| YouTube Channel

गुल्मः (gulmaH)

 
Apte
English
गुल्मः [gulmḥ] ल्मम् [lmam], ल्मम् [गुड् मक् डस्य लः Tv.]
A clump or cluster of trees, a thicket, wood, bush
विशालगुल्मं प्ररुज- न्वनस्पतीन्
Bhāg.*
8.2.2
Ms.*
1.48
7.192
12.58
Y.*
2.229.
A troop of soldiers
i. e. three सेनामुखs
cf.
Mb.
* 1.2.2
a division of an army, consisting of 45 foot, 27 horse, 9 chariots and 9 elephants (according to राजधर्मकाण्ड of कृत्यकल्पतरु of लक्ष्मीधर
cf.
also दण्डविवेक, G. O.
S.*
52, p.31).
A fort, entrenchment
मध्यमेन गुल्मेन रक्षिभिः सा सुरक्षिता,
Mb.
* 3.15.11.
The spleen.
A chronic enlargement of the spleen.
A village police-station.
A wharf of stairs (Mar. घाट).
Disciplining an army, keeping it in a posture of defence.
War-camp
तथैव गुल्मे संप्रेक्ष्य शयानान्मध्यगौल्मिकान्
Mb.
* 1.8.41.
A tent
Mb.
* 6.86.54.
ल्मी A cluster or clump of trees.
Jujube.
Small cardamoms.
A tent.
Comp.
-कुष्ठम्
a.
kind of leprosy. -केतुः a small sort of cane, sorrel. -केश
a.
having bushy hair. -मूलम् fresh ginger. -वातः, -उदरः a disease of the spleen.
Apte 1890
English
गुल्मः,
ल्मं [गुड् मक् डस्य लः Tv.] 1 A clump or cluster of trees, a thicket, wood, bush
Ms. 1. 48
7. 192
12. 58
Y. 2. 229.
2 A troop of soldiers, a division of an army, consisting of 45 foot, 27 horse, 9 chariots and 9 elephants.
3 A fort.
4 The spleen.
5 A chronic enlargement of the spleen.
6 A village police-station.
7 A wharf of stairs (Mar. घांट).
8 Disciplining an army, keeping it in a posture of defence.
ल्मी 1 A cluster or clump of trees.
2 Jujube.
3 Small cardamoms.
4 A tent.
Comp.
केतुः a small sort of cane, sorrel.
केश a. having bushy hair.
मूलं fresh ginger.
वातः,
उदरः a disease of the spleen.
Apte Hindi
Hindi
गुल्मः
पुं*
- गुड् - मक्
"वृक्षों का झुंड, झुरमुट, वन, झाड़ी"
गुल्मः
पुं*
- -
सिपाहियों का दल
गुल्मः
पुं*
- -
दुर्ग
गुल्मः
पुं*
- -
तिल्ली
गुल्मः
पुं*
- -
तिल्ली का बढ़ जाना
गुल्मः
पुं*
- -
गाँव की पुलिस चौकी
गुल्मः
पुं*
- -
घाट
गुल्मः
पुं*
- "गुड्+मक्, डस्य लः"
युद्धशिविर
गुल्मः
पुं*
- "गुड्+मक्, डस्य लः"
सैनिक-तंबू
Wordnet
Sanskrit
Synonyms:
गुल्मः
noun
उदरजरोगविशेषः।
"गुल्मेन पीड्यते सीता।"
Synonyms:
पिण्डः, गुटिका, गुल्मः
noun
कोऽपि घनीभूतः द्रवः।
"दुर्घटनायाः स्थले स्थाने स्थाने रुधिरस्य पिण्डाः सन्ति।"
Synonyms:
समुदायः, सङ्घः, समूहः, सङ्घातः, समवायः, सञ्चयः, गणः, गुल्मः, गुच्छः, गुच्छकः, गुत्सः, स्तवकः, ओघः, वृन्दः, निवहः, व्यूहः, सन्दोहः, विसरः, व्रजः, स्तोमः, निकरः, वातः, वारः, संघातः, समुदयः, चयः, संहतिः, वृन्दम्, निकुरम्बम्, कदम्बकम्, पूगः, सन्नयः, स्कन्धः, निचयः, जालम्, अग्रम्, पचलम्, काण्डम्, मण्डलम्, चक्रम्, विस्तरः, उत्कारः, समुच्चयः, आकरः, प्रकरः, संघः, प्रचयः, जातम्
noun
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
"अस्मिन् समुदाये नैकाः महिलाः सन्ति।"
Synonyms:
