| YouTube Channel

गुरुवृत्ति (guruvRtti)

 
Capeller Eng
English
गुरुवृत्ति
f.
the (right) conduct towards the teacher
°पर
a.
behaving properly towards the teacher.
Spoken Sanskrit
English
गुरुवृत्ति guruvRtti
adj.
long by nature
गुरुवृत्ति guruvRtti
f.
behaviour towards one's Guru
Monier Williams Cologne
English
गुरु—वृत्ति
mfn.
long by nature (vowel),
W.
गुरु—वृत्ति
f.
behaviour towards one's Guru,
MBh.
i, 706
Apte Hindi
Hindi
गुरुवृत्तिः
स्त्री*
गुरु-वृत्तिः -
ब्रह्मचारी का अपने गुरु के प्रति आचरण
Shabdartha Kaustubha
Kannada
गुरुवृत्ति
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಆಚಾರ್ಯನ ವಿಷಯದಲ್ಲಿ ಶಿಷ್ಯನ ನಡತೆ
व्युत्पत्तिः - > गुरौ वृत्तिः
L R Vaidya
English
guru-vftti {% f. %} the conduct of a pupil towards his preceptor.
वाचस्पत्यम्
Sanskrit
गुरुवृत्ति स्त्री गुरौ वृत्तिः आचार्य्यादिगुरौ शिष्यैणकर्त्तव्ये आचारभेदे सा मनुनोक्ता यथा“नोदितोगुरुणा नित्यमप्रचोदित एव वा कुर्य्या-दध्ययने यत्नमाचार्य्यस्य हितेषु शरीरञ्चैब वाचं चबुद्धीन्द्रियमनांसि नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणीगुरोर्मुखम् नित्यमुद्धृतपाणिः स्यात् साध्वाचारःसुसंयतः आस्यतामिति चोक्तः सन्नासीताभिमुखंगुरोः हीनान्नवस्त्रवेशः स्यात् सर्वदा गुरुसन्निधौ ।उत्तिष्ठेत् प्रथमञ्चास्य चरमञ्चैव संविशेत् प्रतिश्रवण-सम्भाषे शयानो समाचरेत् नासीनो मुञ्जानीन तिष्ठन्न पराङ्मुखः आसीनस्य स्थितः कुर्य्यादभि-गच्छंस्तु तिष्ठतः प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तुधावतः पराङ्मुखस्याभिमुखीदूरस्थस्येत्य चान्तिकम् ।प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः नीचं शय्यासन-ञ्चास्य सर्वदा गुरुसन्निधौ गुरोस्तु चक्षुर्विषये यथेष्टा-सनोभवेत् नोदाहरेदस्य नाम परोक्षमपि केवलम्(अश्रीपूर्वम्) चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ।गुरोर्यत्र परीवादो निन्दा वापि प्रवर्त्तते कर्णौ तत्रपिधातव्यौ गन्तव्यं वा ततोऽन्यतः परीवादात् खरो-भवति श्वा वै भवति निन्दकः परिभीक्ता कृमिर्भवतिकीटो भवति मत्सरी दूरस्थो नार्च्चयेदेनं क्नुद्धंनान्तिके स्त्रियाः यानासने चैवैनमवरुह्याभिवा-दयेत् प्रतिवातेऽनुवाते नासीत गुरुणा सह ।असंश्रवे चैव गुरोर्न किञ्चिदपि कीर्त्तयेत् गोऽश्वो-ष्ट्रयानप्रासादस्रस्तरेषु कटेषु नासीत गुरुणा सार्द्धंशिलाफलकनौषु गुरोर्गुरौ सन्निहिते गुरुवद्वृत्ति-माचरेत् चानिसृष्टो गुरुणा स्वान् गुरूनभि-वादयेत् विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु ।प्रतिषेधत्सु चाधर्म्मान् हितञ्चोपदिशत्स्वपि ।”तान्त्रिकगुरौ वृत्तिभेदः तन्त्रसारे उक्तो यथा“गुरौ सन्निहिते यस्तु पूजयेदग्रतो तम् दुर्गतिमवाप्नोति पूजा विफला भवेत्” क्रियासारे “एकग्रामे स्थितःशिष्यस्त्रिसन्ध्यं प्रणमेद्गुरुम् क्रीशमात्रस्थितो भक्त्यागुरुं प्रतिदिनं नमेत् अर्द्ध योजनतः शिष्यः प्रणमेत्पञ्चपर्वसु एकयोजनमारभ्य योजनद्वादशावधि ।दूरदेशस्थितः शिष्यो भक्त्या तत्सन्निधिं गतः तत्रयोजनसंख्योक्तमानेन प्रणमेद्गुरुम्” ज्ञानार्णवे“गुरौ मनुष्यबुद्धिन्तु मन्त्रे चाक्षरभावनाम् प्रति-मासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेत् जन्महेतू हिपितरौ पूजनीयौ प्रयत्नतः गुरुर्विशेषतः पूज्यो धर्म्मा-धर्मप्रदर्शकः गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः ।शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे कश्चन गुरोर्हितंप्रकर्त्तव्यं वाङ्मनःकायकर्म्मभिः अहिताचरणाद्देवि!विष्ठायां जायते कृमिः मन्त्रत्यागाद्भवेन्मृत्युर्गुरुत्या-गाद्दरिद्रता गुरुमन्त्रपरित्यागाद्रौरवं नरकं व्रजेत् ।गुरौ सन्निहिते यस्तु पूजयेदन्यदेवताम् यातिनरकं घोरं पूजा विफला भवेत् एकत्र गुरुणासार्द्धं गच्छेद्वोपविशेत्तु यः याति नरकं घोरंयावदिन्द्राश्चतुर्दश गुरुवाक्यं हतं कृत्वा आत्मवाक्यंतु योजयेत् गुरूक्तं लङ्घयेद्यस्तु पतेत् नरकाय वै” ।श्रीक्रमे “उत्पादकव्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम् गुरुवद्-गुरुपुत्रेषु गुरुवत्तत्सुतादिषु अविद्यो वा सविद्यो वागुरुरेव दैवतम् अमार्गस्थोऽपि मार्गस्थो गुरुरेवसदा गतिः आयान्तमग्रतो गच्छेद् गच्छन्तं तमनुब्र-जेत् आसने शयने वापि तिष्ठेदग्रतो गुरोः अ-नुज्ञां प्राप्य तिष्ठेच्च नैवं पापमवाप्नुयात्” क्रिया-सारे “गुरुर्माता पिता स्वामी बान्धवः सुहृदः शिवः ।इत्याधाय मनो नित्यं भजेत् सर्वात्मना गुरुम्”
Capeller
German
गुरुवृत्ति
f.
das (richtige) Betragen gegen
den Lehrer
°पर sich desselben befleißigend.