| YouTube Channel

गूढोत्पन्नः (gUDhotpannaH)

 
शब्दकल्पद्रुमः
Sanskrit
गूढोत्पन्नः,
पुं,
(गूढं अन्यैरविज्ञातं यथा स्यात्तथा उत्पन्नो जातः ।) द्वादशविधपुत्त्रमध्येपुत्त्रविशेषः यथा, मनुः १७० ।“उत्पद्यते गृहे यस्य ज्ञायेत कस्य सः ।स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः
”अस्यार्थः “यस्य गृहेऽवस्थितायां भार्य्यायां पुत्त्रउत्पद्यते सजातीयोऽयं भवतीति ज्ञानेऽपिकस्मात् पुरुषविशेषाज्जातोऽसाविति ज्ञायतेस गृहे अप्रकाशमुत्पन्नस्तस्य पुत्त्रः स्यात् यदी-यायां भार्य्यायां जातः ।” इति कुल्लूकभट्टः
(अयं हि बन्धुदायहारी यथाह मनुः १५९ ।“औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव ।गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट्
”)