झटि, जङ्गलः, गुल्मः, झाटः, झाटम्, झुण्टः
noun
क्षुद्रवृक्षाणां क्षुपाणां समूहः।
"चित्रकः झटौ गूहति।"
शब्दकल्पद्रुमः
Sanskrit
गुल्मः,
पुं,
(गुडति वेष्टयति गुड्यते वेष्ट्यते वा, गुड +करणे बाहुलकात् मक् डलयोरैक्यात् डस्यलत्वेसाधुः ।) उदरजरोगविशेषः तस्य निदानादि ।“दुष्टा वातादयोऽत्यर्थं मिथ्याहारविहारतः ।कुर्व्वन्ति पञ्चधा गुल्मं कोष्ठान्तर्ग्रन्थिरूपिणम्
*तस्य पञ्चविधं स्थानं पार्श्वे हृ न्नाभिवस्तयः ।हृन्नाभ्योरन्तरे ग्रन्थिः सञ्चारी यदि वाचलः
वृत्तश्चयापचयवान् गुल्म इति कीर्त्तितः ।स व्यस्तैर्जायते दोषैः समस्तैरपि चीच्छ्रितैः
पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः
*तस्य पूर्व्वरूपं यथा, --“उद्गारबाहुल्यपुरीषबन्ध-तृप्त्यक्षमत्वान्त्रविकूजनानि ।आटोपआध्मानमपक्तिशक्ति-रासन्नगुल्मस्य वदन्ति लिङ्गम्
*
तस्य सामान्यरूपम् ।“अरुचिः कृच्छ्रविण्मूत्रवाततान्त्रविकूजनम् ।आनाहश्चोर्द्ध्ववातश्च सर्व्वगुल्मेषु लक्षयेत्
*
वातिकस्य निदानं यथा, --“रूक्षान्नपानं विषमातिमात्रंविचेष्टनं वेगविनिग्रहश्च ।शोकोऽभिघातोऽतिमलक्षयश्चनिरन्नता चानिलगुल्महेतुः
*
वातिकस्य रूपम् यथा, --“यः स्थानसंस्थानरुजा विकल्पंविड्वातसङ्गं गलवक्त्रशोषम् ।श्यावारुणत्वं शिशिरज्वरञ्चहृत्कुक्षिपार्श्वां सशिरोरुजञ्च
करोति जीर्णेऽभ्यधिकं प्रकोपंभुक्ते मृदुत्वं समुपैति यश्च ।वातात् गुल्मो तत्र रूक्षंकषायतिक्तं कटु चोपशेते
*
पैत्तिकस्य निदानं यथा, --“कट्वम्लतीक्ष्णोष्णविदाहिरूक्ष-क्रोधातिमद्यार्कहुताशसेवा ।आमाभिघातो रुधिरञ्च दुष्टंपैत्तस्य गुल्मस्य निमित्तमुक्तम्
*
पैत्तिकस्य रूपं यथा, --“ज्वरः पिपासा वदनाङ्गरागःशूलं महज्जीर्य्यति भोजने ।स्वेदो विदाहो व्रणवच्च गुल्मःस्पर्शासहः पैत्तिकगुल्मरूपम्
*
श्लैष्मिकस्य निदानम् ।“शीतं गुरु स्निग्धमचेष्टनञ्चसंपूरणं प्रस्वपनं दिवा ।गुल्मस्य हेतुः कफसम्भवस्यसर्व्वस्तु दुष्टो निचयात्मकस्य
*
श्लैष्मिकस्य रूपम् ।“स्तैमित्यशीतज्वरगात्रसाद-हृल्लासकासारुचिगौरवाणि ।शैत्यं रुगल्पा कठिनोन्नतत्वंगुल्मस्य रूपाणि कफात्मकस्य
*
द्वन्द्वजस्य रूपं यथा, --“निमित्तलिङ्गान्युपलभ्य गुल्मेद्विदोषजे दोषबलाबलञ्च ।व्यामिश्रलिङ्गानपरांश्च गुल्मां-स्त्रीनादिशेदौषधकल्पनार्थम्
*
त्रिदोषजस्य रूपं यथा, --“महारुजं दाहपरीतमश्मवद्घनोन्नतं शीघ्रविदाहिदारुणम् ।मनःशरीराग्निबलापहारिणंत्रिदोषजं गुल्ममसाध्यमादिशेत्
*
अथ स्त्रीणां रक्तजगुल्मनिदानं यथा, --“नवप्रसूताहितंभोजना याया चामगर्भं विसृजेदृतौ वा ।वायुर्हि तस्याः परिगृह्य रक्तंकरोति गुल्मं सरुजं सदाहम्
*
स्त्रीणां रक्तजगुल्भलक्षणं यथा, --“पैत्तस्य लिङ्गेन समानलिङ्गंविशेषणञ्चाप्यपरं निबोध ।यः स्पन्दते पिण्डित एव नाङ्गै-श्चिरात् सशूलः समगर्भलिङ्गः
सरौधिरः स्त्रीभव एव गुल्मोमासे व्यतीते दशमे चिकित्स्यः ।स्त्रीणामार्त्तवजो गुल्मो पुंसामुपजायते ।अन्यस्त्वसृग्भवो गुल्मः स्त्रीणां पुंसाञ्च जायते
अथासाध्यलक्षणं यथा, --सञ्चितः क्रमशो गुल्मो महावास्तुपरिग्रहः ।कृतमूलः शिरानद्धो यदा कूर्म्म इवोन्नतः
दौर्व्वल्यारुचिहृल्लासकासच्छर्द्यरतिज्वरैः ।तृष्णातन्द्राप्रतिश्यायैर्युज्यते सिध्यति
गृहीत्वा सज्वरं श्वासच्छर्द्यतीसारपीडितम् ।हृन्नाभिहस्तपादेषु शोथः कर्षति गुल्मिनम्
