| YouTube Channel

गुहू (guhU)

 
Shabdartha Kaustubha
Kannada
गुहू - संवरणे (भ्वा० उभ० सक० वे०) गूहति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಮುಚ್ಚು /ಮರೆಮಾಡು
प्रयोगाः - > "गुहिष्यामि क्षितिं कृत्तैरद्य गात्रैर्वनौकसाम्"
उल्लेखाः - > भट्टि० १६-४१
गुहू - संवरणे (भ्वा० उभ० सक० वे०) गूहति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ರಹಸ್ಯವಾಗಿಡು /ಮರೆಮಾಡು
प्रयोगाः - > "आकारो गूहितुं शक्यः"
उल्लेखाः - > भा०
गुहू - संवरणे (भ्वा० उभ० सक० वे०) गूहति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ರಕ್ಷಿಸು /ಕಾಪಾಡು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
गुह्
मूलधातुः:
गुहू
धात्वर्थः:
संवरणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
वेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
गूहति
अनुबन्धादिविशेषः:
ऊदित्
धातुप्रदीपः
Sanskrit
गुहूँ गुहू संवरणे
- गूहति गूहते निगूहिता निगोढा घोक्ष्यति घोक्ष्यते गूहिष्यति गूहिष्यते अगूहीत् अघुक्षत् अगूहिष्ट अघुक्षत अगूढ अगूढाः अघुक्षथाः अघूढ्वम् अघुक्षध्वम् अगुह्वहि अघुक्षावहि लुग् वा (7/3/73) इत्यादिना क्सस्य लुक् सन् जुघुक्षति गुह्यम् गोह्यम् काकगूहास्तिलाः गुहः गूढः गूढिः गूहिमम् गुहा ।। 900 ।।
क्षीरतरङ्गिणी
Sanskrit
गुहूँ गुहू संवरण
- ऊदुपधाया गोहः (6489) गूहते, गूहति, अघुक्षत् तङि तु लुग् वा दुहदिहलिहगुह (7 373) इत्यगूढ अघुक्षत सनि ग्रहगहोश्च (7218) इति नेट् जुघुक्षति चङि ह्रस्वो नेष्यते-अजुगूहत् गूढा, गूहिता गूढः भिदादौ (गण0 33104) गुहा गिर्योषध्योः के (द्र0 31135) गुहः शंसिदुहिगुहिभ्यः क्यब्वा (31109 वा0) गुह्यम्, गूह् यम् उणादौ गह्वरः (द्र0 उ0 31) गुहेर्गहिः गहनम् 866
धातुवृत्तिः
Sanskrit
गुहूँ गुहू (अर्थः) संवरणे
( गूइति जुगृह ) "ऊदुपधाया गोहः'' इति अजादौ प्रत्यये ऊकारः "गोह' इति विकृतनिर्देशात् गुणविषय एव, तेन जुगुहतुरित्यदौ भवति ( गूहिता ) ऊदित्त्वादनिट्पक्षे धत्वइत्वष्टुत्वढलोपगुणेषु ( गाढा ) ढत्वादेरसिद्धत्वात्पूर्वमेव गुण इति ढलोपदीर्घप्रसङ्ग ( गुहिष्यति धोक्ष्यति ) ढत्वभष्भावयोः "षढोः कः सि'' इति कत्वम् गूहतु अगूहत् गूहेत् आशिषि गुह्मात् ) अगुणविषयत्वादनजादित्वाच् उत्वं भवति ( अगहीत् ) इडभावे "शल इगुपधा'' इति क्सढत्वभष्भष्भावेषु ) अघुक्षत् गूहते जुगृहे गृहितासे गोढासे गूहिष्यते घोक्ष्यते घोक्ष्यते गूहताम् अगुहत गूहत आशिषि गूहिषीष्ट ) इढभावे "लिङ्सिर्चो''इति कित्त्वा द्वक्ष्गूणः तत एव