| YouTube Channel

गुर्व्वादित्य (gurvvAditya)

 
वाचस्पत्यम्
Sanskrit
गुर्व्वादित्य
पु०
गुरुणा सह आदित्यो यत्र ज्योति-षोक्ते कालाशुद्धिहेतौ एकराश्येकनक्षत्रस्थयोर्जीवादि-त्ययोर्योगभेदे “गुर्वादित्ये दशाहिकम्” ज्यो० त० ।“एकराशौ गतौ स्यातामेकर्क्षविषये यदि गुर्वादित्यौ, तदा त्याज्या यज्ञोद्वाहादिकाक्रियाः” राजमा० ।“गुर्वादित्ये दशाहे त्विति” नक्षत्रभेदविषयम् अत्यन्ता-वश्यकत्वे भुजबलभीमः “जीवोऽर्केण युतः करोतिमरणं, बालांशुको भागुरिः नक्षत्रैकगतो वदन्ति मरणं, पादस्थितो देवलः” तथा एकराशिस्थत्वेऽकालः अत्य-न्तावश्यकत्वे एकनक्षत्रपादस्थितौ दशाहं त्यक्त्वायज्ञादि कर्त्तुं शक्यते इति व्यबस्था