श्वासः शूलं पिपासान्नविद्वेषो ग्रन्थिमूढता ।जायते दुर्ब्बलत्वञ्च गुल्मिनो मरणाय वै
”इति माधवकरः
*
तच्चिकित्सा यथा, --“वातारितैलेन पयोयुतेनपथ्यासमेतेन विरेचनं हि ।संस्वेदनं स्निग्धमतिप्रशस्तंप्रभञ्जनक्रोधकृते तु गुल्मे
स्वर्ज्जिकाकुष्ठसहितः क्षारः केतकसम्भवः ।पीतस्तैलेन शमयेद्गुल्मं पवनसम्भवम्
तित्तिरांश्च मयूरांश्च कुक्कुटान् क्रौञ्चवर्त्तकान् ।सर्पिः शालिं प्रसन्नाञ्च वातगुल्मे प्रयोजयेत्
*
पित्तगुल्मे त्रिवृच्चूर्णं पातव्यं त्रिफलाम्बुना ।विरेकाय सितायुक्तं कम्पिल्लं वा समाक्षिकम्
”त्रिफलाम्बुना त्रिफलाक्वाथेन कम्पिल्लं कम्बिलाइति लोके ।“अभयां द्राक्षया खादेत् पित्तगुल्मी गुडेन वा *योगैश्च वातगुल्मोक्तैः श्लेष्मगुल्ममुपाचरेत्
अपरैश्च वलासघ्नैर्युक्तियुक्तैः शमं नयेत्
*
हिङ्गुग्रन्थिकधान्यजीरकवचाचव्याग्निपाठाशटी-वृक्षाम्लं लवणत्रयं त्रिकटुकं क्षारद्बयं दाडिमम् ।पथ्यापौष्करवेतसाम्लहवुषाजाज्यस्तदेभिः कृतंचूर्णं भावितमेतदार्द्रकरसैः स्याद्बीजपूरद्रवैः
गुल्माध्मानगुदाङ्कुरान् ग्रहणिकोदावर्त्तसंज्ञौ गद्प्रत्याध्मानगरोदराश्मरियुतांस्तूनीद्बयारोच-कान् ।ऊरुस्तम्भमतिभ्रमञ्च मनसा बाधिर्य्यमष्ठीलिकांप्रत्यष्ठीलिकया सहापहरते प्राक्पीतमुष्णा-म्बुना
हृत्कुक्षिवंक्षणकटीजठरान्तरेषुवस्तिस्तनांशफलकेषु पार्श्वयोश्च ।शूलानि नाशयति वातवलासजानिहिङ्ग्वाद्यमाद्यमिदमाश्विनसंहितोक्तम्
”हिङ्ग्वादिचूर्णम्
*
“धीमानुपचरेद्गुल्मं प्रत्येकञ्च त्रिदोषजम् ।सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः
शरपुङ्खस्य लवणं पथ्याचूर्णं समं द्वयम् ।शाणप्रमाणमश्नीयाच्चूर्णं गुल्मगदापहम्
स्वर्ज्जिका शाणमाना स्यात्तावदेव गुडं भवेत् ।उभयोर्व्वटिकां खादेद्गुल्मामयविनाशिनीम्
*पलाशवज्रीशिखरिचिञ्चार्कतिलनालजाः ।यवजः स्वर्ज्जिका चेति क्षारा अष्टौ प्रकीर्त्तिताः
गुल्मशूलहराः क्षारा अजीर्णस्य पाचनाः ।”क्षारावृकम्
*
“सामुद्रं सैन्धवं काचं यवक्षारः सुवर्च्चलम् ।टङ्कणं स्वर्ज्जिकाक्षारं तुल्यं चूर्णं प्रकल्पयेत्
वज्रीक्षीरैरविक्षीरैरातपे भावयेत् त्र्यहम् ।वेष्टयेदर्कपत्रेण रुद्ध्वा भाण्डपुटे पचेत्
तत्क्षारं चूर्णयेत् पश्चात् त्र्युषणं त्रिफलांतथा ।यवानी जीरको वह्निश्चूर्णमेषाञ्च कारयेत्
सर्व्वचूर्णसमं क्षारं सर्व्वमेकत्र कारयेत् ।तच्चूर्णं टङ्कयुगलं सलिलेन प्रयोजयेत्
गुल्मे शूले तथाजीर्णे शोथे सर्व्वोदरेषु ।मन्दे वह्नावुदावर्त्ते प्लीह्नि चापि परं हितम्
वातेऽधिके जलैः कोष्णैर्हितं पित्तेऽधिके घृतैः ।गोमूत्रेण कफाधिक्ये काञ्जिकेन त्रिदोषजे
वज्रक्षार इति ख्यातः प्रोक्तः पूर्व्वं स्वयम्भुवा ।सेवितो हरतेऽजीर्णं तथाजीर्णभवान् गदान्
”वज्रक्षारः
*
“सुवर्च्चिका टङ्कमिता शाणमानार्द्रिकापि ।उभे भुञ्जीत युगपद्गुल्मामयनिवृत्तये
”सुवार्च्चका सोरा इति लोके ।“शुक्तिकाचूर्णगुटिकां टङ्कमात्रां सुवेष्टयेत् ।गुडेन शाणमानेन ताङ्गिलेत् गुल्मरोगवान्
गुल्मी कुमारिकामांसं कर्षार्द्धं गोघृतान्वितम् ।गिलेत् घोषाभयासिन्धुसूक्ष्मचूर्णावधूलितम्
कुमारिका घिउकुँयारी इति लोके
*
“वल्लूरं मूलकं मत्स्यं शुष्कशाकानि वैदलम् ।न खादेदालुकं गुल्मी मधुराणि फलानि