गोहिरूपाप्रसङ्गात् अजादित्त्वाभावाच्चोत्वं भवति ( घुक्षीष्टेति अगूहिष्ट ) इडभावे ( सूत्रम्) लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये (इति सूत्रम्) इति दत्यादावत्मनेपदे पक्षे लुक्, धत्वष्टुत्वढलापदीघेषु ( अगूड अगूढाः ) अत्र ताविति वक्तव्ये दन्त्यग्रहणस्य दन्त्योष्ठ्यस्यापि परिग्रहार्थत्वात् ( अगुहहि ) इत्यत्रापि लुग्भवति अलुक्पक्षे ढत्वभष्भावकत्वेषु ( अघुक्षत्, अघुक्षातामित्यादि ) "क्सस्याचि'' इत्यजादावल्लोषः कर्मकाण्येकवचने चिणि ( अगूहि ) अन्यत्र पूर्ववत् सनि "सनि ग्रहगुहोश्च'' इति इण्निषेधे "इलन्ताच्च'' इति कित्त्वढत्वादौ ( जुघुक्षति जोगुद्यते जोगुहीति )"नाभ्यस्तस्य'' इति गुणनिषेधादूत्वाभावः ( जोगोढि ) अनजादित्वादूत्वाभावः ( गूहयिति अजुगूहत्) ऊदिति तपरकरणात् णौ चङ्युपधाह्रस्वत्वं बाध्यते इति केचिदाहुः एतद्भाष्वार्त्तिकादौ दृश्यते अपरे तु ब्रुवते निगुह्म गत इतृयत्र "ल्यपि लघुपुर्वात्''इति णेरयादेशे कर्त्तव्ये "असिद्धवदत्रा'' इत्यूत्वस्यासिद्धत्वनिवृत्त्यर्थमिति नैतद्युक्तम् व्याश्रयतृवेनासिद्धत्वाप्रसङ्गात् ल्यपि णेरयादेशः, ऊत्वगुणावुपधायाः ( गुह्मं, ) [ शंसिदुहिगुहिभ्यो वा ] इति वक्तव्ये क्यपि मिप् तदभावे ण्यति गोह्मं, काकेभ्यो गुह्मतेत्रानयेतिवा ( गुहा ) गिर्योषध्योरित्यङ् ( गूढिरन्यत्र गूहित्वा गूढवा गूढः) हिक्कादय उदात्ताः स्वरितेतः 880
कृदन्तरूपमाला
Sanskrit
1 {@“गुहू संवरणे”@} 2 3 गूहकः-हिका, गूहकः-हिका, 4 जुघुक्षकः-क्षिका, 5 जोगुहकः-हिका
6 गूहिता-त्री, गोढा-ढ्री, गूहयिता-त्री, जुघुक्षिता-त्री, जोगुहिता-त्री
गूहन्-न्ती, गूहयन्-न्ती, जुघुक्षन्-न्ती, -- गूहिष्यन्- 7 घोक्ष्यन्-न्ती-ती, गूहयिष्यन्-न्ती-ती, जुघुक्षिष्यन्-न्ती-ती
-- 8 गूहमानः, गूहयमानः, जुघुक्षमाणः, जोगुह्यमानः
गूहिष्यमाणः-घोक्ष्यमाणः, गूहयिष्यमाणः, जुघुक्षिष्यमाणः, जोगुहिष्यमाणः
9 सङ्घुट्-संङ्घुड्-संगुहौ-संगुहः
-- -- -- 10 11 गूढम्-गूढः-गूढवान्, गूहितः, जुघुक्षितः, जोगुहितः-तवान्
गुहः, 12 काकगुहाः 13, निगूही, 14 गूहः, 15 संजुघुक्षः, जोगुहः
गूहितव्यम्-गोढव्यम्, गूहयितव्यम्, जुघुक्षितव्यम्, जोगुहितव्यम्
गूहनीयम्, गूहनीयम्, जुघुक्षणीयम्, जोगुहनीयम्
16 गुह्यम्-गूह्यम्, गूह्यम्, जुघुक्ष्यम्, जोगुह्यम्
ईषद्गूहः-दुर्गूहः-सुगूहः
-- -- -- गूह्यमानः, निगूह्यमानः, जुघुक्ष्यमाणः, जोगुह्यमानः
गूहः, गूहः, जुघुक्षः, जोगुहः
गूहितुम्-गोढुम्, गूहयितुम्, जुघुक्षितुम्, जोगुहितुम्
17 गुहा-गूढिः, गूहना, जुघुक्षा, जोगुहा
