| YouTube Channel

गुर्द (gurda)

 
शब्दसागरः
English
गुर्द r. 1st. cl. (गुर्दते or गूर्दते) To play. r. 10th cl. (गुर्दयति or गूर्दयति)
1. To
dwell or inhabit.
2. To invite.
Wilson
English
गुर्द r. 1st cl. (गुर्दते or गूर्दते) To play. r. 10th cl.
(गूर्दयति)
1 To dwell or inhabit.
2 To invite.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
गुर्द्
मूलधातुः:
गुर्द
धात्वर्थः:
क्रीडायाम्
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
गूर्दते
धातुः:
गुर्द्
मूलधातुः:
गुर्द
धात्वर्थः:
पूर्विनिकेतने
गणः:
चुरादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
गूर्दयति-ते
शब्दकल्पद्रुमः
Sanskrit
गुर्द्द निकेतने कूर्द्दे इति कविकल्पद्रुमः
(चुरां-परं-अकं-सेट् ।) दीर्घणो वक्ष्यमाणत्वा-दस्य दीर्घः गुर्दयति निकेतनं निवासः ।इति दुर्गादासः
गुर्द्द कूर्द्दे इति कविकल्पद्रुमः
(भ्वां-आत्मं-अकं-सेट् ।) दीर्घिणो वक्ष्यमाणत्वादस्यापि नदीर्घः गुर्दते कूर्द्दः क्रीडा इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
गु(गू)र्द्द कूर्दने
भ्वा०
आत्म० अक० सेट् गूर्दते अगू-र्द्दिष्ट जुगूर्दे लघुयुक्तस्य क्विपि गूः गुरौ गुरः ।दीर्घान्वितस्य गूः गूरौ गूर इति भेदः
गु(गू)र्द्द निवासे कूर्दने चुरा०
उभ०
अक० सेट् गु-(गू)र्दयति ते अजुगु(गू)र्दत्--त
क्षीरतरङ्गिणी
Sanskrit
गुर्दँ गुर्द पूर्वनिकेतने
- (अर्थविवरणम्) पूर्वनिकेतनम् आद्यनिवासः
पारायणे द्वौ धातू-गुर्दयति, पूर्वयति भ्वादौ पूर्वं पूरणे (1381) -पूर्वति 126
धातुवृत्तिः
Sanskrit
गुर्दँ गुर्द
मानकरूपान्तरम् - पूर्वँ
पूर्व (अर्थः) निकेतने
अत्र क्षीरस्वामी पूर्वनिकेतनमासाद्याभ्यवहारः पारायणे द्वौ धातू इति पुरुषकारे तु पूर्वनिकेतनइति पठित्त्वा तच्च निवासपूर्वकमित्युक्त्वा पूर्वयतीत्यत्र "उपधायां च''इति दीर्घ उक्तः (गूर्दयति पूर्वयति) पूर्वतिस्तु शपि गुर्दस्तु कुर्दखुर्देत्यत्र प्रपञ्चितः पूर्वयतीति कथादिरित्युक्तं दैवे, तच्च भूवादौ पूर्वतौ दूषितम् 130-131
कृदन्तरूपमाला
Sanskrit
1 {@“गुर्द क्रीडायामेव”@} 2 गूर्दकः-र्दिका, गूर्दकः-र्दिका, जुगूर्दिषकः-षिका, जोगूर्दकः-र्दिका
3 वनान्तगूर्दी 4, इत्यादीनि रूपाणि भौवादिककूर्दतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(४१४)
02
=>
(१-भ्वादिः-२३। अक। सेट्। आत्म।)
03
=>
[[B। ‘मुदा चेतो दददे चिरं हरौ स्वादात् सुरैः स्वर्दितमङ्गलोर्दने। अकूदतेवास्य पुरः स्वखूर्दकैर्वनान्तगूर्दी रिपुगोदसूद्यसौ।।’ धा। का। १-४।]]
04
=>
[[२। ‘सुप्यजातौ --’ (३-२-७८) इति ताच्छीलिको णिनिः।]]
05
=>
(२३०)
1 {@“गुर्द पूर्वनिकेतने”@} 2 ‘पूर्वनिकेनतम् = पूर्वव्यवहार इत्येके।’ इति धा।
का।
व्याख्या।
पूर्वनिकेनतम् = आद्यनिवासः, इति क्षीरस्वामी।
‘पूर्व’ इति धात्वन्तरमिति केचित्।
गूर्दकः-गुर्दकः-र्दिका, गुर्द 3 यिता-त्री, गुर्दितम्- 4 तः-तवान्, इत्यादीनि रूपाणि भौवादिककूर्दधातौ 5 ण्यन्तरूपवत् ज्ञेयानि।
ण्यन्तात् सनि तु -- 6 जुगूर्दयिषकः-षिका, जुगूर्दयिषितः-तवान्
जुगूर्दयिषिता-त्री, जुगूर्दयिषुः
जुगूर्दयिषन्-न्ती, जुगूर्दयिषितव्यम्
जुगूर्दयिषिष्यन्-न्ती-ती, जुगूर्दयिषणीयम्
जुगूर्दयिषमाणः, जुगूर्दयिष्यम्
जुगूर्दयिट्-जुगूर्दयिषौ-जुगूर्दयिषः, ईषज्जुगूर्दयिषः- 7 दुर्जुगूर्दयिषः-सुजुगूर्दयिषः, जुगूर्दयिषणम्
जुगूर्दयिष्यमाणः, जुगूर्दयिषित्वा
जुगूर्दयिषः, प्रजुगूर्दयिष्य
जुगूर्दयिषितुम्, जुगूर्दयिषा, जुगूर्दयिषम्
जुगूर्दयिषित्वा २। इति रूपाणि, इति विशेषः।
प्रासङ्गिक्यः
01
=>
(४१५)
02
=>
(१०-चुरादिः-१६६६। अक। सेट्। उभ।)
03
=>
(गूर्द)
04
=>
[[C। ‘खेदस्त्वियान् पटहगर्दनगर्जिताशे रङ्गे सगर्धनसुगुर्दितवीरलोके।’ धा। का। ३-३१।]]
05
=>
(२३०)
06
=>
[[३। ‘उपधायां च’ (८-२-७८) इति सर्वत्र दीर्घः। ‘ह्रस्वः’ (७-४-५९) इति अभ्यासह्रस्वः। ‘र्वोरुपधायाः--’ (८-२-७८) इति दीर्घस्य वैकल्पिकत्वे ‘जुगुर्दयिषकः- षिका’ इति रूपमपि साधु। एवं सर्वत्र। दीर्घस्य वैकल्पिकत्वे प्रमाणं तु २३०- धातुटिप्पणे निरूपितम्।]]
07
=>
[पृष्ठम्०४०५+ २५]