वैदलानां निषेधेऽपि माषकुलत्थयोर्न्नात्रनिषेधः ।इति सुश्रुतटीका इति गुल्माधिकारः
इतिभावप्रकाशः
अथ गुल्मचिकित्सा ।आत्रेय उवाच ।“श्वयथूत्थोपचारैश्च दोषैः संकुप्यतेऽनिलः ।मन्दाग्निना हि जठरे जायते गुल्मरुङ् नृणाम्
उदरं गर्ज्जते यस्य विषमाग्निश्च दृश्यते ।तोदो वपुषि शूलञ्च वातगुल्मं विनिर्द्दिशेत्
शोषोऽरतिः सपीतत्वं मन्दज्वरनिपीडितम् ।तमोभ्रमपिपासार्त्तं गुल्मं तत् पित्तसम्भवम्
शोफो जाड्यञ्च हृल्लासं तन्द्रालस्यं सशीतकम् ।मन्दाग्निर्विड्विबन्धश्च गुल्मं तत् श्लेष्मसम्भवम्
मोहो विभ्रमता जाड्यमरतिक्षुत्पिपासकम् ।आलस्यं निद्रया चैवं गुल्मं तत् कफपैत्तिकम्
निद्रालस्यञ्च दाहश्च शोथात् शूलञ्च सज्वरम् ।वैवश्यमरतिर्जाड्यं विड्बन्धो विकलाङ्गता
तथातीसारमूर्च्छा तृषाहृल्लासवेपथु ।श्वासोऽरुचिरजीर्णत्वं गुल्मं तत्सान्निपातिकम्
साध्यं केवलदोषोत्थं द्वन्द्वं कष्टेन सिध्यति ।असाध्यं सन्निपातोत्थं वक्ष्यामस्तत्प्रतिक्रियाम्
यकृत्चिकित्सितञ्चैव कथितञ्चोपचारणम् ।तद्बत्प्लीहा समाख्यातो चात्र कथितं पुनः
चिकित्सोदरगुल्मस्य वक्ष्यते शृणु साम्प्रतम् ।स्नेहनं रुक्षणञ्चैव पाचनं शोधनानि
संशमनं विरेकञ्च वस्ति-स्नेह-निरूहणम् ।क्षये पानञ्च चूर्णानि गुल्मोपचरणक्रिया
शुण्ठीमूर्व्वा पञ्चमूलं लघुरास्ना दारु ।क्वाथोऽस्य चावशेषः स्यात् तत्समं क्षीरमेव
दधितत्सममेवन्तु पाचयेत्तत्समाग्निना ।घृतं यावत् प्रपश्येच्च सिद्धमुत्तार्य्यते ततः
तत्कृतं पानकेऽभ्यङ्गे भोजने प्रदापयेत् ।स्नेहं सप्तदिनं यावत् तस्माच्च रूक्षणं हितम्
दिनत्रयञ्च कर्त्तव्यं कथयाम्यत्र कोविद ! ।शुण्ठी सौवर्च्चलं जीरे द्वे वा हिङ्गुसमन्वितम्
काञ्जिकं पानमेतेषां रूक्षणं गुल्मशान्तये ।गुल्मचिकित्सिते क्षारपाकोऽत्र प्रतियुज्यते
क्षारं पलाशार्ज्जुनशूरणस्यक्षारं तथा वै सहयावशूकम् ।सौवर्च्चलं सिन्धुभवोद्भिदञ्चसामुद्रजं वापि विमिश्रयेच्च
तोयं परिस्राव्य विधानतोऽपियुक्तं तथैतानि सदौषधानि ।पथ्याग्निशुण्ठी रजनीसुराह्वंकुष्ठं विशाला यवानिका
तथाजमोदा सहजीरके द्वेषड्ग्रन्थिका हिङ्गुयुतञ्च चूर्णम् ।क्षारोदकौ पानविमिश्रपानंनिहन्ति सर्व्वाण्यपि कोष्ठजानि
गुल्मानि सर्व्वाणि विसूचिकानांमन्दाग्निशूलानि भगन्दराणाम् ।प्लीहोदरानाहमथो विबन्धंविनाशनो रोगचयं नराणाम्
”इति विरुक्षणम्
*
अथ विरेचनानि वक्ष्यामः
*
“नागरं क्रिमिजित् पथ्या त्रिवृता त्रिगुणायुतम् ।चूर्णं गुंडान्वितं देयं वातगुल्मविरेचनम्
दन्ती भागमेकञ्च द्वौ भागौ हरीतकी ।त्रिवृतायास्त्रिभागः स्यात् शुण्ठ्याश्चत्वार एव
प्रक्षिप्य सर्व्वमेकत्र सर्व्वतुल्यगुडेन तु ।वटकं भक्षयेत् प्रातस्तस्योपरिजलं पिवेत्
कथितश्च विरेकश्च वातगुल्मोपशान्तये ।”इति वातगुल्मविरेचनम्
*
“पिबेदेरण्डतैलञ्च सर्कराक्षीरसंयुतम् ।पित्तगुल्मविरेकाय श्रेष्ठमेतत् सुखावहम्
आरग्बधं प्रबालानि तथैवारग्बधानि ।विभाव्यैरण्डतैलेन तत्पत्रैश्चैव वेष्टयेत्
कर्द्दमेन प्रलिप्याथ अङ्गारेषु निधापयेत् ।सुस्विन्नभर्ज्जितां ताञ्च भक्षयेत् शर्करान्विताम्
विरेकं पैत्तिके गुल्मे हितं शुद्धविरेचनम् ।”इति पित्तगुल्मविरेचनम्
*
“त्रिफला सुरसा शुण्ठी चूर्णं कृत्वा विभावयेत् ।स्नुहीक्षीरेण वारैकं गुडेन सह मिश्रितम्
