| YouTube Channel

गुर्ज्जरी (gurjjarI)

 
शब्दकल्पद्रुमः
Sanskrit
गुर्ज्जरी,
स्त्री,
(जॄ + णिच् + अच् गुरिति शत्रु-कृतताडनादिकं तज्जीर्य्यत्यत्र इति अधिकरणेअप् गुर्ज्जरः देशः तस्य प्रियेति ङीष् यद्वागुर्ज्जरदेशःप्रियोऽस्या इति अण् ङीप् ।गुर्ज्जरदेशवासिनी अतो गुर्ज्जरीतिकेचित् ।)रागिणीविशेषः इति हलायुधः
इयन्तु भैरव-रागस्य रागिणीति बोध्यम् यथा, सङ्गीतदर्पणेरागविवेकाध्याये १६ ।“भैरवी गुर्ज्जरी रामकिरी गुणकिरी तथा ।वाङ्गाली सैन्धवी चैव भैरवस्य वराङ्गनाः
”अस्या गानवेलानिर्णयो यथा, तत्रैव २० ।“वेलावली मल्लारी वल्लारी सोमगुर्ज्जरी ।”इयं हि ग्रीष्मऋतौ स्वस्वामिना भैरवरागेण सहगीयते यथा, तत्रैव २७ ।“भैरवः ससहायस्तु ऋतौ ग्रीष्मे प्रगीयते ।”इति सोमेश्वरमतम् हनूमन्मते तु इयमेवमेघरागस्य स्त्री यथा, तत्रैव ३७ ।“मल्लारी देशकारी भूपाली गुर्ज्जरी तथा ।टङ्का पञ्चमी भार्य्या मेघरागस्य योषितः
”इयं पुना रागार्णवमते पञ्चमरागाश्रया रागिणी-त्यवधेयम् यथा, तत्रैव ४० ।“ललिता गुर्ज्जरी देशी वराडी रामकृत्तथा ।मता रागार्णवे रागाः पञ्चैते पञ्चमाश्रयाः
”)