| YouTube Channel

गुर्व्वी (gurvvI)

 
शब्दसागरः
English
गुर्व्वी
f.
(-र्व्वीं)
1. A pregnant woman.
2. The wife of a Guru or spiritual
teacher.
E.
गुरु heavy, &c. and ङीष्
aff.
Yates
English
गुर्व्वी (र्व्वी) 3.
f.
A pregnant woman.
Wilson
English
गुर्व्वी
f.
(-र्व्वी)
1 A pregnant woman.
2 The wife of a Guru or spiritual teacher.
E.
गुरु heavy, &c. and ङीष्
aff.
शब्दकल्पद्रुमः
Sanskrit
गुर्व्वी,
स्त्री,
(गुरुर्भारयुक्तो गर्भोऽस्याः गुरु +ङीष् ।) गर्भवती इति हेमचन्द्रः २०३
(“नहि बन्ध्या विजानाति गुर्व्वीप्रसववेदनाम्
”इति हितोपदेशः
)गुरुपत्नी (गुरोः पत्नीति गुरु + ङीष् ।)गौरवयुक्ता (गुरु + वोतोगुणवचनात् ।”४ ४४ इति विभाषायां ङीष् ।) यथा ।अनन्यगुर्व्व्यास्तवकेन केवलः पुराणमूर्त्तेर्महिमा-वगम्यते इति माघः
(गुरुभारविशिष्टा ।यथा, महाभारते २२ ३७ ।“ततः शाल्वं गदां गुर्व्वीमाविध्यन्तं महाहवे ।द्विधाचकार सहसा प्रजज्वाल तेजसा
”गायत्त्री यथा, --देवीभागवते १२ ४२ ।“गुहावासा गुणवती गुरुपापप्रणाशिनी ।गुर्व्वी गुणवती गुह्या गोप्तव्या गुणरूपिणी
”)
वाचस्पत्यम्
Sanskrit
गुर्व्वी स्त्री गुरु--ङीष् गर्भवत्याम् “न हि बन्ध्या विजा-नाति गुर्वीप्रसववेदनाम्” हितो० गौरवयुक्तस्त्रीलिङ्गार्थकपदार्थे “गुर्वीरजसं दृषदः समन्तात्” माघः ।यत्तु “अनन्यगुर्वास्तव केन केवलम् पुराणमूर्त्तेः” घपदो अन्यगुर्व्या इति पाठं कल्पयित्वा शब्दक० उदाजहार तत् प्रामादिकं “न विद्यतेऽन्या गुरुर्यस्यास्तस्याअन्यग्यगुर्वा इत्यनीकारान्तः पाठः एव साधुः समासात्प्राङ् ङीषि “नद्यृतश्चेति” पा० कप्प्रत्ययः स्यात् पश्चात्तुअनुपसर्जनाधिकारात् “वोतो गुणवचनादिति” प्राप्नो-तीति तद्रूपसिद्धिस्तु “ङिति ह्रस्वश्चेति” पा० वा नदी-संज्ञत्कायाम् “आण्नद्याः” पा० इत्याडागमात्” मल्लि० ।समासान्तस्य विधेरनित्यकल्पनेन कबभावकल्पनस्यागतिक-विषयएव स्वीकारात् अत्र तथाऽकल्पनेऽपि छन्दोदोषाप्र-सङ्गात्” इति विभाव्यम् गुरुस्त्रियाञ्च