विरेकः श्लेष्मगुल्मे सर्व्वोदरविनाशनम् ।शुण्ठी सौवर्च्चलं पथ्या विडङ्गञ्च पुनर्नवा
चूर्णोऽपामार्गवीजानां स्नुहीक्षीरेण भावितः ।गुडेन संयुतं खादेत् पश्चात् सोष्णं जलं पिबेत्
विरेकः सर्व्वगुल्मेषु प्रशस्तो हितकारकः
इति विरेचनम् ।शुक्तिक्षारनिशाविशालकदली स्यात् शूरणं कोकिलापालाशं दहनार्ज्जुनं शठिजयाऽपामार्गकुष्मा-ण्डकम् ।दग्ध्वाक्षारविपाचितं परिशृतं हिङ्गुत्रिकट्वन्वितंगुल्मानाहविबन्धशूलहरणं सर्व्वोदराणां हितम्
इति क्षारपानम्
*
“अजमोदा शठी दन्ती विडङ्गं शुण्ठितुम्बुरु ।त्रिफला चित्रकञ्चैव शुण्ठी कर्कटशृङ्गिका
त्रिवृता सुराह्वा पुष्करं वृद्धदारकम् ।तथाम्लवेतसञ्चैव तिन्तिडीकञ्च चिञ्चिलिः
समन्तु मातुलुङ्गेन विभाव्यमेकतः कृतम् ।त्रिभागहिङ्गुसंयुक्तं घृतेन चूर्णितं हितम्
निहन्ति वातगुल्मञ्च सशूलमुदरन्तथा ।”इत्यजमोजादि
*
हिङ्गुफलत्रिकजीरकयुग्मंचित्रकभागिककुष्ठविडङ्गम् ।तुम्बुरुपुष्कर-विश्वसुराह्वंक्षारयुतं लवणानि पञ्च
वातिकगुल्मविनाशनहेतुःशूलरुजश्च नरस्य निहन्ति
”इति वातगुल्मचिकित्सा
*
“विदारी क्षीरशुक्ला पथ्या विश्वौषधं मधु ।लेहः पित्तात्मके गुल्मे हितः शोफनिवारणः
व्यष्टिकं निम्बपत्राणि तथा धात्रीफलं सिता ।चूर्णं मध्वावलीढञ्च पित्तगुल्मनिवारणम्
”इति पित्तगुल्मचिकित्सा
*
“त्रिकटुत्रिफलाचित्रवटकट्फलसंयुतम् ।चूर्णं मद्येन वा पीतं फलक्वाथेन वा पीतम्
श्लेष्मगुल्मविनाशाय हितञ्चैतत् सुखावहम् ।लोध्रञ्च कट्फलं विश्वा कुष्ठं चित्रकमेव
नागरं हिङ्गुसंयुक्तं चूर्णं मूत्रेण संयुतम् ।श्लेष्मगुल्मविनाशाय शूलोदरविनाशनम्
उग्रगन्धा मरिचं क्षारचूर्णसमन्वितम् ।पिवेन्मूत्रेण संयुक्तं श्लेष्मगुल्मविनाशनम्
”इति श्लेष्मगुल्मचिकित्सा
*
“शुण्ठी सौवर्च्चलं भार्गी वत्सकं यावशूकजम् ।जीरे द्बे चाटरूषञ्च यवानी हिङ्गुसैन्धवम्
आरग्वधेन संयुक्तं चूर्णं सघृतमेव ।वातश्लेष्मोद्भवे गुल्मे सुखमाशुप्रपद्यते ।उग्रगन्धा फलत्रिकं देवदारुपुनर्नवा
त्रिवृत्सौवर्च्चलोपेतं क्षारोदकसमन्वितम् ।पीतं वातकफे गुल्मे शुभकारि परं मतम्
”इति वातश्लेष्मगुल्मचिकित्सा
*
इति हारीते चिकित्सितस्थाने चतुर्थेऽध्याये
“रूक्षकृष्णारुणशिरा तन्तुजालगवाक्षितः ।गुल्मोऽष्टधा पृथक् दोषैः संसृष्टैर्निश्चयं गतः
आर्त्तवस्य दोषेण नारीणां जायतेऽष्टमः ।ज्वरच्छर्द्द्यतिसाराद्यैर्वमनाद्यैश्च कर्म्मभिः
कर्शितो वातलान्यत्ति शीतं वाम्वुबुभुक्षितः ।यः पिवत्यनुचान्नानि लङ्घनं प्लवनादिकम्
सेवते देहसंक्षोभिच्छर्द्दिं वा समुदीरयेत् ।अनुदीर्णानुदीर्णान् वा वातादीन्न विमुञ्चति
स्नेहस्वेदावनभ्यस्य शोधनं वा निषेवते ।शुद्धो वाशु विदाहीनि भजते स्यन्दनानि वा
वातोल्वणास्तस्यमलाः पृथक् क्रुद्धाद्विशोऽथवा ।सर्व्वे वा रक्तयुक्ता वा महास्रोतोऽनुशायिनः
ऊर्द्ध्वाधोमार्गमावृत्य कुर्व्वते शूलपूर्व्वकम् ।स्पर्शोपलभ्यं गुल्माख्यमुत्प्लुतं ग्रन्थिरूपिणम्
कर्शनात् कफविट्पित्तैर्मार्गस्यावरणेन वा ।वायुः कृताशयः कोष्ठे रौक्ष्यात् काठिन्यमागतः ।स्वतन्त्रः स्वाश्रये दुष्टः परतन्त्रः पराश्रये
पिण्डितत्वादमूर्त्तोऽपि मूर्त्तत्वमिवसंश्रितः ।गुल्म इत्युच्यते वस्तिनाभिहृत्पार्श्व-संश्रयः
वातान्मन्याशिरःशूलं ज्वरप्लीहान्त्रकूजनम् ।व्यथा सूच्येव विट्सङ्गः कृच्छ्रादुच्छ्वसनं मुहुः
