| YouTube Channel

गुहषष्ठी (guhaSaSThI)

 
Spoken Sanskrit
English
गुहषष्ठी guhaSaSThI
f.
6th day in the light half of mArgazIrSa
Monier Williams Cologne
English
गुह—षष्ठी
f.
the 6th day in the light half of Mārgaśīrṣa.
Shabdartha Kaustubha
Kannada
गुहषष्ठी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸ್ಕಂದಷಷ್ಠಿ /ಮಾರ್ಗಶೀರ್ಷಮಾಸದ ಶುಕ್ಲಷಷ್ಠಿ
Wordnet
Sanskrit
Synonyms:
गुहषष्ठी
noun
मार्गशीर्षमासीया शुक्लषष्ठी।
"गुहषष्ठ्यां कार्तिकेयः जातः इति मन्यते।"
शब्दकल्पद्रुमः
Sanskrit
गुहषष्ठी,
स्त्री,
(गुहस्य कार्त्तिकेयस्य प्रिया याषष्ठी तस्य जन्मतिथित्वात्तथात्वम् ।) मार्ग-शीर्षमासीयशुक्लषष्ठी यथा, भविष्ये ।“येयं मार्गशिरे मासि षष्ठी भरतसत्तम् ! ।पुण्या पापहरा धन्या शिवा शान्ता गुहप्रिया
”शुष्केयं गुहषष्ठी इति तिथ्यादितत्त्वम्
वाचस्पत्यम्
Sanskrit
गुहषष्ठी स्त्री गुहप्रिया षष्ठी तज्जन्मदिनत्वात् शाक०त० “येयं मार्गशिरे मासि षष्ठी भरतसत्तम! ।पुण्या पापहरा धन्या शिवा शान्ता गुहप्रिया” ति०त० भविष्योक्ते मार्गशुक्लषष्ठीतिथौ इयं वारभेदादि-योगेन चम्पेति कीर्त्त्यते यथाह नि० सि० ब्रह्मा०
पु०
“मार्गे भाद्रपदे शुक्ला षष्ठी वैधृतिसंयुता रविवारेणसंयुक्ता सा चम्पेतीह कीर्त्तिता” “विशाखाभौम-योगेन सा चम्पेतीह कीर्त्त्यते” इति मदनरत्ने पाठः ।गुहस्य षष्ठ्यां कृतार्थतोक्ता भा० व० २२४ अ० “तस्मिन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा तत् स्कन्नं तेज-सा तत्र संवृतं जनयत् सुतम्” इत्युपक्रमे “द्वितीया-यामिति व्यक्तस्तृतीयायां शिशुर्बभौ अङ्गप्रत्यङ्गसम्भूत-श्चतुर्थ्यामभवद्गुहः” इत्युक्त्वा २२८ अ० “तदा तदाश्रया-ल्लक्ष्मीः स्वयं देवी शरीरिणाम् श्रीजुष्टं पञ्चमींस्कन्दस्तस्मात् श्रीपञ्चमी स्मृता षष्ठीं कृतार्थोऽभूद्यस्मात् तस्मात् षष्ठी महातिथिः” उक्तम् इयमेव स्कन्दषष्ठीति नि० सि० उक्तम् ति० त० तु चैत्रशुक्लषष्ठ्याएव स्कन्दषष्ठीत्वं व्यवस्थापितं तच्च स्कन्दषष्ठीशब्देवक्ष्यते देशभेदाद्व्यवस्था