्थः स्फोरितः मैत्रेयस्तु चुरादौ दीर्घोपधमनीदितं पठित्त्वा गूरयतइत्येवोदाजहार तथा दैवपुरुषकारयोरयमनीदिद्दीर्घोपधः 160
कृदन्तरूपमाला
Sanskrit
1 {@“गूर उद्यमने”@} 2 ‘गुरते गू 3 रयेतेति शे णावुद्यमने तङि।
श्यनि गूर्यत इत्येवं गतिहिंसनयोस्तङि।।’ 4 इति देवः।
केचित् ‘गुरी’ इति पठन्ति।
अन्ये तु ‘गूरी’ इति पठन्ति।
आकुस्मीयः।
5 गूरकः-रिका, जुगूरयिषकः-षिका
गूरयिता-त्री, जुगूरयिषिता-त्री
6 गूरयमाणः, जुगूरयिषमाणः
गूरयिष्यमाणः, जुगूरयिषिष्यमाणः
अपगूः-अपगुरौ-अपगुरः
-- गूरितम्-तः-तवान्, जुगूरयिषितः-तवान्
गूरः, जुगूरयिषुः
गूरयितव्यम्, जुगूरयिषितव्यम्
गूरणीयम्, जुगूरयिषणीयम्
गूर्यम्, जुगूरयिष्यम्
ईषद्गूरः-दुगूरः-सुगूरः
-- गूर्यमाणः, जुगूरयिष्यमाणः
गूरः, जुगूरयिषः
गूरयितुम्, जुगूरयिषितुम्
गूरणा, जुगूरयिषा
गूरणम्, जुगूरयिषणम्
गूरयित्वा, जुगूरयिषित्वा
निगूर्य, निजुगूरयिष्य
गूरम् २। गूरयित्वा २, जुगूरयिषम्
जुगूरयिषित्वा २। 7
प्रासङ्गिक्यः
01
=>
(४१८)
02
=>
(१०-चुरादिः-१६९५। अक। सेट्। आत्म।)
03
=>
(गु)
04
=>
(श्लो। १५२)
05
=>
[[१। अस्य धातोश्चुरांदिपाठात् ण्यन्तादेव रूपाणि। अनेकाच्त्वात् यङ् न।]]
06
=>
[[२। ‘आ कुस्मादात्मनेपदिनः’ (ग। सू। चुरादौ) इति वचनात् ण्यन्ताच्छानजेव।]]
07
=>
[पृष्ठम्०४०९+ २७]