स्तम्भो गात्रे मुखे शोषः कार्श्यं विषमवह्निता ।रुक्षकृष्णत्वगादित्वं चलत्वादनिलस्य
अनिरूपित-संस्थान-स्थानवृद्धिक्षयव्यथः ।पिपीलिकाव्याप्त इव गुल्मः स्फुरति तुद्यते
पित्ताद्दाहोऽम्लको मूर्च्छा विड्भेदस्वेदतृड्-ज्वराः ।हारिद्रत्वं त्वगाद्येषु गुल्मश्च स्पर्शनासहः
दूयते दीप्यते सोष्मा स्वस्थानं दहतीव ।कफात् स्तैमित्यमरुचिः सदनं शिशिरज्वरः
पीनसालस्य-हृल्लास-कासशुक्लत्वगादिताः ।गुल्मोऽवगाढः कठिनो गुरुः सुप्तः स्थिरोऽल्प-रुक्
स्वदोषस्थानधामानः स्वे स्वे काले रुक्कराः ।प्रायस्त्रयस्तु द्वन्द्वोत्था गुल्माः संसृष्टलक्षणाः
सर्व्वजस्तीव्ररुग्दाहः शीघ्रपाकी धनोन्नतः ।सोऽसाध्यो रक्तगुल्मस्तु स्त्रिया एव प्रजायते
ऋतौ वा नवसूता वा यदि वा योनिरोगिणी ।सेवते वातलानि स्त्री क्रुद्धस्तस्याः समीरणः
निरुणद्ध्यार्त्तवं योन्यां प्रतिमासमवस्थितम् ।कुक्षिं करोति तद्गर्भ-लिङ्गमाविष्करोति
हृल्लास-दौहृदस्तन्य-दर्शनं क्षामतादिकम् ।क्रमेण वायुसंसर्गात् पित्तयोनितया तत्
शोणितं कुरुते तस्या वातपित्तोत्थगुल्मजान् ।रुक्स्तम्भदाहातिसारतृड्ज्वरादीनुपद्रवान्
गर्भाशये सुतरां शूलंदुष्टासृगाश्रये ।जन्याश्च स्रावदौर्गन्ध्यतोदस्यन्दनवेदनाः
चाङ्गैर्गर्भवद् गुल्मः स्फुरत्यपि तु शूलवान् ।पिण्डीभूतः एवास्याः कदाचित् स्पन्दते चिरात्
चास्या बर्द्धते कुक्षिर्गुल्म एव तु बर्द्धते ।स दोषसंश्रयो गुल्मः सर्व्वो भवति तेन सः
”इति वाभटे निदानस्थाने पञ्चमेऽध्याये
“रूक्षान्नपानैरतिसेवनैर्वाशोकेन मिथ्या प्रतिकर्म्मणा वा ।विचेष्टितैर्वा विषमातिमात्रैःकोष्ठे प्रकोपं समुपैति वायुः
कफञ्च पित्तञ्च दूषयित्वाप्रोद्धूय मार्गान् विनिबध्य ताभ्याम् ।हृत्प्लीहपार्श्वोदरवस्तिशूलंकरोत्यधो याति बद्धमार्गः
पक्वाशये पित्तकफाशये वास्थितः स्वतन्त्रः परसंश्रयो वा ।स्पर्शोपलभ्यः परिपिण्डितत्वात्गुल्मो यथा दोषमुपैति नाम
वस्तौ हि नाभ्यां हृदिपार्श्वयोर्वास्थानानि गुल्मस्य भवन्ति पञ्च ।पञ्चात्मकस्य प्रभवन्तु तस्यवक्ष्यामि लिङ्गानि चिकित्सितञ्च
क्रियाक्रममतः सिद्धं गुल्मिनां गुल्मनाशनम् ।प्रवक्ष्याम्यत ऊर्द्ध्वञ्च योगान् गुल्मनिवर्हणान्
रूक्षव्यायामजं गुल्मं वातिकं तीब्रवेदनम् ।बद्धविट्-मारुतं स्नेहैरादितः समुपाचरेत्
भोजनाभ्यञ्जनैः पानैर्निरूहैः सानुवासनैः ।स्निग्धस्य भिषजा स्वेदः कर्त्तव्यो गुल्मशान्तये
स्रोतसां मार्द्धवं कृत्वा जित्वा मारुतमुल्वणम् ।भित्त्वा विवन्धं स्निग्धस्य स्वेदो गुल्ममपोहति
स्नेहपानं मतं गुल्मे विशेषेणोर्द्ध्वनाभिजे
हबुषाद्यं घृतम् ।हबुषा व्योष पृथ्वीका चव्यचित्रकसैन्घवः ।साजाजीपिप्पलीमूलैर्दीप्यकैर्विपचेद्घृतम्
मातुलुङ्गदधिक्षीर-कोलमूलकदाडिमैः ।रसैस्तद्वातगुल्मघ्नं शूलानाहविमोक्षणम्
योन्यर्शोग्रहणीदोषश्वासकासारुचिज्वरान् ।वस्तिहृत्पार्श्वशूलञ्च घृतमेतद्व्यपोहति
”इति हबुषाद्यं घृतम्
*
“तैलं प्रसन्ना गोमूत्रमारनालं यवाग्रजः ।गुल्मजठरमानाहं पीतमेकत्र साधयेत्
”इति तैलपञ्चकम्
*
“यथोक्तैः कोपनैर्दोषाः कुपिताः कोष्ठमागताः ।जनयन्ति नृणां गुल्मं पञ्चविध उच्यते
पञ्च गुल्माश्रया नॄणां पार्श्वहृन्नाभिवस्तयः ।कुपितानिलमूलत्वाद्गूढमूलोदयादपि
गुल्मवद्वा विशालत्वाद् गुल्म इत्यभिधीयते ।स यस्मादात्मनिचयं गच्छत्यप्स्विव बुद्बुदः