गूहनम्, गूहनम्, जुघुक्षणम्, जोगुहनम्
18 गूहित्वा-गूढ्वा, गूहयित्वा, जुघुक्षित्वा, जोगुहित्वा
विगुह्य, विगूह्य, प्रजुघुक्ष्य, प्रजोगुह्य
गूहम् २, गूहित्वा २, गूढ्वा २, गूहम् २, गूहयित्वा २, जुघुक्षम् २, जुघुक्षित्वा २, जोगुहम्
जोगुहित्वा २। 19
प्रासङ्गिक्यः
01
=>
(४१७)
02
=>
(१-भ्वादिः-८९६। सक। सेट्। उभ।)
03
=>
[[२। ‘ऊदुपधाया गोहः’ (६-४-८९) इति गुणहेतावजादौ प्रत्यये परतः सर्वत्र उपधाया ऊकारो भवति। एवं ण्यन्तेऽपि।]]
04
=>
[[३। ‘सनि प्रहगुहोश्च’ (७-२-१२) इति इण्णिषेधः। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वम्, ढत्वम्, भष्भावश्च। ‘षढोः कः सि’ (८-२-४१) इति कत्वम्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
05
=>
[[४। यङन्ते द्वित्वे, अभ्यासस्य गुणे, यङवयवस्याकारस्यातोलोपे, ‘यस्य हलः’ (६-४-४९) इति लोपे रूपम्। अल्लोपस्य स्थानिवद्भावाद्यङन्ते लघूपधगुणः सर्वत्र न।]]
06
=>
[[५। ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति इड्विकल्पः। इडभावपक्षे, लघूपधगुणे, ढत्व-धत्व-ष्टुत्व-ढलोपदीर्घाः।]]
07
=>
[[६। इडभावपक्षे-गुणे-ढत्व-भष्भाव-कत्वेषु रूपम्।]]
08
=>
[[B। ‘गूहमानः स्वमाहात्म्यमटित्वा मन्त्रिसंसदः। नृभ्योऽपवदमानस्य रावणस्य गृहं ययौ।।’ भ। का। ८। ४५।]]
09
=>
[[७। ढत्वे पदान्तनिमित्तकः भष्भावः। जश्त्वे चर्त्वविकल्पः।]]
10
=>
[पृष्ठम्०४०७+ २५]
11
=>
[[१। ऊदित्त्वेनेड्विकल्पात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः। ढत्व- धत्व-ष्टुत्ब-ढलोपेषु कृतेषु ‘ढ्रलोपे पूर्वस्य--’ (६-३-१११) इति दीर्घः।]]
12
=>
[[२। काकेभ्यो गुह्यन्ते इति कर्मणि ‘मूलविभुजादिभ्यः--’ (वा। ३-२-५) इति क- प्रत्ययः।]]
13
=>
[तिलाः]
14
=>
[[३। ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिः।]]
15
=>
[[आ। संजुघुक्षव आयूंषि ततः प्रतिरुरूषवः। रावणान्तिकमाजग्मुः हतशेषा निशाचराः।।’ भ। का। ९। १४।]]
16
=>
[[४। ‘शंसिदुहिगुहिभ्यो वा’ (वा। ३-१-१०९) इति क्यपि रूपम्। क्यपो वैकल्पिकत्वात् पक्षे ण्यति गूह्यम् इति रूपम्। ण्यति-गोह्यम् इति काशिका-माधव- धातुघृत्तिप्रभृतिषु रूपं प्रदर्शितम्। ‘ऊदुपधाया गोहः’ (६-४-८९) इत्यत्राजादौ प्रत्यय एव ऊकारविधानात् तदेव साध्विति प्रतीयते।]]
17
=>
[[५। ‘गुहा गिर्योषध्योः’ (ग। सू। ३-३-१०४) इति भिदादिपाठात् अङ्। अन्यत्र गूडिः इति।]]
18
=>
[[६। ‘इदपक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गूहित्वा इति एकमेव रूपम्।]]
19
=>
[पृष्ठम्०४०८+ २३]