| YouTube Channel

गुह्यकः (guhyakaH)

 
Apte
English
गुह्यकः [guhyakḥ], 1
N.
of a class of demigods, who, like the Yakṣas, are attendants of Kubera and guardians of his treasures
गुह्यकस्तं ययाचे
Me.*
5
Ms.*
12.47.
The number 'eleven'.
Comp.
-अधिपतिः, -ईश्वरः an epithet of Kubera.
Apte 1890
English
गुह्यकः N. of a class of demigods, who, like the Yakṣas, are attendants of Kubera and guardians of his treasures
गुह्यकस्तं ययाचे Me. 5, Ms. 12. 47.
Comp.
अधिपतिः
ईश्वरः an epithet of Kubera.
Apte Hindi
Hindi
गुह्यकः
पुं*
- गुह्यं गोपनीयं कं सुखं येषाम् - ब* स*
यक्ष जैसी एक अर्धदेवों की श्रेणी जो कुबेर के सेवक तथा उसके कोष के संरक्षक हैं
वैजयन्तीकोषः
Sanskrit
Word: गुह्यकः
Root: गुह्यक
Gender: पुं
Number: all
अर्थः कुबेरानुचरः निधिरक्षकः माणिभद्रादियक्षभेदः
Meaning(s):
Name of a lower deity
Shloka(s):
1|3|3|2 गुह्यका माणिचरयस्तथा देवजनाः सुताः॥ (स्वर्गकाण्डः/यक्षाद्यध्यायः)
Synonym(s):
1|3|3|2 गुह्यकः (गुह्यक) (पुं) Name of a lower deity कुबेरानुचरः निधिरक्षकः माणिभद्रादियक्षभेदः
1|3|3|2 माणिचरिः (माणिचरि) (पुं) Epithet of Guhyaka कुबेरानुचरः निधिरक्षकः माणिभद्रादियक्षभेदः
1|3|3|2 देवजनः (देवजन) (पुं) Epithet of Guhyaka कुबेरानुचरः निधिरक्षकः माणिभद्रादियक्षभेदः
1|3|3|2 सुतः (सुत) (पुं) Epithet of Guhyaka कुबेरानुचरः निधिरक्षकः माणिभद्रादियक्षभेदः
Related word(s):
परा_अपरासंबन्धः देवयोनिः
जातिः देवयोनिः
शब्दकल्पद्रुमः
Sanskrit
गुह्यकः,
पुं,
(गूहति निधिं धनविशेषं रक्षतीति ।गुह् + ण्वुल् पृषोदरादित्वाद्यगागमे साधुः ।)देवयोनिविशेषः तु कुवेरानुचरः निधि-रक्षको माणिभद्रादियक्षभेदः इत्यमरभरतौ
(कार्य्योत्पत्त्यादिभेदेनैष तु बहुधोदाह्रियतेतथाच व्याडिनोक्तम् ।“निधिं रक्षन्ति ये यक्षास्ते स्युर्गुह्यकसंज्ञकाः
”गुह्यं कुत्सितं कायति शब्दायते प्रकाशयतिवा कै + कः यद्वा गुह्यं गोप्यं कं सुखं यस्य ।“शंसिदुहिगुहिभ्योवेति” काशिकोक्तेः क्यप् वा ।यद्वा गुह्यात् सृष्टिं चिकीर्षोः परब्रह्मणः कृष्णस्यगुह्यदेशात् कायति आविर्भवतीति यदुक्तंब्रह्मवैवर्त्ते ब्रह्मस्वण्डे ६० ।“आविर्ब्बभूव कृष्णस्य गुह्यदेशात्ततः परम् ।पिङ्गलश्च पुमानेकः पिङ्गलैश्च गणैः सह ।आविर्भूता यतो गुह्यात् तेन ते गुह्यकाः स्मृताः
”यथा, महाभारते १० ।“तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः ।सिद्धचारणगन्धर्व्वा यक्षगुह्यकपन्नगाः
”)तस्य लोकः पिशाचलोकादूर्द्ध्वं गन्धर्व्वलोकादधः ।येन येन कर्म्मणा एतल्लोकप्राप्तिस्तदुच्यते ।“ततो गच्छन्ददर्शाग्रे हृष्टपुष्टजनैर्वृतम् ।पित्तिण्डिलैः स्थूलवक्रैर्मेघगम्भीरनिस्वनैः
लोकैरध्युषितं लोकं श्यामलाङ्गैश्च लोमशैः ।गणौ कथयतं केऽमी को लोकः पुण्यतः कृतः
गणावूचतुः ।गुह्यकानामयं लोकस्त्वेते वै गुह्यकाः स्मृताः ।न्यायेनोपार्ज्य वित्तानि गूहयन्ति ये भुवि
स्वमार्गगा धनाढ्याश्च शूद्रप्रायाः कुटुम्बिनः ।संविभज्य भोक्तारः क्रोधासूयाविवर्ज्जिताः
तिथिं नैव वारञ्च संक्रान्त्यादि पर्व्व ।नाधर्म्मञ्च धर्म्मञ्च विदन्त्येते सदासुखाः
एकमेव हि जानन्ति कुलपूज्यो हि यो द्विजः ।तस्मै गाः संप्रयच्छन्ति मन्यन्ते तद्वचः स्फुटम्
समृद्धिभाजो ह्यत्रापि तेन पुण्येन गुह्यकाः ।भुञ्जते स्वर्गसौख्यानि देवत्वमकुतोभयाः
”इति काशीखण्डे शिवशर्म्मणो वैकुण्ठलोकगमनेविष्णुगणसंवादः
(पक्वान्नविशेषः तस्यपाकप्रकारो यथा, शब्दार्थचिन्तामणिधृतपाक-शास्त्र ।“समितां सर्पिषा भृष्टां सिताद्राक्षादिसम्भृताम् ।एला लवङ्गकर्पूरमरीचपरिवासिताम्
क्षिप्त्वान्यसमितालम्बपुटे वेष्ट्य घृते पचेत् ।ततः खण्डे न्यसेत् पक्वे गुह्यकोऽयमुदाहृतः
”अस्य गुणास्तत्रैव यथा, --“गुह्यको बृंहणो हृद्यो वृष्यः पित्तानिलापहः ।मधुरोऽतिगुरुः पाके किञ्चित् सन्धानकृत् सरः
”)