अन्तः सरति यस्माच्च पाकमुपयात्यतः ।सदनं मन्दता वह्ने राटोपोऽन्त्रविकूजनम्
विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा ।द्वेषोऽन्ने वायुरूर्द्ध्वञ्च पूर्व्वरूपेषु गुल्मिनाम्
हृत्कुक्षिशूलं मुखकण्ठशोषोवायोर्निरोधो विषमाग्निता ।ते ते विकाराः पवनात्मकाश्चभवन्ति गुल्मेऽनिलसम्भवे तु
स्वेदज्वराहारविदाहदाहा-स्तृष्णाङ्गरागः कटुवक्त्रता ।पित्तस्य लिङ्गान्यखिलानि यानिपित्तात्मके तानि भवन्ति गुल्मे
स्तैमित्यमन्नेऽरुचिरङ्गसादश्छर्द्दिः प्रसेको मधुरास्यता ।कफस्य लिङ्गानि यानि तानिभवन्ति गुल्मे कफसम्भवे तु
सर्व्वात्मकः सर्व्वविकारयुक्तःसोऽसाध्य उक्तः क्षतजश्च वक्ष्ये ।“न स्पन्दते नोदरमेति वृद्धिंभवन्ति लिङ्गानि गर्भिणीनाम्
तं गर्भकालातिगमे चिकित्स्यमसृग्भवं गुल्ममुशन्ति तज्ज्ञाः
”चिकित्सा यथा
“वातगुल्मार्द्दितं स्निग्धं युक्तं स्नेहविरेचनैः ।उपाचरेत् यथाकालं निरूहैः सानुवासनैः
पित्तगुल्मार्द्दितं स्निग्धं काकोल्यादिघृतेन तु ।विरिक्तं मधुरैर्योगैर्निरूहैः समुपाचरेत्
श्लेष्मगुल्मार्द्दितं स्निग्धं पिप्पल्यादिघृतेन तु ।तीक्ष्णैर्विरिक्तं तद्रूपैर्निरूहैः समुपाचरेत्
सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः ।पित्तवद्रक्तगुल्मिन्या नार्य्याः कार्य्यः क्रियाविथिः
विशेषमपरञ्चास्याः शृणु रक्तविभेदनम् ।पलाश-भस्मतोयेन सिद्धं सर्पिः प्रयोजयेत्
दद्यादुत्तरवस्तिञ्च पिप्पल्यादिघृतेन तु ।उष्णैर्वा भेदयेद्भिन्ने विधिरासृग्दरोहितः
आनूपौदकमज्जानो वसातैलं घृतं दधि ।विपक्वमेकतः शस्तं वातगुल्मेऽनुवासनम्
जाङ्गलैकशफानंन्तु वसा सर्पिश्च पैत्तिके ।तैलं जाङ्गलमाज्जान एवं गुल्मे कफोत्थिते
धात्रीफलानां स्वरसे षडङ्गं विपचेद्घृतम् ।शर्करा सैन्धवोपेतं तद्धितं वातगुल्मिने
चित्रकव्योषसिन्धूत्थ पृथ्वीका चव्यदाडिमौ ।दीप्यकग्रन्थिकाजाजी हवुषा धान्यकैः समैः
दध्यारनालवदर-मूलकस्वरसैर्घृतम् ।तत् पिबेद्वातगुल्माग्निदौर्ब्बल्याटोपशूलनुत्
विडदाडिमसिन्धूत्थ-हुतभुग्व्योषजीरकैः ।हिङ्गुसौवर्च्चलक्षार-रुग्वृक्षाम्लाम्लवेतसैः
बीजपूररसोपेतं सर्पिर्दधिचतुर्गणम् ।साधितं दाधिकं नाम गुल्महृत् प्लीहशूलजित्
रसोनस्वरसे सर्पिः पञ्चमूलरसान्वितम् ।सुरारनालदध्यम्ल-मूलकस्वरसैः सह
व्योष-दाडिमवृक्षाम्लयवानीचव्यसैन्धवैः ।हिङ्ग्वम्लवेतसाजाजीदीप्यकैश्च समांशिकैः
सिद्धङ्गुल्मग्रहण्यर्शःश्वासोन्मादक्षयज्वरान् ।कासापस्मारमन्दाग्नि-प्लीहशूलानिलान् जयेत्
तृणमूलकषाये तु जीवनीयैः पचेद्घृतम् ।न्यग्रोधादिगणे वापि गणे वाप्युत्पलादिके
रक्तपित्तोत्थितं घ्नन्ति घृतान्येतान्यसंशयम् ।आरग्वधादौ विपचेद्दीपनीययुतं घृतम्
क्षारवर्गे पचेच्चान्यत् पचेन्मूत्रगणेऽपरम् ।घ्नन्ति गुल्मं कफोद्भूतं घृतान्येतान्यसंशयम्
यथा दोषोच्छ्रयञ्चापि चिकित्सेत् सान्निपाति-कम् ।चूर्णं हिङ्ग्वादिकं वापि घृतं वा प्लीहनाशनम्
पिबेद्गुल्मापहं काले सर्पिस्तैल्वकमेव वा ।तिलेक्षुरकपालाशसार्षपं यवनालजम्
भस्म मूलकजञ्चापि गोजाविखरहस्तिनाम् ।मूत्रेण महिषीणाञ्च पालिकैश्चावचूर्णितैः
कुष्ठ-सैन्धवयष्ट्याह्व-नागरक्रिमिघातिभिः ।साजमोदैश्च दशभिः सामुद्राच्च पलैर्युतम्
अयःपात्रेऽग्निनाल्पेन पक्त्वा लेह्यमथोद्धरेत् ।तस्य मात्रां पिबेद्दध्ना सुरया सर्पिषापि वा
धान्याम्लेनोष्णतोयेन कौलत्थेन रसेन वा ।गुल्मं वातविकारांश्च क्षारोऽयं हन्त्यसंशयम्
”“पीतं सुखाम्बुना वापि स्वर्ज्जिका कुष्ठसैन्धवम् ।वृश्चीकमुरुवूकञ्च वर्षाभूबृहतीद्बयम् ।चित्रकञ्च जलद्रोणे पक्त्रा पादावशेषितम्
मागधी चित्रकक्षौद्रलिप्ते कुम्भे निधापयेत् ।मधुनः प्रस्थमावाप्य पथ्याचूर्णार्द्धसंयुतम्
तुषोषितं दशाहन्तु जीर्णभक्तः पिबन्नरः ।अरिष्टोऽयं जयेद्गुल्ममविपाकमरोचकम्
सशूले सोन्नतस्यन्दे दाहपाकरुगन्विते ।गुल्मे रक्तं जलौकोभिः शिरामोक्षेण वा हरेत्
सुखोष्णा जाङ्गलरसाः सुस्निग्धा व्यक्तसैन्धवाः ।कटुत्रिकसमायुक्ता हिताः पाने गुल्मिनाम्
पेया वातहरैः सिद्धाः कौलत्थाः संस्कृता रसाः ।खलाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः
बद्धवर्च्चोऽनिलानान्तु सार्द्रकं क्षीरमिष्यते ।कुम्भीपिण्डेष्टकास्वेदान् कारयेत् कुशलो भिषक्
गुल्मिनः सर्व्व एबोक्ता दुर्व्विरेच्यतमा भृशम् ।अतश्चैतांस्तु सुस्विन्नान् स्रंसनेनोपपादयेत्
विलेपनाभ्यञ्जनानि तथा सन्दहनानि ।उपनाहाश्च कर्त्तव्याः सुखोष्णाः साल्वणादयः ।उदरोक्तानि सर्पींषि चूर्णवर्त्तिक्रियास्तथा
लवणानि योज्यानि यान्युक्तान्युदरामये ।वातवर्च्चोनिरोधे तु सामुद्रार्द्रकसर्षपैः
कृत्वा पायौ विधातव्या वर्त्तयो मरिचोत्तराः ।दंन्ती चित्रकमूलेषु तथा वातहरेषु
कुर्य्यादरिष्टान् सर्व्वांश्च सूत्रस्थाने यथेरितान् ।खादेद्वाप्यङ्कुरान् भृष्टान् पूतिकनृपवृक्षजान्
ऊर्द्ध्ववातमनुष्यञ्च गुल्मिनं निरूहयेत् ।पिबेत्त्रिवृन्नागरं वा सगुडां वा हरीतकीम्
गुग्गुलुं त्रिवृतां दन्तीं द्रवन्तीं सैन्धवं वचाम् ।मूत्रमद्य-पयोद्राक्षा-रसैर्वीक्ष्य बलाबलम्
एवं पीलूनि पिष्टानि पिबेत् सलवणानि तु ।पिप्पलीपिप्पलीमूलचव्यचित्रकसैन्धवैः
युक्ता हन्ति सुरागुल्मं शीघ्रं काले प्रयोजिता ।बद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान्
कुल्माषान् वा बहुस्ने हान् भक्षयेल्लवणोत्तरान्
”इत्युत्तरतन्त्रे द्वाचत्वारिंशत्तमेऽध्याये सुश्रुतेनो-क्तम्
) सेनासंख्याविशेषः (यथा, महाभारते ।१ १९-२० ।“एको रथो गजश्चैको नराः पञ्च पदातयः ।त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते
पत्तिन्तु त्रिगुणामेतामाहुः सेनामुखं बुधाः ।त्रीणिसेनामुखान्येको गुल्म इत्यभिधीयते
”)अस्यार्थविवृतिर्यथा, --अत्र गजा नव, रथा नव, अश्वाः सप्तविंशतिःपदातयः पञ्चचत्वारिंशत्, समुदायेन नवतिः
प्लीहा अप्रकाण्डवृक्षः तत्पर्य्यायः स्तम्बः ।इत्यमरः
“अविद्यमानप्रकाण्ड-स्तनुप्रकाण्डो वा बहुपत्रवान् मल्लीझिण्टीनल-कमलवंशवीरणादिः मूलादारभ्य पूर्व्वभागःप्रकाण्डः ।” इति भरतः
(यथा, मनुः ४८ ।“गुच्छगुल्मन्तु विविधं तथैव तृणजातयः ।”“यत्र लतासमूहा भवन्ति प्रकाण्डानि तेगुच्छा मल्लिकादयः, गुल्मा एकमूलाः सङ्घात-जाताः ।” इति टीकाकृत् कुल्लूकभट्टः
) घट्ट-भेदः सैन्यरक्षणम् इति मेदिनी मे ११
(रक्षितृपुरुषसमूहः यथा, मनुः ११४ ।“द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् ।”गुल्मं रक्षितृपुरुषसमूहमित्यस्य टीकायां कुल्लूक-भट्टः
सैन्यैकदेशः यथा, तत्रैव १९० ।“गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः ।”गुल्मान् सैन्यैकदेशानिति टीकाकृत् कुल्लूकभट्टः
)